९. वेरम्भसुत्तवण्णना

१६५. नवमे वेरम्भवाताति एवंनामका महावाता. कीदिसे पन ठाने ते वाता वायन्तीति? यत्थ ठितस्स चत्तारो दीपा उप्पलिनिपत्तमत्ता हुत्वा पञ्ञायन्ति. यो पक्खी गच्छतीति नववुट्ठे देवे विरवन्तो वातसकुणो तत्थ गच्छति, तं सन्धायेतं वुत्तं. अरक्खितेनेव कायेनातिआदीसु हत्थपादे कीळापेन्तो खन्धट्ठिं वा नामेन्तो कायं न रक्खति नाम, नानाविधं दुट्ठुल्लकथं कथेन्तो वाचं न रक्खति नाम, कामवितक्कादयो वितक्केन्तो चित्तं न रक्खति नाम. अनुपट्ठिताय सतियाति कायगतासतिं अनुपट्ठपेत्वा. नवमं.