९. झानाभिञ्ञसुत्तवण्णना
१५२. नवमे यावदेव आकङ्खामीति यावदेव इच्छामि. यानि पन इतो परं विविच्चेव कामेहीतिआदिना नयेन चत्तारि रूपावचरज्झानानि, सब्बसो रूपसञ्ञानं समतिक्कमातिआदिना नयेन चतस्सो अरूपसमापत्तियो, सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधन्ति एवं निरोधसमापत्ति, अनेकविहितं इद्धिविधन्तिआदिना नयेन पञ्च लोकिकाभिञ्ञा च वुत्ता. तत्थ यं वत्तब्बं सिया, तं सब्बं अनुपदवण्णनाय चेव भावनाविधानेन च सद्धिं विसुद्धिमग्गे (विसुद्धि. १.६९) वित्थारितमेव. छळभिञ्ञाय पन आसवानं खयाति आसवानं खयेन. अनासवन्ति आसवानं अपच्चयभूतं. चेतोविमुत्तिन्ति अरहत्तफलसमाधिं. पञ्ञाविमुत्तिन्ति अरहत्तफलपञ्ञं. नवमं.