४. महासालसुत्तवण्णना

२००. चतुत्थे लूखो लूखपावुरणोति जिण्णो जिण्णपावुरणो. उपसङ्कमीति कस्मा उपसङ्कमि? तस्स किर घरे अट्ठसतसहस्सधनं अहोसि. सो चतुन्नं पुत्तानं आवाहं कत्वा चत्तारि सतसहस्सानि अदासि. अथस्स ब्राह्मणिया कालङ्कताय पुत्ता सम्मन्तयिंसु – ‘‘सचे अञ्ञं ब्राह्मणिं आनेस्सति, तस्सा कुच्छियं निब्बत्तवसेन कुलं भिज्जिस्सति. हन्द नं मयं सङ्गण्हामा’’ति. ते चत्तारोपि पणीतेहि घासच्छादनादीहि उपट्ठहन्ता हत्थपादसम्बाहनादीनि करोन्ता सङ्गण्हित्वा एकदिवसं दिवा निद्दायित्वा वुट्ठितस्स हत्थपादे सम्बाहमाना पाटियेक्कं घरावासे आदीनवं वत्वा – ‘‘मयं तुम्हे इमिना नीहारेन यावजीवं उपट्ठहिस्साम, सेसधनम्पि नो देथा’’ति याचिंसु. ब्राह्मणो पुन एकेकस्स सतसहस्सं सतसहस्सं दत्वा अत्तनो निवत्थपारुपनमत्तं ठपेत्वा सब्बं उपभोगपरिभोगं चत्तारो कोट्ठासे कत्वा निय्यादेसि. तं जेट्ठपुत्तो कतिपाहं उपट्ठहि.

अथ नं एकदिवसं न्हत्वा आगच्छन्तं द्वारकोट्ठके ठत्वा सुण्हा एवमाह – ‘‘किं तया जेट्ठपुत्तस्स सतं वा सहस्सं वा अतिरेकं दिन्नमत्थि? ननु सब्बेसं द्वे द्वे सतसहस्सानि दिन्नानि, किं सेसपुत्तानं घरस्स मग्गं न जानासी’’ति? सो ‘‘नस्स वसली’’ति कुज्झित्वा अञ्ञस्स घरं अगमासि, ततोपि कतिपाहच्चयेन इमिनाव उपायेन पलापितो अञ्ञस्साति एवं एकघरेपि पवेसनं अलभमानो पण्डरङ्गपब्बज्जं पब्बजित्वा भिक्खाय चरन्तो कालानमच्चयेन जराजिण्णो दुब्भोजनदुक्खसेय्याहि मिलातसरीरो भिक्खाचारतो आगम्म, पीठकाय निपन्नो निद्दं ओक्कमित्वा वुट्ठाय निसिन्नो अत्तानं ओलोकेत्वा पुत्तेसु पतिट्ठं अपस्सन्तो चिन्तेसि – ‘‘समणो किर गोतमो अब्भाकुटिको उत्तानमुखो सुखसम्भासो पटिसन्थारकुसलो, सक्का समणं गोतमं उपसङ्कमित्वा पटिसन्थारं लभितु’’न्ति निवासनपावुरणं सण्ठपेत्वा भिक्खाभाजनमादाय येन भगवा तेनुपसङ्कमि.

दारेहि संपुच्छ घरा निक्खामेन्तीति सब्बं मम सन्तकं गहेत्वा मय्हं निद्धनभावं ञत्वा अत्तनो भरियाहि सद्धिं मन्तयित्वा मं घरा निक्कड्ढापेन्ति.

नन्दिस्सन्ति नन्दिजातो तुट्ठो पमुदितो अहोसिं. भवमिच्छिसन्ति वुड्ढिं पत्थयिं. साव वारेन्ति सूकरन्ति यथा सुनखा वग्गवग्गा हुत्वा भुस्सन्ता भुस्सन्ता सूकरं वारेन्ति, पुनप्पुनं महारवं रवापेन्ति, एवं दारेहि सद्धिं मं बहुं वत्वा विरवन्तं पलापेन्तीति अत्थो.

असन्ताति असप्पुरिसा. जम्माति लामका. भासरेति भासन्ति. पुत्तरूपेनाति पुत्तवेसेन. वयोगतन्ति तयो वये गतं अतिक्कन्तं पच्छिमवये ठितं मं. जहन्तीति परिच्चजन्ति.

निब्भोगोति निप्परिभोगो. खादना अपनीयतीति अस्सो हि यावदेव तरुणो होति जवसम्पन्नो, तावस्स नानारसं खादनं ददन्ति, जिण्णं निब्भोगं ततो अपनेन्ति, अन्तिमवये तं वत्तं न लभति, गावीहि सद्धिं अटवियं सुक्खतिणानि खादन्तो चरति. यथा सो अस्सो, एवं जिण्णकाले विलुत्तसब्बधनत्ता निब्भोगो मादिसोपि बालकानं पिता थेरो परघरेसु भिक्खति.

यञ्चेति निपातो. इदं वुत्तं होति – ये मम पुत्ता अनस्सवा अप्पतिस्सा अवसवत्तिनो, तेहि दण्डोव किर सेय्यो सुन्दरतरोति. इदानिस्स सेय्यभावं दस्सेतुं चण्डम्पि गोणन्तिआदि वुत्तं.

पुरे होतीति अग्गतो होति, तं पुरतो कत्वा गन्तुं सुखं होतीति अत्थो. गाधमेधतीति उदकं ओतरणकाले गम्भीरे उदके पतिट्ठं लभति.

परियापुणित्वाति उग्गण्हित्वा वा वाचुग्गता कत्वा. सन्निसिन्नेसूति तथारूपे ब्राह्मणानं समागमदिवसे सब्बालङ्कारपटिमण्डितेसु पुत्तेसु तं सभं ओगाहेत्वा ब्राह्मणानं मज्झे महारहे आसने निसिन्नेसु. अभासीति ‘अयं मे कालो’ति सभाय मज्झे पविसित्वा हत्थं उक्खिपित्वा, ‘‘भो अहं तुम्हाकं गाथा भासितुकामो, भासिते सुणिस्सथा’’ति वत्वा – ‘‘भास, ब्राह्मण, सुणोमा’’ति वुत्तो ठितकोव अभासि. ‘‘तेन च समयेन मनुस्सानं वत्तं होति यो मातापितूनं सन्तकं खादन्तो मातापितरो न पोसेति, सो मारेतब्बो’’ति. तस्मा ते ब्राह्मणपुत्ता पितुपादेसु निपतित्वा ‘‘जीवितं नो तात, देही’’ति याचिंसु. सो पितुहदयस्स पुत्तानं मुदुत्ता ‘‘मा मे, भो, बालके विनासयित्थ, पोसिस्सन्ति म’’न्ति आह.

अथस्स पुत्ते मनुस्सा आहंसु – ‘‘सचे, भो, अज्ज पट्ठाय पितरं न सम्मा पटिजग्गिस्सथ, घातेस्साम वो’’ति. ते भीता घरं नेत्वा पटिजग्गिंसु. तं दस्सेतुं अथ खो नं ब्राह्मणमहासालन्तिआदि वुत्तं. तत्थ नेत्वाति पीठे निसीदापेत्वा सयं उक्खिपित्वा नयिंसु. न्हापेत्वाति सरीरं तेलेन अब्भञ्जित्वा उब्बट्टेत्वा गन्धचुण्णादीहि न्हापेसुं. ब्राह्मणियोपि पक्कोसापेत्वा, ‘‘अज्ज पट्ठाय अम्हाकं पितरं सम्मा पटिजग्गथ. सचे पमादं आपज्जिस्सथ, घरतो वो निक्कड्ढिस्सामा’’ति वत्वा, पणीतभोजनं भोजेसुं.

ब्राह्मणो सुभोजनञ्च सुखसेय्यञ्च आगम्म कतिपाहच्चयेन सञ्जातबलो पीणितिन्द्रियो अत्तभावं ओलोकेत्वा, ‘‘अयं मे सम्पत्ति समणं गोतमं निस्साय लद्धा’’ति पण्णाकारं आदाय भगवतो सन्तिकं अगमासि. तं दस्सेतुं अथ खो सोतिआदि वुत्तं. तत्थ एतदवोचाति दुस्सयुगं पादमूले ठपेत्वा एतं अवोच. सरणगमनावसाने चापि भगवन्तं एवमाह – ‘‘भो गोतम, मय्हं पुत्तेहि चत्तारि धुरभत्तानि दिन्नानि, ततो अहं द्वे तुम्हाकं दम्मि, द्वे सयं परिभुञ्जिस्सामी’’ति. कल्याणं, ब्राह्मण, पाटियेक्कं पन मा निय्यादेहि, अम्हाकं रुच्चनट्ठानमेव गमिस्सामाति. ‘‘एवं, भो’’ति खो ब्राह्मणो भगवन्तं वन्दित्वा घरं गन्त्वा पुत्ते आमन्तेसि ‘‘ताता, समणो गोतमो मय्हं सहायो, तस्स द्वे धुरभत्तानि दिन्नानि, तुम्हे तस्मिं सम्पत्ते मा पमज्जथा’’ति. साधु, ताताति. पुनदिवसे भगवा पुब्बण्हसमये पत्तचीवरं आदाय जेट्ठपुत्तस्स निवेसनद्वारं गतो. सो सत्थारं दिस्वाव हत्थतो पत्तं गहेत्वा घरं पवेसेत्वा महारहे पल्लङ्के निसीदापेत्वा पणीतभोजनमदासि. सत्था पुनदिवसे इतरस्स, पुनदिवसे इतरस्साति पटिपाटिया सब्बेसं घरानि अगमासि. सब्बे तथेव सक्कारं अकंसु.

अथेकदिवसं जेट्ठपुत्तस्स घरे मङ्गलं पच्चुपट्ठितं. सो पितरं आह – ‘‘तात, कस्स मङ्गलं देमा’’ति. अम्हे अञ्ञं न जानाम? ननु समणो गोतमो मय्हं सहायोति? तेन हि तुम्हे पञ्चहि भिक्खुसतेहि सद्धिं स्वातनाय समणं गोतमं निमन्तेथाति. ब्राह्मणो तथा अकासि. भगवा अधिवासेत्वा पुनदिवसे भिक्खुसङ्घपरिवुतो तस्स गेहद्वारं अगमासि. सो हरितुपलित्तं सब्बालङ्कारपटिमण्डितं गेहं सत्थारं पवेसेत्वा बुद्धप्पमुखं भिक्खुसङ्घं पञ्ञत्तासनेसु निसीदापेत्वा अप्पोदकपायासञ्चेव खज्जकविकतिञ्च अदासि. अन्तरभत्तस्मिंयेव ब्राह्मणस्स चत्तारोपि पुत्ता सत्थु सन्तिके निसीदित्वा आहंसु – ‘‘भो गोतम, मयं अम्हाकं पितरं पटिजग्गाम नप्पमज्जाम, पस्सथस्स अत्तभाव’’न्ति. सत्था ‘‘कल्याणं वो कतं, मातापितुपोसकं नाम पोराणकपण्डितानं आचिण्णमेवा’’ति वत्वा महानागजातकं (जा. १.११.१ आदयो; चरिया. २.१ आदयो) नाम कथेत्वा, चत्तारि सच्चानि दीपेत्वा धम्मं देसेसि. देसनापरियोसाने ब्राह्मणो सद्धिं चतूहि पुत्तेहि चतूहि च सुण्हाहि देसनानुसारेन ञाणं पेसेत्वा सोतापत्तिफले पतिट्ठितो. ततो पट्ठाय सत्था न सब्बकालं तेसं गेहं अगमासीति. चतुत्थं.