३. अन्धकविन्दसुत्तवण्णना

१८४. ततिये अन्धकविन्दन्ति एवंनामकं गामं. उपसङ्कमीति ‘‘सत्था इदानिपि वीरियं करोति पधानमनुयुञ्जति, गच्छामिस्स सन्तिके ठत्वा सासनानुच्छविकं वीरियपटिसंयुत्तं गाथं वक्खामी’’ति उपसङ्कमि.

पन्तानीति जनतं अतिक्कमित्वा मनुस्सानं अनुपचारे ठितानि. संयोजनविप्पमोक्खाति तानि च सेनासनानि सेवमानो न चीवरादीनं अत्थाय सेवेय्य, अथ खो दससंयोजनविप्पमोक्खत्थाय चरेय्य. सङ्घे वसेति तेसु सेनासनेसु रतिं अलभन्तो उपट्ठाकादीनं चित्तानुरक्खणत्थं गद्रभपिट्ठे रजं विय उप्पतन्तो अरञ्ञे अचरित्वा सङ्घमज्झे वसेय्य. रक्खितत्तो सतीमाति तत्थ च वसन्तो सगवचण्डो गोणो विय सब्रह्मचारिनो अविज्झन्तो अघट्टेन्तो रक्खितत्तो सतिपट्ठानपरायणो हुत्वा वसेय्य.

इदानि सङ्घे वसमानस्स भिक्खुनो भिक्खाचारवत्तं आचिक्खन्तो कुलाकुलन्तिआदिमाह. तत्थ पिण्डिकाय चरन्तोति पिण्डत्थाय चरमानो. सेवेथ पन्तानि सेनासनानीति सङ्घमज्झं ओतरित्वा वसमानोपि धुरपरिवेणे तालनाळिकेरआदीनि रोपेत्वा उपट्ठाकादिसंसट्ठो न वसेय्य, चित्तकल्लतं पन जनेत्वा चित्तं हासेत्वा तोसेत्वा पुन पन्तसेनासने वसेय्याति अरञ्ञस्सेव वण्णं कथेति. भयाति वट्टभयतो. अभयेति निब्बाने. विमुत्तोति अधिमुत्तो हुत्वा वसेय्य.

यत्थ भेरवाति यस्मिं ठाने भयजनका सविञ्ञाणका सीहब्यग्घादयो, अविञ्ञाणका रत्तिभागे खाणुवल्लिआदयो बहू अत्थि. सरीसपाति दीघजातिकादिसरीसपा. निसीदि तत्थ भिक्खूति तादिसे ठाने भिक्खु निसिन्नो. इमिना इदं दीपेति – भगवा यथा तुम्हे एतरहि तत्रट्ठकभेरवारम्मणानि चेव सरीसपे च विज्जुनिच्छारणादीनि च अमनसिकत्वा निसिन्ना, एवमेवं पधानमनुयुत्ता भिक्खू निसीदन्तीति.

जातु मे दिट्ठन्ति एकंसेन मया दिट्ठं. न यिदं इतिहीतिहन्ति इदं इतिह इतिहाति न तक्कहेतु वा नयहेतु वा पिटकसम्पदानेन वा अहं वदामि. एकस्मिं ब्रह्मचरियस्मिन्ति एकाय धम्मदेसनाय. धम्मदेसना हि इध ब्रह्मचरियन्ति अधिप्पेता. मच्चुहायिनन्ति मरणपरिच्चागिनं खीणासवानं.

दसा च दसधा दसाति एत्थ दसाति दसेव, दसधा दसाति सतं, अञ्ञे च दसुत्तरं सेखसतं पस्सामीति वदति. सोतसमापन्नाति मग्गसोतं समापन्ना. अतिरच्छानगामिनोति देसनामत्तमेतं, अविनिपातधम्माति अत्थो. सङ्खातुं नोपि सक्कोमीति मुसावादभयेन एत्तका नाम पुञ्ञभागिनो सत्ताति गणेतुं न सक्कोमीति बहुं ब्रह्मधम्मदेसनं सन्धाय एवमाह. ततियं.