५. जिण्णसुत्तवण्णना

१४८. पञ्चमे जिण्णोति थेरो महल्लको. गरुकानीति तं सत्थु सन्तिका लद्धकालतो पट्ठाय छिन्नभिन्नट्ठाने सुत्तसंसिब्बनेन चेव अग्गळदानेन च अनेकानि पटलानि हुत्वा गरुकानि जातानि. निब्बसनानीति पुब्बे भगवता निवासेत्वा अपनीतताय एवंलद्धनामानि. तस्माति यस्मा त्वं जिण्णो चेव गरुपंसुकूलो च. गहपतानीति पंसुकूलिकङ्गं विस्सज्जेत्वा गहपतीहि दिन्नचीवरानि धारेहीति वदति. निमन्तनानीति पिण्डपातिकङ्गं विस्सज्जेत्वा सलाकभत्तादीनि निमन्तनानि भुञ्जाहीति वदति. मम च सन्तिकेति आरञ्ञिकङ्गं विस्सज्जेत्वा गामन्तसेनासनेयेव वसाहीति वदति.

ननु च यथा राजा सेनापतिं सेनापतिट्ठाने ठपेत्वा तस्स राजूपट्ठानादिना अत्तनो कम्मेन आराधेन्तस्सेव तं ठानन्तरं गहेत्वा अञ्ञस्स ददमानो अयुत्तं नाम करोति, एवं सत्था महाकस्सपत्थेरस्स पच्चुग्गमनत्थाय तिगावुतं मग्गं गन्त्वा राजगहस्स च नाळन्दाय च अन्तरे बहुपुत्तकरुक्खमूले निसिन्नो तीहि ओवादेहि उपसम्पादेत्वा तेन सद्धिं अत्तनो चीवरं परिवत्तेत्वा थेरं जातिआरञ्ञिकङ्गञ्चेव जातिपंसुकूलिकङ्गञ्च अकासि, सो तस्मिं कत्तुकम्यताछन्देन सत्थु चित्तं आराधेन्तस्सेव पंसुकूलादीनि विस्सज्जापेत्वा गहपतिचीवरपटिग्गहणादीसु नियोजेन्तो अयुत्तं नाम करोतीति. न करोति. कस्मा? अत्तज्झासयत्ता. न हि सत्था धुतङ्गानि विस्सज्जापेतुकामो, यथा पन अघट्टिता भेरिआदयो सद्दं न विस्सज्जेन्ति, एवं अघट्टिता एवरूपा पुग्गला न सीहनादं नदन्तीति नदापेतुकामो सीहनादज्झासयेन एवमाह. थेरोपि सत्थु अज्झासयानुरूपेनेव ‘‘अहं खो, भन्ते, दीघरत्तं आरञ्ञिको चेवा’’तिआदिना नयेन सीहनादं नदति.

दिट्ठधम्मसुखविहारन्ति दिट्ठधम्मसुखविहारो नाम आरञ्ञिकस्सेव लब्भति, नो गामन्तवासिनो. गामन्तस्मिञ्हि वसन्तो दारकसद्दं सुणाति, असप्पायरूपानि पस्सति, असप्पाये सद्दे सुणाति, तेनस्स अनभिरति उप्पज्जति. आरञ्ञिको पन गावुतं वा अड्ढयोजनं वा अतिक्कमित्वा अरञ्ञं अज्झोगाहेत्वा वसन्तो दीपिब्यग्घसीहादीनं सद्दे सुणाति, येसं सवनपच्चया अमानुसिकासवनरति उप्पज्जति. यं सन्धाय वुत्तं –

‘‘सुञ्ञागारं पविट्ठस्स, सन्तचित्तस्स भिक्खुनो;

अमानुसी रती होति, सम्मा धम्मं विपस्सतो.

‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं;

लभती पीतिपामोज्जं, अमतं तं विजानतं. (ध. प. ३७३-३७४);

‘‘पुरतो पच्छतो वापि, अपरो चे न विज्जति;

तत्थेव फासु भवति, एकस्स रमतो वने’’ति.

तथा पिण्डपातिकस्सेव लब्भति, नो अपिण्डपातिकस्स. अपिण्डपातिको हि अकालचारी होति, तुरितचारं गच्छति, परिवत्तेति, पलिबुद्धोव गच्छति, तत्थ च बहुसंसयो होति. पिण्डपातिको पन न अकालचारी होति, न तुरितचारं गच्छति, न परिवत्तेति, अपलिबुद्धोव गच्छति, तत्थ च न बहुसंसयो होति.

कथं? अपिण्डपातिको हि गामतो दूरविहारे वसमानो कालस्सेव ‘‘यागुं वा पारिवासिकभत्तं वा लच्छामि, आसनसालाय वा पन उद्देसभत्तादीसु किञ्चिदेव मय्हं पापुणिस्सती’’ति मक्कटकसुत्तानि छिन्दन्तो सयितगोरूपानि उट्ठापेन्तो पातोव गच्छन्तो अकालचारी होति. मनुस्से खेत्तकम्मादीनं अत्थाय गेहा निक्खन्तेयेव सम्पापुणितुं मिगं अनुबन्धन्तो विय वेगेन गच्छन्तो तुरितचारी होति. अन्तरा किञ्चिदेव दिस्वा ‘‘असुकउपासको वा असुकउपासिका वा गेहे, नो गेहे’’ति पुच्छति, ‘‘नो गेहे’’ति सुत्वा ‘‘इदानि कुतो लभिस्सामी’’ति? अग्गिदड्ढो विय पवेधति, सयं पच्छिमदिसं गन्तुकामो पाचीनदिसाय सलाकं लभित्वा अञ्ञं पच्छिमदिसाय लद्धसलाकं उपसङ्कमित्वा, ‘‘भन्ते, अहं पच्छिमदिसं गमिस्सामि, मम सलाकं तुम्हे गण्हथ, तुम्हाकं सलाकं मय्हं देथा’’ति सलाकं परिवत्तेति. एकं वा पन सलाकभत्तं आहरित्वा परिभुञ्जन्तो ‘‘अपरस्सापि सलाकभत्तस्स पत्तं देथा’’ति मनुस्सेहि वुत्ते, ‘‘भन्ते, तुम्हाकं पत्तं देथ, अहं मय्हं पत्ते भत्तं पक्खिपित्वा तुम्हाकं पत्तं दस्सामी’’ति अञ्ञस्स पत्तं दापेत्वा भत्ते आहटे अत्तनो पत्ते पक्खिपित्वा पत्तं पटिदेन्तो पत्तं परिवत्तेति नाम. विहारे राजराजमहामत्तादयो महादानं देन्ति, इमिना च भिय्यो दूरगामे सलाका लद्धा, तत्थ अगच्छन्तो पुन सत्ताहं सलाकं न लभतीति अलाभभयेन गच्छति, एवं गच्छन्तो पलिबुद्धो हुत्वा गच्छति नाम. यस्स चेस सलाकभत्तादिनो अत्थाय गच्छति, ‘‘तं दस्सन्ति नु खो मे, उदाहु न दस्सन्ति, पणीतं नु खो दस्सन्ति, उदाहु लूखं, थोकं नु खो, उदाहु बहुकं, सीतलं नु खो, उदाहु उण्ह’’न्ति एवं तत्थ च बहुसंसयो होति.

पिण्डपातिको पन कालस्सेव वुट्ठाय वत्तपटिवत्तं कत्वा सरीरं पटिजग्गित्वा वसनट्ठानं पविसित्वा कम्मट्ठानं मनसिकत्वा कालं सल्लक्खेत्वा महाजनस्स उळुङ्कभिक्खादीनि दातुं पहोनककाले गच्छतीति न अकालचारी होति, एकेकं पदवारं छ कोट्ठासे कत्वा विपस्सन्तो गच्छतीति न तुरितचारी होति, अत्तनो गरुभावेन ‘‘असुको गेहे, न गेहे’’ति न पुच्छति, सलाकभत्तादीनियेव न गण्हाति. अगण्हन्तो किं परिवत्तेस्सति? न अञ्ञस्स वसेन पलिबुद्धोव होति, कम्मट्ठानं मनसिकरोन्तो यथारुचि गच्छति, इतरो विय न बहुसंसयो होति. एकस्मिं गामे वा वीथिया वा अलभित्वा अञ्ञत्थ चरति. तस्मिम्पि अलभित्वा अञ्ञत्थ चरन्तो मिस्सकोदनं सङ्कड्ढित्वा अमतं विय परिभुञ्जित्वा गच्छति.

पंसुकूलिकस्सेव लब्भति, नो अपंसुकूलिकस्स. अपंसुकूलिको हि वस्सावासिकं परियेसन्तो चरति, न सेनासनसप्पायं परियेसति. पंसुकूलिको पन न वस्सावासिकं परियेसन्तो चरति, सेनासनसप्पायमेव परियेसति. तेचीवरिकस्सेव लब्भति, न इतरस्स. अतेचीवरिको हि बहुभण्डो बहुपरिक्खारो होति, तेनस्स फासुविहारो नत्थि. अप्पिच्छादीनञ्चेव लब्भति, न इतरेसन्ति. तेन वुत्तं – ‘‘अत्तनो च दिट्ठधम्मसुखविहारं सम्पस्समानो’’ति. पञ्चमं.