४. सम्बहुलसुत्तवण्णना

२२४. चतुत्थे सम्बहुलाति बहू सुत्तन्तिका आभिधम्मिका विनयधरा च. विहरन्तीति सत्थु सन्तिके कम्मट्ठानं गहेत्वा विहरन्ति. पक्कमिंसूति ते किर तस्मिं जनपदे अञ्ञतरं गामं उपसङ्कमन्ते दिस्वा मनुस्सा पसन्नचित्ता आसनसालाय कोजवत्थरणादीनि पञ्ञापेत्वा यागुखज्जकानि दत्वा उपनिसीदिंसु. महाथेरो एकं धम्मकथिकं ‘‘धम्मं कथेही’’ति आह. सो चित्तं धम्मकथं कथेसि. मनुस्सा पसीदित्वा भोजनवेलायं पणीतभोजनं अदंसु. महाथेरो मनुञ्ञं भत्तानुमोदनमकासि. मनुस्सा भिय्योसोमत्ताय पसन्ना ‘‘इधेव, भन्ते, तेमासं वसथा’’ति पटिञ्ञं कारेत्वा गमनागमनसम्पन्ने ठाने सेनासनानि कारेत्वा चतूहि पच्चयेहि उपट्ठहिंसु. महाथेरो वस्सूपनायिकदिवसे भिक्खू ओवदि – ‘‘आवुसो, तुम्हेहि गरुकस्स सत्थु सन्तिके कम्मट्ठानं गहितं, बुद्धपातुभावो नाम दुल्लभो. मासस्स अट्ठ दिवसे धम्मस्सवनं कत्वा गणसङ्गणिकं पहाय अप्पमत्ता विहरथा’’ति. ते ततो पट्ठाय युञ्जन्ति घटेन्ति. कदाचि सब्बरत्तिकं धम्मस्सवनं करोन्ति, कदाचि पञ्हं विस्सज्जेन्ति, कदाचि पधानं करोन्ति. तेसं धम्मस्सवनदिवसे धम्मं कथेन्तानंयेव अरुणो उग्गच्छति. पञ्हाविस्सज्जनदिवसे ब्यत्तो भिक्खु पञ्हं पुच्छति, पण्डितो विस्सज्जेतीति पुच्छनविस्सज्जनं करोन्तानंयेव. पधानदिवसे सूरियत्थङ्गमने गण्डिं पहरित्वाव चङ्कमं ओतरित्वा पधानं करोन्तानंयेव. ते एवं वस्सं वस्सित्वा पवारेत्वा पक्कमिंसु. तं सन्धायेतं वुत्तं. परिदेवमानाति ‘‘इदानि तथारूपं मधुरं धम्मस्सवनं पञ्हाकथनं कुतो लभिस्सामी’’तिआदीनि वत्वा रोदमाना.

खायतीति पञ्ञायति उपट्ठाति. को मेति कहं इमे. वज्जिभूमियाति वज्जिरट्ठाभिमुखा गता. मगा वियाति यथा मगा तस्मिं तस्मिं पब्बतपादे वा वनसण्डे वा विचरन्ता – ‘‘इदं अम्हाकं मातुसन्तकं पितुसन्तकं पवेणिआगत’’न्ति अगहेत्वा, यत्थेव नेसं गोचरफासुता च होति परिपन्थाभावो च, तत्थ विचरन्ति. एवं अनिकेता अगेहा भिक्खवोपि ‘‘अयं, आवुसो, अम्हाकं आचरियुपज्झायानं सन्तको पवेणिआगतो’’ति अगहेत्वा यत्थेव नेसं उतुसप्पायं भोजनसप्पायं पुग्गलसप्पायं सेनासनसप्पायं धम्मस्सवनसप्पायञ्च सुलभं होति, तत्थ विहरन्ति. चतुत्थं.