८. अग्गिकसुत्तवण्णना

१९४. अट्ठमे अग्गिकभारद्वाजोति अयम्पि भारद्वाजोव, अग्गि परिचरणवसेन पनस्स सङ्गीतिकारेहि एतं नामं गहितं. सन्निहितो होतीति संयोजितो होति. अट्ठासीति कस्मा तत्थ अट्ठासि? भगवा किर पच्चूससमये लोकं ओलोकेन्तो इमं ब्राह्मणं दिस्वा चिन्तेसि – ‘‘अयं ब्राह्मणो एवरूपं अग्गपायासं गहेत्वा ‘महाब्रह्मानं भोजेमी’ति अग्गिम्हि झापेन्तो अफलं करोति अपायमग्गं ओक्कमति, इमं लद्धिं अविस्सज्जन्तो अपायपूरकोव भविस्सति, गच्छामिस्स धम्मदेसनाय, मिच्छादिट्ठिं भिन्दित्वा पब्बाजेत्वा चत्तारो मग्गे चेव चत्तारि च फलानि देमी’’ति, तस्मा पुब्बण्हसमये राजगहं पविसित्वा तत्थ अट्ठासि.

तीहि विज्जाहीति तीहि वेदेहि. जातिमाति याव सत्तमा पितामहयुगा परिसुद्धाय जातिया समन्नागतो. सुतवा बहूति बहु नानप्पकारे गन्थे सुतवा. सोमं भुञ्जेय्याति सो तेविज्जो ब्राह्मणो इमं पायासं भुञ्जितुं युत्तो, तुम्हाकं पनेस पायासो अयुत्तोति वदति.

वेदीति पुब्बेनिवासञाणेन जानि पटिविज्झि. सग्गापायन्ति दिब्बेन चक्खुना सग्गम्पि अपायम्पि पस्सति. जातिक्खयन्ति अरहत्तं. अभिञ्ञावोसितोति जानित्वा वोसितवोसानो. ब्राह्मणो भवन्ति अवीचितो याव भवग्गा भोता गोतमेन सदिसो जातिसम्पन्नो खीणासवब्राह्मणो नत्थि, भवंयेव ब्राह्मणोति.

एवञ्च पन वत्वा सुवण्णपातिं पूरेत्वा दसबलस्स पायासं उपनामेसि. सत्था उप्पत्तिं दीपेत्वा भोजनं पटिक्खिपन्तो गाथाभिगीतं मेतिआदिमाह. तत्थ गाथाभिगीतन्ति गाथाहि अभिगीतं. अभोजनेय्यन्ति अभुञ्जितब्बं. इदं वुत्तं होति – त्वं, ब्राह्मण, मय्हं एत्तकं कालं भिक्खाचारवत्तेन ठितस्स कटच्छुमत्तम्पि दातुं नासक्खि, इदानि पन मया तुय्हं किलञ्जम्हि तिले वित्थारेन्तेन विय सब्बे बुद्धगुणा पकासिता, इति गायनेन गायित्वा लद्धं विय इदं भोजनं होति, तस्मा इदं गाथाभिगीतं मे अभोजनेय्यन्ति. सम्पस्सतं, ब्राह्मण, नेस धम्मोति, ब्राह्मण, अत्थञ्च धम्मञ्च सम्पस्सन्तानं ‘‘एवरूपं भोजनं भुञ्जितब्ब’’न्ति एस धम्मो न होति. सुधाभोजनम्पि गाथाभिगीतं पनुदन्ति बुद्धा, गाथाहि गायित्वा लद्धं बुद्धा नीहरन्तियेव. धम्मे सति, ब्राह्मण, वुत्तिरेसाति, ब्राह्मण, धम्मे सति धम्मं अपेक्खित्वा धम्मे पतिट्ठाय जीवितं कप्पेन्तानं एसा वुत्ति अयं आजीवो – एवरूपं नीहरित्वा धम्मलद्धमेव भुञ्जितब्बन्ति.

अथ ब्राह्मणो चिन्तेसि – अहं पुब्बे समणस्स गोतमस्स गुणे वा अगुणे वा न जानामि. इदानि पनस्साहं गुणे ञत्वा मम गेहे असीतिकोटिमत्तं धनं सासने विप्पकिरितुकामो जातो, अयञ्च ‘‘मया दिन्नपच्चया अकप्पिया’’ति वदति. अप्पटिग्गय्हो अहं समणेन गोतमेनाति. अथ भगवा सब्बञ्ञुतञ्ञाणं पेसेत्वा तस्स चित्ताचारं वीमंसन्तो, ‘‘अयं सब्बेपि अत्तना दिन्नपच्चये ‘अकप्पिया’ति सल्लक्खेति. यं हि भोजनं आरब्भ कथा उप्पन्ना, एतदेव न वट्टति, सेसा निद्दोसा’’ति ब्राह्मणस्स चतुन्नं पच्चयानं दानद्वारं दस्सेन्तो अञ्ञेन चातिआदिमाह. तत्थ कुक्कुच्चवूपसन्तन्ति हत्थकुक्कुच्चादीनं वसेन वूपसन्तकुक्कुच्चं. अन्नेन पानेनाति देसनामत्तमेतं. अयं पनत्थो – अञ्ञेहि तया ‘‘परिच्चजिस्सामी’’ति सल्लक्खितेहि चीवरादीहि पच्चयेहि उपट्ठहस्सु. खेत्तं हि तं पुञ्ञपेक्खस्स होतीति एतं तथागतसासनं नाम पुञ्ञपेक्खस्स पुञ्ञत्थिकस्स तुय्हं अप्पेपि बीजे बहुसस्सफलदायकं सुखेत्तं विय पटियत्तं होति. अट्ठमं.