७. विसाखसुत्तवण्णना

२४१. सत्तमे पोरिया वाचायाति पुरवासीनं नगरमनुस्सानं वाचासदिसाय अपरिहीनक्खरपदाय मधुरवाचाय. विस्सट्ठायाति असन्दिद्धाय अपलिबुद्धाय, पित्तसेम्हेहि अनुपहतायाति अत्थो. अनेलगलायाति यथा दन्धमनुस्सा मुखेन खेळं गळन्तेन वाचं भासन्ति, न एवरूपाय, अथ खो निद्दोसाय विसदवाचाय. परियापन्नायाति चतुसच्चपरियापन्नाय चत्तारि सच्चानि अमुञ्चित्वा पवत्ताय. अनिस्सितायाति वट्टनिस्सितं कत्वा अकथिताय. धम्मो हि इसिनं धजोति नवविधलोकुत्तरधम्मो इसीनं धजो नामाति. सत्तमं.