५. सुभासितसुत्तवण्णना
२१३. पञ्चमे अङ्गेहीति कारणेहि, अवयवेहि वा. मुसावादावेरमणिआदीनि हि चत्तारि सुभासितवाचाय कारणानि, सच्चवचनादयो चत्तारो अवयवा. कारणत्थे च अङ्गसद्दे ‘‘चतूही’’ति निस्सक्कवचनं होति, अवयवत्थे करणवचनं. समन्नागताति समनुआगता पवत्ता युत्ता च. वाचाति समुल्लपनवाचा, या ‘‘वाचा गिरा ब्यप्पथो’’ति (ध. स. ६३६) च, ‘‘नेला कण्णसुखा’’ति (दी. नि. १.९) च आगता. ‘‘या पन वाचाय चे कतं कम्म’’न्ति एवं विञ्ञत्ति च ‘‘या चतूहि वचीदुच्चरितेहि आरति…पे… अयं वुच्चति सम्मावाचा’’ति (विभ. २०६) एवं विरति च, ‘‘फरुसवाचा, भिक्खवे, आसेविता भाविता बहुलीकता निरयसंवत्तनिका होती’’ति (अ. नि. ८.४०) एवं चेतना च वाचाति आगता, न सा इध अधिप्पेता. कस्मा? अभासितब्बतो. सुभासिताति सुट्ठु भासिता. तेनस्सा अत्थावहतं दीपेति. नो दुब्भासिताति न दुट्ठु भासिता. तेनस्सा अनत्थावहनपहानतं दीपेति. अनवज्जाति रागादिवज्जरहिता. इमिनास्सा कारणसुद्धिं चतुदोसाभावञ्च दीपेति. अननुवज्जाति अनुवादविमुत्ता. इमिनास्सा सब्बाकारसम्पत्तिं दीपेति. विञ्ञूनन्ति पण्डितानं. तेन निन्दापसंसासु बाला अप्पमाणाति दीपेति.
सुभासितंयेव भासतीति पुग्गलाधिट्ठानाय देसनाय चतूसु वाचङ्गेसु अञ्ञतरनिद्दोसवचनमेतं. नो दुब्भासितन्ति तस्सेव वाचङ्गस्स पटिपक्खभासननिवारणं. नो दुब्भासितन्ति इमिना मिच्छावाचप्पहानं दीपेति. सुभासितन्ति इमिना पहीनमिच्छावाचेन भासितब्बवचनलक्खणं. अङ्गपरिदीपनत्थं पनेत्थ अभासितब्बं पुब्बे अवत्वा भासितब्बमेवाह. एस नयो धम्मंयेवातिआदीसुपि. एत्थ च पठमेन पिसुणदोसरहितं समग्गकरणं वचनं वुत्तं, दुतियेन सम्फप्पलापदोसरहितं धम्मतो अनपेतं मन्तावचनं, इतरेहि द्वीहि फरुसालिकरहितानि पियसच्चवचनानि. इमेहि खोति आदिना तानि अङ्गानि पच्चक्खतो दस्सेन्तो तं वाचं निगमेति. यञ्च अञ्ञे पटिञ्ञादीहि अवयवेहि, नामादीहि पदेहि, लिङ्गवचनविभत्तिकालकारकसम्पत्तीहि च समन्नागतं मुसावादादिवाचम्पि सुभासितन्ति मञ्ञन्ति, तं पटिसेधेति. अवयवादिसमन्नागतापि हि तथारूपी वाचा दुब्भासिताव होति अत्तनो च परेसञ्च अनत्थावहत्ता. इमेहि पन चतूहङ्गेहि समन्नागता सचेपि मिलक्खुभासापरियापन्ना घटचेटिकागीतिकपरियापन्नापि होति, तथापि सुभासिताव लोकियलोकुत्तरहितसुखावहत्ता. तथा हि मग्गपस्से सस्सं रक्खन्तिया सीहळचेटिकाय सीहळकेनेव जातिजरामरणयुत्तं गीतिकं गायन्तिया सद्दं सुत्वा मग्गं गच्छन्ता सट्ठिमत्ता विपस्सका भिक्खू अरहत्तं पापुणिंसु. तथा तिस्सो नाम आरद्धविपस्सको भिक्खु पदुमसरसमीपेन गच्छन्तो पदुमसरे पदुमानि भञ्जित्वा –
‘‘पातोव फुल्लितकोकनदं, सूरियालोकेन भिज्जियते;
एवं मनुस्सत्तं गता सत्ता, जराभिवेगेन मद्दियन्ती’’ति. –
इमं गीतिकं गायन्तिया चेटिकाय सुत्वा अरहत्तं पत्तो.
बुद्धन्तरेपि अञ्ञतरो पुरिसो सत्तहि पुत्तेहि सद्धिं अटवितो आगम्म अञ्ञतराय इत्थिया मुसलेन तण्डुले कोट्टेन्तिया –
‘‘जराय परिमद्दितं एतं, मिलातछविचम्मनिस्सितं;
मरणेन भिज्जति एतं, मच्चुस्स घासमामिसं.
‘‘किमीनं आलयं एतं, नानाकुणपेन पूरितं;
असुचिस्स भाजनं एतं, कदलिक्खन्धसमं इद’’न्ति. –
इमं गीतिकं सुत्वा पच्चवेक्खन्तो सह पुत्तेहि पच्चेकबोधिं पत्तो. एवं इमेहि चतूहि अङ्गेहि समन्नागता वाचा सचेपि मिलक्खुभासापरियापन्ना घटचेटिकागीतिकपरियापन्नापि होति, तथापि सुभासिताति वेदितब्बा. सुभासितत्ता एव च अनवज्जा च अननुवज्जा च विञ्ञूनं अत्थत्थिकानं अत्थपटिसरणानं, नो ब्यञ्जनपटिसरणानन्ति.
सारुप्पाहीति अनुच्छविकाहि. अभित्थवीति पसंसि. न तापयेति विप्पटिसारेन न तापेय्य न विबाधेय्य. परेति परेहि भिन्दन्तो नाभिभवेय्य न बाधेय्य. इति इमाय गाथाय अपिसुणवाचावसेन भगवन्तं थोमेति. पटिनन्दिताति पियायिता. यं अनादायाति यं वाचं भासन्तो परेसं पापानि अप्पियानि फरुसवचनानि अनादाय अत्थब्यञ्जनमधुरं पियमेव भासति, तं वाचं भासेय्याति पियवाचावसेन अभित्थवि.
अमताति साधुभावेन अमतसदिसा. वुत्तम्पि हेतं – ‘‘सच्चं हवे सादुतरं रसान’’न्ति (सं. नि. १.२४६) निब्बानामतपच्चयत्ता वा अमता. एस धम्मो सनन्तनोति या अयं सच्चवाचा नाम, एस पोराणो धम्मो चरिया पवेणी. इदमेव हि पोराणानं आचिण्णं, न ते अलिकं भासिंसु. तेनेवाह – सच्चे अत्थे च धम्मे च, आहु सन्तो पतिट्ठिताति.
तत्थ सच्चे पतिट्ठितत्ताव अत्तनो च परेसञ्च अत्थे पतिट्ठिता, अत्थे पतिट्ठितत्ता एव धम्मे पतिट्ठिता होन्तीति वेदितब्बा. सच्चविसेसनमेव वा एतं. इदं हि वुत्तं होति – सच्चे पतिट्ठिता, कीदिसे? अत्थे च धम्मे च, यं परेसं अत्थतो अनपेतत्ता अत्थं अनुपरोधकरं, धम्मतो अनपेतत्ता धम्मं धम्मिकमेव अत्थं साधेतीति. इति इमाय गाथाय सच्चवचनवसेन अभित्थवि.
खेमन्ति अभयं निरुपद्दवं. केन कारणेनाति चे. निब्बानपत्तिया दुक्खस्सन्तकिरियाय, यस्मा किलेसनिब्बानं पापेति, वट्टदुक्खस्स च अन्तकिरियाय संवत्ततीति अत्थो. अथ वा यं बुद्धो निब्बानपत्तिया दुक्खस्सन्तकिरियायाति द्विन्नं निब्बानधातूनं अत्थाय खेममग्गप्पकासनतो खेमं वाचं भासति, सा वे वाचानमुत्तमाति सा वाचा सब्बवाचानं सेट्ठाति एवमेत्थ अत्थो दट्ठब्बो. इति इमाय गाथाय मन्तावचनवसेन भगवन्तं अभित्थवन्तो अरहत्तनिकूटेन देसनं निट्ठपेसीति. पञ्चमं.