२. दुतियवग्गो
१. ससीसकसुत्तवण्णना
२१२. पारदारिकवत्थुस्मिं सो सत्तो परस्स रक्खितगोपितं सस्सामिकं फस्सं फुसन्तो मीळ्हसुखेन कामसुखेन चित्तं रमयित्वा कम्मसभागताय गूथफस्सं फुसन्तो दुक्खमनुभवितुं तत्थ निब्बत्तो. पठमं.
२. गूथखादसुत्तवण्णना
२१३. दुट्ठब्राह्मणवत्थु पाकटमेव. दुतियं.
३. निच्छवित्थिसुत्तवण्णना
२१४. निच्छवित्थिवत्थुस्मिं यस्मा मातुगामो नाम अत्तनो फस्से अनिस्सरो, सा च तं सामिकस्स सन्तकं फस्सं थेनेत्वा परेसं अभिरतिं उप्पादेसि, तस्मा कम्मसभागताय सुखसम्फस्सा वट्टित्वा दुक्खसम्फस्सं अनुभवितुं निच्छवित्थी हुत्वा उप्पन्ना. ततियं.
४. मङ्गुलित्थिसुत्तवण्णना
२१५. मङ्गुलित्थिवत्थुस्मिं मङ्गुलिन्ति विरूपं दुद्दसिकं बीभच्छं. सा किर यक्खदासिकम्मं करोन्ती ‘‘इमिना च इमिना च एवं बलिकम्मे कते अयं नाम तुम्हाकं वड्ढि भविस्सती’’ति महाजनस्स गन्धपुप्फादीनि वञ्चनाय गहेत्वा महाजनं दुद्दिट्ठिं मिच्छादिट्ठिं गण्हापेसि, तस्मा ताय कम्मसभागताय गन्धपुप्फादीनं थेनितत्ता दुग्गन्धा, दुद्दस्सनस्स गाहितत्ता दुद्दसिका विरूपा बीभच्छा हुत्वा निब्बत्ता. चतुत्थं.
५. ओकिलिनीसुत्तवण्णना
२१६. ओकिलिनीवत्थुस्मिं उप्पक्कं ओकिलिनिं ओकिरिनिन्ति सा किर अङ्गारचितके निपन्ना विप्फन्दमाना विपरिवत्तमाना पच्चति, तस्मा उप्पक्का चेव होति उण्हेन अग्गिना पक्कसरीरा, ओकिलिनी च किलिन्नसरीरा, बिन्दूनिस्सा सरीरतो पग्घरन्ति, ओकिरिनी च अङ्गारसम्परिकिण्णा. तस्सा हि हेट्ठतोपि किंसुकपुप्फवण्णा अङ्गारा, उभयपस्सेसुपि, आकासतोपिस्सा उपरि पतन्ति. तेन वुत्तं – ‘‘उप्पक्कं ओकिलिनिं ओकिरिनि’’न्ति. सा इस्सापकता सपत्तिं अङ्गारकटाहेन ओकिरीति तस्स किर रञ्ञो एका नाटकिनी अङ्गारकटाहं समीपे ठपेत्वा गत्ततो उदकं पुञ्छति, पाणिना च सेदं करोति. राजापि ताय सद्धिं कथञ्च करोति, परितुट्ठाकारञ्च दस्सेति. अग्गमहेसी तं असहमाना इस्सापकता हुत्वा अचिरपक्कन्तस्स रञ्ञो तं अङ्गारकटाहं गहेत्वा तस्सा उपरि अङ्गारे ओकिरि. सा तं कम्मं कत्वा तादिसंयेव विपाकं पच्चनुभवितुं पेतलोके निब्बत्ता. पञ्चमं.
६. असीसकसुत्तवण्णना
२१७. चोरघातवत्थुस्मिं सो रञ्ञो आणाय दीघरत्तं चोरानं सीसानि छिन्दित्वा पेतलोके निब्बत्तन्तो असीसकं कबन्धं हुत्वा निब्बत्ति. छट्ठं.
७-११. पापभिक्खुसुत्तादिवण्णना
२१८-२२२. भिक्खुवत्थुस्मिं पापभिक्खूति लामकभिक्खु. सो किर लोकस्स सद्धादेय्ये चत्तारो पच्चये परिभुञ्जित्वा कायवचीद्वारेहि असंयतो भिन्नाजीवो चित्तकेळिं कीळन्तो विचरि. ततो एकं बुद्धन्तरं निरये पच्चित्वा पेतलोके निब्बत्तन्तो भिक्खुसदिसेनेव अत्तभावेन निब्बत्ति. भिक्खुनीसिक्खमानासामणेरसामणेरीवत्थूसुपि अयमेव विनिच्छयो. सत्तमादीनि.
लक्खणसंयुत्तवण्णना निट्ठिता.