६. अनुरुद्धसुत्तवण्णना

२२६. छट्ठे पुराणदुतियिकाति अनन्तरे अत्तभावे अग्गमहेसी. सोभसीति पुब्बेपि सोभसि, इदानिपि सोभसि. दुग्गताति न गतिदुग्गतिया दुग्गता. ता हि सुगतियं ठिता सम्पत्तिं अनुभवन्ति, पटिपत्तिदुग्गतिया पन दुग्गता. ततो चुता हि ता निरयेपि उपपज्जन्तीति दुग्गता. पतिट्ठिताति सक्कायस्मिं हि पतिट्ठहन्तो अट्ठहि कारणेहि पतिट्ठाति – रत्तो रागवसेन पतिट्ठाति, दुट्ठो दोसवसेन… मूळ्हो मोहवसेन… विनिबद्धो मानवसेन… परामट्ठो दिट्ठिवसेन… थामगतो अनुसयवसेन… अनिट्ठङ्गतो विचिकिच्छावसेन… विक्खेपगतो उद्धच्चवसेन पतिट्ठाति. तापि एवं पतिट्ठिताव. नरदेवानन्ति देवनरानं.

नत्थि दानीति सा किर देवधीता थेरे बलवसिनेहा अहोसि, पटिगन्तुं नासक्खि. कालेन आगन्त्वा परिवेणं सम्मज्जति, मुखोदकं दन्तकट्ठं पानीयं परिभोजनीयं उपट्ठपेति. थेरो अनावज्जनेन परिभुञ्जति. एकस्मिं दिवसे थेरस्स जिण्णचीवरस्स चोळकभिक्खं चरतो सङ्कारकूटे दिब्बदुस्सं ठपेत्वा पक्कमि. थेरो तं दिस्वा उक्खिपित्वा, ओलोकेन्तो दुस्सन्तं दिस्वा ‘‘दुस्समेत’’न्ति ञत्वा, ‘‘अलं एत्तावता’’ति अग्गहेसि. तेनेवस्स चीवरं निट्ठासि. अथ द्वे अग्गसावका अनुरुद्धत्थेरो चाति तयो जना चीवरं करिंसु. सत्था सूचिं योजेत्वा अदासि. निट्ठितचीवरस्स पिण्डाय चरतो देवता पिण्डपातं समादपेति. सा कालेन एकिका, कालेन अत्तदुतिया थेरस्स सन्तिकं आगच्छति. तदा पन अत्तततिया आगन्त्वा दिवाट्ठाने थेरं उपसङ्कमित्वा – ‘‘मयं मनापकायिका नाम मनसा इच्छितिच्छितरूपं मापेमा’’ति आह. थेरो – ‘‘एता एवं वदन्ति, वीमंसिस्सामि, सब्बा नीलका होन्तू’’ति चिन्तेसि. ता थेरस्स मनं ञत्वा सब्बाव नीलवण्णा अहेसुं, एवं पीतलोहितओदातवण्णाति. ततो चिन्तयिंसु – ‘‘थेरो अम्हाकं दस्सनं अस्सादेती’’ति ता समज्जं कातुं आरद्धा, एकापि गायि, एकापि नच्चि, एकापि अच्छरं पहरि. थेरो इन्द्रियानि ओक्खिपि. ततो – ‘‘न अम्हाकं दस्सनं थेरो अस्सादेती’’ति ञत्वा सिनेहं वा सन्थवं वा अलभमाना निब्बिन्दित्वा गन्तुमारद्धा. थेरो तासं गमनभावं ञत्वा – ‘‘मा पुनप्पुनं आगच्छिंसू’’ति अरहत्तं ब्याकरोन्तो इमं गाथमाह. तत्थ विक्खीणोति खीणो. जातिसंसारोति तत्थ तत्थ जातिसङ्खातो संसारो. छट्ठं.