८. कुलघरणीसुत्तवण्णना

२२८. अट्ठमे अज्झोगाळ्हप्पत्तोति ओगाहप्पत्तो. सो किर सत्थु सन्तिके कम्मट्ठानं गहेत्वा तं वनसण्डं पविसित्वा दुतियदिवसे गामं पिण्डाय पाविसि पासादिकेहि अभिक्कन्तादीहि. अञ्ञतरं कुलं तस्स इरियापथे पसीदित्वा पञ्चपतिट्ठितेन वन्दित्वा पिण्डपातं अदासि. भत्तानुमोदनं पुन सुत्वा अतिरेकतरं पसीदित्वा, ‘‘भन्ते, निच्चकालं इधेव भिक्खं गण्हथा’’ति निमन्तेसि. थेरो अधिवासेत्वा तेसं आहारं परिभुञ्जमानो वीरियं पग्गय्ह घटेन्तो अरहत्तं पत्वा चिन्तेसि – ‘‘बहूपकारं मे एतं कुलं, अञ्ञत्थ गन्त्वा किं करिस्सामी’’ति? फलसमापत्तिसुखं अनुभवन्तो तत्थेव वसि. अज्झभासीति सा किर थेरस्स खीणासवभावं अजानन्ती चिन्तेसि – ‘‘अयं थेरो नेव अञ्ञं गामं गच्छति, न अञ्ञं घरं, न रुक्खमूलआसनसालादीसु निसीदति, निच्चकालं घरं पविसित्वाव निसीदति, उभोपेते ओगाधप्पत्ता पटिगाधप्पत्ता, कदाचि एस इमं कुलं दूसेय्य, चोदेस्सामि न’’न्ति. तस्मा अभासि.

सण्ठानेति नगरद्वारस्स आसन्ने मनुस्सानं भण्डकं ओतारेत्वा विस्समनट्ठाने. सङ्गम्माति समागन्त्वा. मन्तेन्तीति कथेन्ति. मञ्च तञ्चाति मञ्च कथेन्ति तञ्च कथेन्ति. किमन्तरन्ति किं कारणं? बहू हि सद्दा पच्चूहाति बहुका एते लोकस्मिं पटिलोमसद्दा. न तेनाति तेन कारणेन, तेन वा तपस्सिना न मङ्कु होतब्बं. न हि तेनाति न हि तेन परेहि वुत्तवचनेन सत्तो किलिस्सति, अत्तना कतेन पन पापकम्मेनेव किलिस्सतीति दस्सेति. वातमिगो यथाति यथा वने वातमिगो वातेरितानं पण्णादीनं सद्देन परितस्सति, एवं यो सद्दपरित्तासी होतीति अत्थो. नास्स सम्पज्जते वतन्ति तस्स लहुचित्तस्स वतं न सम्पज्जति. थेरो पन खीणासवत्ता सम्पन्नवतोति वेदितब्बो. अट्ठमं.