३. कस्सपगोत्तसुत्तवण्णना
२२३. ततिये छेतन्ति एकं मिगलुद्दकं. ओवदतीति सो किर मिगलुद्दको पातोव भुञ्जित्वा ‘‘मिगे वधिस्सामी’’ति अरञ्ञं पविट्ठो एकं रोहितमिगं दिस्वा ‘‘सत्तिया नं पहरिस्सामी’’ति अनुबन्धमानो थेरस्स पठमसुत्ते वुत्तनयेनेव दिवाविहारं निसिन्नस्स अविदूरेन पक्कमति. अथ नं थेरो – ‘‘उपासक, पाणातिपातो नामेस अपायसंवत्तनिको अप्पायुकसंवत्तनिको, सक्का अञ्ञेनपि कसिवणिज्जादिकम्मेन दारभरणं कातुं, मा एवरूपं कक्खळकम्मं करोही’’ति आह. सोपि ‘‘महापंसुकूलिकत्थेरो कथेती’’ति गारवेन ठत्वा सोतुं आरद्धो. अथस्स सोतुकामतं जनेस्सामीति थेरो अङ्गुट्ठकं जालापेसि. सो अक्खीहिपि पस्सति, कण्णेहिपि सुणाति, चित्तं पनस्स ‘‘असुकट्ठानं मिगो गतो भविस्सति, असुकतित्थं ओतिण्णो, तत्थ नं गन्त्वा घातेत्वा यावदिच्छकं मंसं खादित्वा सेसं काजेनादाय गन्त्वा पुत्तके तोसेस्सामी’’ति एवं मिगस्सेव अनुपदं धावति. एवं विक्खित्तचित्तस्स धम्मं देसेन्तं थेरं सन्धाय वुत्तं ‘‘ओवदती’’ति. अज्झभासीति ‘‘अयं थेरो अदारुं तच्छन्तो विय अखेत्ते वप्पन्तो विय अत्तनोपि कम्मं नासेति, एतस्सापि चोदेस्सामि न’’न्ति अभासि.
अप्पपञ्ञन्ति निप्पञ्ञं. अचेतसन्ति कारणजाननसमत्थेन चित्तेन रहितं. मन्दोवाति अन्धबालो विय. सुणातीति तव धम्मकथं सुणाति. न विजानातीति अत्थमस्स न जानाति. आलोकेतीति तव पुथुज्जनिकइद्धिया जलन्तं अङ्गुट्ठकं आलोकेति. न पस्सतीति एत्थ ‘‘नेव तेलं न वट्टि न दीपकपल्लिका, थेरस्स पन आनुभावेनायं जलती’’ति इमं कारणं न पस्सति. दस पज्जोतेति दससु अङ्गुलीसु दस पदीपे. रूपानीति कारणरूपानि. चक्खूति पञ्ञाचक्खु. संवेगमापादीति किं मे इमिनाति? वीरियं पग्गय्ह परमविवेकं अरहत्तमग्गं पटिपज्जि. ततियं.