३. ततियवग्गो
१-२. मातुगामसुत्तादिवण्णना
१७०-१७१. ततियवग्गस्स पठमे न तस्स, भिक्खवे, मातुगामोति न तस्स रहो एककस्स निसिन्नस्स तेन धम्मेन अत्थिकोपि मातुगामो चित्तं परियादातुं सक्कोति, यस्स लाभसक्कारसिलोको चित्तं परियादातुं सक्कोतीति, अत्थो. दुतियं उत्तानमेवाति. पठमदुतियानि.
३-६. एकपुत्तकसुत्तादिवण्णना
१७२-१७५. ततिये सद्धाति सोतापन्ना. सेसमेत्थ उत्तानमेव. तथा चतुत्थे पञ्चमे छट्ठे च. ततियादीनि.
७. ततियसमणब्राह्मणसुत्तवण्णना
१७६. सत्तमे समुदयन्तिआदीसु सह पुब्बकम्मेन अत्तभावो कोलपुत्तियं वण्णपोक्खरता कल्याणवाक्करणता धुतगुणावीकरणं चीवरधारणं परिवारसम्पत्तीति एवमादि लाभसक्कारस्स समुदयो नाम, तं समुदयसच्चवसेन नप्पजानाति, निरोधो च पटिपदा च निरोधसच्चमग्गसच्चवसेनेव वेदितब्बा. सत्तमं.
८. छविसुत्तवण्णना
१७७. अट्ठमे यस्मा लाभसक्कारसिलोको नरकादीसु, निब्बत्तेन्तो सकलम्पि इमं अत्तभावं नासेति, इधापि मरणम्पि मरणमत्तम्पि दुक्खं आवहति, तस्मा छविं छिन्दतीतिआदि वुत्तं. अट्ठमं.
९. रज्जुसुत्तवण्णना
१७८. नवमे वाळरज्जुयाति सुत्तादिमया रज्जु मुदुका होति वाळरज्जु खरा फरुसा, तस्मा अयमेव गहिता. नवमं.
१०. भिक्खुसुत्तवण्णना
१७९. दसमे दिट्ठधम्मसुखविहाराति फलसमापत्तिसुखविहारा. तेसाहमस्साति तेसं अहं अस्स. खीणासवो हि लाभी पुञ्ञसम्पन्नो यागुखज्जकादीनि गहेत्वा आगतागतानं अनुमोदनं करोन्तो धम्मं देसेन्तो पञ्हं विस्सज्जेन्तो फलसमापत्तिं अप्पेत्वा निसीदितुं ओकासं न लभति, तं सन्धाय वुत्तन्ति. दसमं.
ततियो वग्गो.