४. बकब्रह्मसुत्तवण्णना
१७५. चतुत्थे पापकं दिट्ठिगतन्ति लामिका सस्सतदिट्ठि. इदं निच्चन्ति इदं सह कायेन ब्रह्मट्ठानं अनिच्चं ‘‘निच्च’’न्ति वदति. धुवादीनि तस्सेव वेवचनानि. तत्थ धुवन्ति थिरं. सस्सतन्ति सदा विज्जमानं. केवलन्ति अखण्डं सकलं. अचवनधम्मन्ति अचवनसभावं. इदं हि न जायतीतिआदीसु इमस्मिं ठाने कोचि जायनको वा जीयनको वा मीयनको वा चवनको वा उपपज्जनको वा नत्थि, तं सन्धाय वदति. इतो च पनञ्ञन्ति इतो सहकाया ब्रह्मट्ठाना उत्तरि अञ्ञं निस्सरणं नाम नत्थीति. एवमस्स थामगता सस्सतदिट्ठि उप्पन्ना होति. एवंवादी च पन सो उपरि तिस्सो झानभूमियो चत्तारो मग्गे चत्तारि फलानि निब्बानन्ति सब्बं पटिबाहति. कदा पनस्स सा दिट्ठि उप्पन्नाति? पठमज्झानभूमियं निब्बत्तकाले. दुतियज्झानभूमियन्ति एके.
तत्रायं अनुपुब्बिकथा – हेट्ठुपपत्तिको किरेस ब्रह्मा अनुप्पन्ने बुद्धुप्पादे इसिपब्बज्जं पब्बजित्वा कसिणपरिकम्मं कत्वा समापत्तियो निब्बत्तेत्वा अपरिहीनज्झानो कालं कत्वा चतुत्थज्झानभूमियं वेहप्फलब्रह्मलोके पञ्चकप्पसतिकं आयुं गहेत्वा निब्बत्ति. तत्थ यावतायुकं ठत्वा हेट्ठुपपत्तिकं कत्वा ततियज्झानं पणीतं भावेत्वा सुभकिण्हब्रह्मलोके चतुसट्ठिकप्पं आयुं गहेत्वा निब्बत्ति. तत्थ दुतियज्झानं भावेत्वा आभस्सरे अट्ठ कप्पे आयुं गहेत्वा निब्बत्ति. तत्थ पठमज्झानं भावेत्वा, पठमज्झानभूमियं कप्पायुको हुत्वा निब्बत्ति. सो पठमकाले अत्तना कतकम्मञ्च निब्बत्तट्ठानञ्च अञ्ञासि, काले पन गच्छन्ते गच्छन्ते उभयं पमुस्सित्वा सस्सतदिट्ठिं उप्पादेसि.
अविज्जागतोति अविज्जाय गतो समन्नागतो अञ्ञाणी अन्धीभूतो. यत्र हि नामाति यो नाम. वक्खतीति भणति. ‘‘यत्रा’’ति निपातयोगेन पन अनागतवचनं कतं.
एवं वुत्ते सो ब्रह्मा यथा नाम मग्गचोरो द्वे तयो पहारे अधिवासेन्तो सहाये अनाचिक्खित्वापि उत्तरिं पहारं पहरियमानो ‘‘असुको च असुको च मय्हं सहायो’’ति आचिक्खति, एवमेव भगवता सन्तज्जियमानो सतिं लभित्वा, ‘‘भगवा मय्हं पदानुपदं पेक्खन्तो मं निप्पीळितुकामो’’ति भीतो अत्तनो सहाये आचिक्खन्तो द्वासत्ततीतिआदिमाह. तस्सत्थो – भो गोतम, मयं द्वासत्तति जना पुञ्ञकम्मा तेन पुञ्ञकम्मेन इध निब्बत्ता. वसवत्तिनो सयं अञ्ञेसं वसे अवत्तित्वा परे अत्तनो वसे वत्तेम, जातिञ्च जरञ्च अतीता, अयं नो वेदेहि गतत्ता ‘‘वेदगू’’ति सङ्खं गता भगवा अन्तिमा ब्रह्मुपपत्ति. अस्माभिजप्पन्ति जना अनेकाति अनेकजना अम्हे अभिजप्पन्ति. ‘‘अयं खो भवं ब्रह्मा, महाब्रह्मा, अभिभू, अनभिभूतो, अञ्ञदत्थुदसो, वसवत्ती, इस्सरो, कत्ता, निम्माता, सेट्ठो, सजिता, वसी, पिता भूतभब्यान’’न्ति एवं पत्थेन्ति पिहेन्तीति.
अथ नं भगवा अप्पं हि एतन्तिआदिमाह. तत्थ एतन्ति यं त्वं इध तव आयुं ‘‘दीघ’’न्ति मञ्ञसि, एतं अप्पं परित्तकं. सतं सहस्सानं निरब्बुदानन्ति निरब्बुदगणनाय सतसहस्सनिरब्बुदानं. आयुं पजानामीति, ‘‘इदानि तव अवसिट्ठं एत्तकं आयू’’ति अहं जानामि. अनन्तदस्सी भगवा हमस्मीति, भगवा, तुम्हे ‘‘अहं अनन्तदस्सी जातिआदीनि उपातिवत्तो’’ति वदथ. किं मे पुराणन्ति, यदि त्वं अनन्तदस्सी, एवं सन्ते इदं मे आचिक्ख, किं मय्हं पुराणं? वतसीलवत्तन्ति सीलमेव वुच्चति. यमहं विजञ्ञाति यं अहं तया कथितं जानेय्यं, तं मे आचिक्खाति वदति.
इदानिस्स आचिक्खन्तो भगवा यं त्वं अपायेसीतिआदिमाह. तत्रायं अधिप्पायो – पुब्बे किरेस कुलघरे निब्बत्तित्वा कामेसु आदीनवं दिस्वा – ‘‘जातिजरामरणस्स अन्तं करिस्सामी’’ति निक्खम्म इसिपब्बज्जं पब्बजित्वा समापत्तियो निब्बत्तेत्वा अभिञ्ञापादकज्झानस्स लाभी हुत्वा गङ्गातीरे पण्णसालं कारेत्वा झानरतिया वीतिनामेति. तदा च कालेनकालं सत्थवाहा पञ्चहि सकटसतेहि मरुकन्तारं पटिपज्जन्ति. मरुकन्तारे पन दिवा न सक्का गन्तुं, रत्तिं गमनं होति. अथ पुरिमसकटस्स अग्गयुगे युत्तबलिबद्दा गच्छन्ता गच्छन्ता निवत्तित्वा आगतमग्गाभिमुखा अहेसुं, सब्बसकटानि तथेव निवत्तित्वा अरुणे उग्गते निवत्तितभावं जानिंसु. तेसञ्च तदा कन्तारं अतिक्कमनदिवसो अहोसि. सब्बं दारुदकं परिक्खीणं – तस्मा ‘‘नत्थि दानि अम्हाकं जीवित’’न्ति चिन्तेत्वा, गोणे चक्केसु बन्धित्वा, मनुस्सा सकटच्छायं पविसित्वा निपज्जिंसु.
तापसोपि कालस्सेव पण्णसालतो निक्खमित्वा पण्णसालद्वारे निसिन्नो गङ्गं ओलोकयमानो अद्दस गङ्गं महता उदकोघेन पूरियमानं पवत्तितमणिक्खन्धं विय आगच्छन्तं, दिस्वा चिन्तेसि – ‘‘अत्थि नु खो इमस्मिं लोके एवरूपस्स मधुरोदकस्स अलाभेन किलिस्समाना सत्ता’’ति? सो एवं आवज्जेन्तो मरुकन्तारे तं सत्थं दिस्वा ‘इमे सत्ता मा नस्सन्तू’ति ‘‘इतो चितो च महाउदकक्खन्धो छिज्जित्वा मरुकन्तारे सत्थाभिमुखो गच्छतू’’ति अभिञ्ञाचित्तेन अधिट्ठासि. सह चित्तुप्पादेन मातिकारुळ्हं विय उदकं तत्थ अगमासि. मनुस्सा उदकसद्देन वुट्ठाय उदकं दिस्वा हट्ठतुट्ठा न्हायित्वा पिवित्वा गोणेपि पायेत्वा सोत्थिना इच्छितट्ठानं अगमंसु. सत्था तं ब्रह्मुनो पुब्बकम्मं दस्सेन्तो पठमं गाथमाह. तत्थ अपायेसीति पायेसि. अ-कारो निपातमत्तं. गम्मनीति गिम्हे. सम्परेतेति गिम्हातपेन फुट्ठे अनुगते.
अपरस्मिम्पि समये तापसो गङ्गातीरे पण्णसालं मापेत्वा अरञ्ञगामकं निस्साय वसति. तेन च समयेन चोरा तं गामं पहरित्वा हत्थसारं गहेत्वा गावियो च करमरे च गहेत्वा गच्छन्ति. गावोपि सुनखापि मनुस्सापि महाविरवं विरवन्ति. तापसो तं सद्दं सुत्वा ‘‘किन्नु खो एत’’न्ति? आवज्जेन्तो ‘‘मनुस्सानं भयं उप्पन्न’’न्ति ञत्वा ‘‘मयि पस्सन्ते इमे सत्ता मा नस्सन्तू’’ति अभिञ्ञापादकज्झानं समापज्जित्वा वुट्ठाय अभिञ्ञाचित्तेन चोरानं पटिपथे चतुरङ्गिनिं सेनं मापेसि. कम्मसज्जा आगच्छन्ता चोरा दिस्वा, ‘‘राजा मञ्ञे आगतो’’ति विलोपं छड्डेत्वा पक्कमिंसु. तापसो ‘‘यं यस्स सन्तकं, तं तस्सेव होतू’’ति अधिट्ठासि, तं तथेव अहोसि. महाजनो सोत्थिभावं पापुणि. सत्था इदम्पि तस्स पुब्बकम्मं दस्सेन्तो दुतियं गाथमाह. तत्थ एणिकूलस्मिन्ति गङ्गातीरे. गय्हकं नीयमानन्ति गहेत्वा नीयमानं, करमरं नीयमानन्तिपि अत्थो.
पुन एकस्मिं समये उपरिगङ्गावासिकं एकं कुलं हेट्ठागङ्गावासिकेन कुलेन सद्धिं मित्तसन्थवं कत्वा, नावासङ्घाटं बन्धित्वा, बहुं खादनीयञ्चेव भोजनीयञ्च गन्धमालादीनि च आरोपेत्वा गङ्गासोतेन आगच्छति. मनुस्सा खादमाना भुञ्जमाना नच्चन्ता गायन्ता देवविमानेन गच्छन्ता विय बलवसोमनस्सा अहेसुं. गङ्गेय्यको नागो दिस्वा कुपितो ‘‘इमे मयि सञ्ञम्पि न करोन्ति. इदानि ने समुद्दमेव पापेस्सामी’’ति महन्तं अत्तभावं मापेत्वा उदकं द्विधा भिन्दित्वा उट्ठाय फणं कत्वा, सुसुकारं करोन्तो अट्ठासि. महाजनो दिस्वा भीतो विस्सरमकासि. तापसो पण्णसालायं निसिन्नो सुत्वा, ‘‘इमे गायन्ता नच्चन्ता सोमनस्सजाता आगच्छन्ति. इदानि पन भयरवं रविंसु, किन्नु खो’’ति? आवज्जेन्तो नागराजं दिस्वा, ‘‘मयि पस्सन्ते सत्ता मा नस्सन्तू’’ति अभिञ्ञापादकज्झानं समापज्जित्वा अत्तभावं पजहित्वा सुपण्णवण्णं मापेत्वा नागराजस्स दस्सेसि. नागराजा भीतो फणं संहरित्वा उदकं पविट्ठो, महाजनो सोत्थिभावं पापुणि. सत्था इदम्पि तस्स पुब्बकम्मं दस्सेन्तो ततियं गाथमाह. तत्थ लुद्देनाति दारुणेन. मनुस्सकम्याति मनुस्सकामताय, मनुस्से विहेठेतुकामतायाति अत्थो.
अपरस्मिम्पि समये एस इसिपब्बज्जं पब्बजित्वा केसवो नाम तापसो अहोसि. तेन समयेन अम्हाकं बोधिसत्तो कप्पो नाम माणवो केसवस्स बद्धचरो अन्तेवासिको हुत्वा आचरियस्स किंकारपटिस्सावी मनापचारी बुद्धिसम्पन्नो अत्थचरो अहोसि. केसवो तेन विना वसितुं न सक्कोति, तं निस्सायेव जीविकं कप्पेसि. सत्था इदम्पि तस्स पुब्बकम्मं दस्सेन्तो चतुत्थं गाथमाह.
तत्थ बद्धचरोति अन्तेवासिको, सो पन जेट्ठन्तेवासिको अहोसि. सम्बुद्धिमन्तं वतिनं अमञ्ञीति, ‘‘सम्मा बुद्धिमा वतसम्पन्नो अय’’न्ति एवं मञ्ञमानो कप्पो तव अन्तेवासिको अहोसिं अहं सो तेन समयेनाति दस्सेति. अञ्ञेपि जानासीति न केवलं मय्हं आयुमेव, अञ्ञेपि त्वं जानासियेव. तथा हि बुद्धोति तथा हि त्वं बुद्धो, यस्मा बुद्धो, तस्मा जानासीति अत्थो. तथा हि त्यायं जलितानुभावोति यस्मा च त्वं बुद्धो, तस्मा ते अयं जलितो आनुभावो. ओभासयं तिट्ठतीति सब्बं ब्रह्मलोकं ओभासयन्तो तिट्ठति. चतुत्थं.