७-१३. मातुसुत्तादिवण्णना
१८६-१८७. सत्तमे मातुपि हेतूति ‘‘सचे मुसा भणसि, मातरं ते विस्सज्जेस्साम. नो चे भणसि, न विस्सज्जेस्सामा’’ति एवं चोरेहि अटवियं पुच्छमानो तस्सा चोरहत्थगताय मातुयापि हेतु सम्पजानमुसा न भासेय्याति अत्थो. इतो परेसुपि एसेव नयोति. सत्तमादीनि.
लाभसक्कारसंयुत्तवण्णना निट्ठिता.