३. पेसलसुत्तवण्णना

२११. ततिये अतिमञ्ञतीति ‘‘किं इमे महल्लका? न एतेसं पाळि, न अट्ठकथा, न पदब्यञ्जनमधुरता, अम्हाकं पन पाळिपि अट्ठकथापि नयसतेन नयसहस्सेन उपट्ठाती’’ति अतिक्कमित्वा मञ्ञति. गोतमाति गोतमबुद्धसावकत्ता अत्तानं आलपति. मानपथन्ति मानारम्मणञ्चेव मानसहभुनो च धम्मे. विप्पटिसारीहुवाति विप्पटिसारी अहुवा, अहोसीति अत्थो. मग्गजिनोति मग्गेन जितकिलेसो. कित्तिञ्च सुखञ्चाति वण्णभणनञ्च कायिकचेतसिकसुखञ्च. अखिलोध पधानवाति अखिलो इध पधानवा वीरियसम्पन्नो. विसुद्धोति विसुद्धो भवेय्य. असेसन्ति निस्सेसं नवविधं. विज्जायन्तकरोति विज्जाय किलेसानं अन्तकरो. समितावीति रागादीनं समितताय समितावी. ततियं.