५. आनन्दसुत्तवण्णना
२२५. पञ्चमे आनन्दोति धम्मभण्डागारिकत्थेरो. अतिवेलन्ति अतिक्कन्तं वेलं. गिहिसञ्ञत्तिबहुलोति रत्तिञ्च दिवा च बहुकालं गिही सञ्ञापयन्तो. भगवति परिनिब्बुते महाकस्सपत्थेरो थेरं आह – ‘‘आवुसो, मयं राजगहे वस्सं उपगन्त्वा धम्मं सङ्गायिस्साम, गच्छ त्वं अरञ्ञं पविसित्वा उपरिमग्गत्तयत्थाय वायामं करोही’’ति. सो भगवतो पत्तचीवरमादाय कोसलरट्ठं गन्त्वा एकस्मिं अरञ्ञावासे वसित्वा पुनदिवसे एकं गामं पाविसि. मनुस्सा थेरं दिस्वा – ‘‘भन्ते आनन्द, तुम्हे पुब्बे सत्थारा सद्धिं आगच्छथ. अज्ज एककाव आगता. कहं सत्थारं ठपेत्वा आगतत्थ? इदानि कस्स पत्तचीवरं गहेत्वा विचरथ? कस्स मुखोदकं दन्तकट्ठं देथ, परिवेणं सम्मज्जथ, वत्तपटिवत्तं करोथा’’ति बहुं वत्वा परिदेविंसु. थेरो – ‘‘मा, आवुसो, सोचित्थ, मा परिदेवित्थ, अनिच्चा सङ्खारा’’तिआदीनि वत्वा ते सञ्ञापेत्वा भत्तकिच्चावसाने वसनट्ठानमेव गच्छति. मनुस्सा सायम्पि तत्थ गन्त्वा तथेव परिदेवन्ति. थेरोपि तथेव ओवदति. तं सन्धायेतं वुत्तं. अज्झभासीति ‘‘अयं थेरो भिक्खुसङ्घस्स कथं सुत्वा ‘समणधम्मं करिस्सामी’ति अरञ्ञं पविसित्वा इदानि गिही सञ्ञापेन्तो विहरति, सत्थु सासनं असङ्गहितपुप्फरासि विय ठितं, धम्मसङ्गहं न करोति, चोदेस्सामि न’’न्ति चिन्तेत्वा अभासि.
पसक्कियाति पविसित्वा. हदयस्मिं ओपियाति किच्चतो च आरम्मणतो च हदयम्हि पक्खिपित्वा. ‘‘निब्बानं पापुणिस्सामी’’ति वीरियं करोन्तो निब्बानं किच्चतो हदयम्हि ओपेति नाम, निब्बानारम्मणं पन समापत्तिं अप्पेत्वा निसीदन्तो आरम्मणतो. तदुभयम्पि सन्धायेसा भासति. झायाति द्वीहि झानेहि झायिको भव. बिळिबिळिकाति अयं गिहीहि सद्धिं बिळिबिळिकथा. पञ्चमं.