४. आनन्दसुत्तवण्णना
२१२. चतुत्थे रागोति आयस्मा आनन्दो महापुञ्ञो सम्भावितो, तं राजराजमहामत्तादयो निमन्तेत्वा अन्तोनिवेसने निसीदापेन्ति. सब्बालङ्कारपटिमण्डितापि इत्थियो थेरं उपसङ्कमित्वा वन्दित्वा तालवण्टेन बीजेन्ति, उपनिसीदित्वा पञ्हं पुच्छन्ति धम्मं सुणन्ति. तत्थ आयस्मतो वङ्गीसस्स नवपब्बजितस्स आरम्मणं परिग्गहेतुं असक्कोन्तस्स इत्थिरूपारम्मणे रागो चित्तं अनुद्धंसेति. सो सद्धापब्बजितत्ता उजुजातिको कुलपुत्तो ‘‘अयं मे रागो वड्ढित्वा दिट्ठधम्मिकसम्परायिकं अत्थं नासेय्या’’ति चिन्तेत्वा अनन्तरं निसिन्नोव थेरस्स अत्तानं आविकरोन्तो कामरागेनातिआदिमाह.
तत्थ निब्बापनन्ति रागनिब्बानकारणं. विपरियेसाति विपल्लासेन. सुभं रागूपसञ्हितन्ति रागट्ठानियं इट्ठारम्मणं. परतो पस्साति अनिच्चतो पस्स. मा च अत्ततोति अत्ततो मा पस्स. कायगता त्यत्थूति कायगता ते अत्थु. अनिमित्तञ्च भावेहीति निच्चादीनं निमित्तानं उग्घाटितत्ता विपस्सना अनिमित्ता नाम, तं भावेहीति वदति. मानाभिसमयाति मानस्स दस्सनाभिसमया चेव पहानाभिसमया च. उपसन्तोति रागादिसन्तताय उपसन्तो. चतुत्थं.