५. मानत्थद्धसुत्तवण्णना
२०१. पञ्चमे मानत्थद्धोति वातभरितभस्ता विय मानेन थद्धो. आचरियन्ति सिप्पुग्गहणकाले आचरियो अनभिवादेन्तस्स सिप्पं न देति, अञ्ञस्मिं पन काले तं न अभिवादेति, अत्थिभावम्पिस्स न जानाति. नायं समणोति एवं किरस्स अहोसि – ‘‘यस्मा अयं समणो मादिसे जातिसम्पन्नब्राह्मणे सम्पत्ते पटिसन्थारमत्तम्पि न करोति, तस्मा न किञ्चि जानाती’’ति.
अब्भुतवित्तजाताति अभूतपुब्बाय तुट्ठिया समन्नागता. केसु चस्साति केसु भवेय्य. क्यस्साति के अस्स पुग्गलस्स. अपचिता अस्सूति अपचितिं दस्सेतुं युत्ता भवेय्युं. अरहन्तेति इमाय गाथाय देसनाकुसलत्ता अत्तानं अन्तोकत्वा पूजनेय्यं दस्सेति. पञ्चमं.