३. देवहितसुत्तवण्णना
१९९. ततिये वातेहीति उदरवातेहि. भगवतो किर छब्बस्सानि दुक्करकारिकं करोन्तस्स पसतमुग्गयूसादीनि आहारयतो दुब्भोजनेन चेव दुक्खसेय्याय च उदरवातो कुप्पि. अपरभागे सम्बोधिं पत्वा पणीतभोजनं भुञ्जन्तस्सापि अन्तरन्तरा सो आबाधो अत्तानं दस्सेतियेव. तं सन्धायेतं वुत्तं. उपट्ठाको होतीति पठमबोधियं अनिबद्धुपट्ठाककाले उपट्ठाको होति. तस्मिं किर काले सत्थुअसीतिमहाथेरेसु उपट्ठाको अभूतपुब्बो नाम नत्थि. नागसमालो उपवानो सुनक्खत्तो चुन्दो समणुद्देसो सागतो बोधि मेघियोति इमे पन पाळियं आगतुपट्ठाका. इमस्मिं पन काले उपवानत्थेरो पातोव उट्ठाय परिवेणसम्मज्जनं दन्तकट्ठदानं न्हानोदकपरियादनं पत्तचीवरं गहेत्वा अनुगमनन्ति सब्बं भगवतो उपट्ठानमकासि. उपसङ्कमीति पठमबोधियं किर वीसति वस्सानि निद्धूमं अरञ्ञमेव होति, भिक्खुसङ्घस्स उदकतापनम्पि न भगवता अनुञ्ञातं. सो च ब्राह्मणो उद्धनपाळिं बन्धापेत्वा महाचाटियो उद्धनमारोपेत्वा उण्होदकं कारेत्वा, न्हानीयचुण्णादीहि सद्धिं तं विक्किणन्तो जीविकं कप्पेति. न्हायितुकामा तत्थ गन्त्वा मूलं दत्वा न्हायित्वा गन्धे विलिम्पित्वा मालं पिळन्धित्वा पक्कमन्ति. तस्मा थेरो तत्थ उपसङ्कमि.
किं पत्थयानोति किं इच्छन्तो. किं एसन्ति किं गवेसन्तो. पूजितो पूजनेय्यानन्ति इदं थेरो दसबलस्स वण्णं कथेतुमारभि. गिलानभेसज्जत्थं गतेन किर गिलानस्स वण्णो कथेतब्बोति वत्तमेतं. वण्णं हि सुत्वा मनुस्सा सक्कच्चं भेसज्जं दातब्बं मञ्ञन्ति. सप्पायभेसज्जं लद्धा गिलानो खिप्पमेव वुट्ठाति. कथेन्तेन च झानविमोक्खसमापत्तिमग्गफलानि आरब्भ कथेतुं न वट्टति. ‘‘सीलवा लज्जी कुक्कुच्चको बहुस्सुतो आगमधरो वंसानुरक्खको’’ति एवं पन आगमनीयपटिपदंयेव कथेतुं वट्टति. पूजनेय्यानन्ति असीतिमहाथेरा सदेवकेन लोकेन पूजेतब्बाति पूजनेय्या. तेयेव सक्कातब्बाति सक्करेय्या. तेसंयेव अपचिति कत्तब्बाति अपचेय्या. भगवा तेसं पूजितो सक्कतो अपचितो च, इच्चस्स तं गुणं पकासेन्तो थेरो एवमाह. हातवेति हरितुं.
फाणितस्स च पुटन्ति महन्तं निच्छारिकं गुळपिण्डं. सो किर ‘‘किं समणस्स गोतमस्स अफासुक’’न्ति? पुच्छित्वा, ‘‘उदरवातो’’ति सुत्वा, ‘‘तेन हि मयमेत्थ भेसज्जं जानाम, इतो थोकेन उदकेन इदं फाणितं आलोळेत्वा न्हानपरियोसाने पातुं देथ, इति उण्होदकेन बहि परिसेदो भविस्सति, इमिना अन्तोति एवं समणस्स गोतमस्स फासुकं भविस्सती’’ति वत्वा थेरस्स पत्ते पक्खिपित्वा अदासि.
उपसङ्कमीति तस्मिं किर आबाधे पटिप्पस्सद्धे ‘‘देवहितेन तथागतस्स भेसज्जं दिन्नं, तेनेव रोगो वूपसन्तो, अहो दानं परमदानं ब्राह्मणस्सा’’ति कथा वित्थारिता जाता. तं सुत्वा कित्तिकामो ब्राह्मणो ‘‘एत्तकेनपि ताव मे अयं कित्तिसद्दो अब्भुग्गतो’’ति सोमनस्सजातो अत्तना कतभावं जानापेतुकामो तावतकेनेव दसबले विस्सासं आपज्जित्वा उपसङ्कमि.
दज्जाति ददेय्य. कथं हि यजमानस्साति केन कारणेन यजन्तस्स. इज्झतीति समिज्झति महप्फलो होति. योवेदीति यो अवेदि अञ्ञासि, विदितं पाकटमकासि ‘‘योवेती’’तिपि पाठो, यो अवेति जानातीति अत्थो. पस्सतीति दिब्बचक्खुना पस्सति. जातिक्खयन्ति अरहत्तं. अभिञ्ञावोसितोति जानित्वा वोसितो वोसानं कतकिच्चतं पत्तो. एवं हि यजमानस्साति इमिना खीणासवे यजनाकारेन यजन्तस्स. ततियं.