४. खीरसुत्तवण्णना

१२७. चतुत्थे मातुथञ्ञन्ति एकनामिकाय मनुस्समातु खीरं. इमेसञ्हि सत्तानं गण्डुप्पादकिपिल्लिकादीसु वा मच्छकच्छपादीसु वा पक्खिजातेसु वा निब्बत्तकाले मातुखीरमेव नत्थि, अजपसुमहिंसादीसु निब्बत्तकाले खीरं अत्थि, तथा मनुस्सेसु. तत्थ अजादिकाले च मनुस्सेसु चापि ‘‘देवी सुमना तिस्सा’’ति एवं नानानामिकानं कुच्छियं निब्बत्तकाले अग्गहेत्वा तिस्साति एकनामिकाय एव मातु कुच्छियं निब्बत्तकाले पीतं थञ्ञं चतूसु महासमुद्देसु उदकतो बहुतरन्ति वेदितब्बं. चतुत्थं.