५. अञ्ञतरब्रह्मसुत्तवण्णना
१७६. पञ्चमे तेजोधातुं समापज्जित्वाति तेजोकसिणपरिकम्मं कत्वा पादकज्झानतो वुट्ठाय, ‘‘सरीरतो जाला निक्खमन्तू’’ति अधिट्ठहन्तो अधिट्ठानचित्तानुभावेन सकलसरीरतो जाला निक्खमन्ति, एवं तेजोधातुं समापन्नो नाम होति, तथा समापज्जित्वा. तस्मिं ब्रह्मलोकेति कस्मा थेरो तत्थ अगमासि? थेरस्स किर तेजोधातुं समापज्जित्वा तस्स ब्रह्मुनो उपरि निसिन्नं तथागतं दिस्वा ‘‘अट्ठिवेधी अयं पुग्गलो, मयापेत्थ गन्तब्ब’’न्ति अहोसि, तस्मा अगमासि. सेसानं गमनेपि एसेव नयो. सो हि ब्रह्मा तथागतस्स चेव तथागतसावकानञ्च आनुभावं अदिस्वा अभब्बो विनयं उपगन्तुं, तेन सो सन्निपातो अहोसि. तत्थ तथागतस्स सरीरतो उग्गतजाला सकलब्रह्मलोकं अतिक्कमित्वा अजटाकासे पक्खन्दा, ता च पन छब्बण्णा अहेसुं, तथागतस्स सावकानं आभा पकतिवण्णाव.
पस्ससि वीतिवत्तन्तन्ति इमस्मिं ब्रह्मलोके अञ्ञब्रह्मसरीरविमानालङ्कारादीनं पभा अतिक्कममानं बुद्धस्स भगवतो पभस्सरं पभं पस्ससीति पुच्छति. न मे, मारिस, सा दिट्ठीति या मेसा, ‘‘इधागन्तुं समत्थो अञ्ञो समणो वा ब्राह्मणो वा नत्थी’’ति पुरे दिट्ठि, नत्थि मे सा. कथं वज्जन्ति केन कारणेन वदेय्यं. निच्चोम्हि सस्सतोति इमस्स किर ब्रह्मुनो लद्धिदिट्ठि सस्सतदिट्ठि चाति द्वे दिट्ठियो. तत्रास्स तथागतञ्चेव तथागतसावके च पस्सतो लद्धिदिट्ठि पहीना. भगवा पनेत्थ महन्तं धम्मदेसनं देसेसि. ब्रह्मा देसनापरियोसाने सोतापत्तिफले पतिट्ठहि. इतिस्स मग्गेन सस्सतदिट्ठि पहीना, तस्मा एवमाह.
ब्रह्मपारिसज्जन्ति ब्रह्मपारिचारिकं. थेरानञ्हि भण्डगाहकदहरा विय ब्रह्मानम्पि पारिसज्जा ब्रह्मानो नाम होन्ति. तेनुपसङ्कमाति कस्मा थेरस्सेव सन्तिकं पेसेसि? थेरे किरस्स तत्तकेनेव कथासल्लापेन विस्सासो उदपादि, तस्मा तस्सेव सन्तिकं पेसेसि अञ्ञेपीति यथा तुम्हे चत्तारो जना, किन्नु खो एवरूपा अञ्ञेपि अत्थि, उदाहु तुम्हे चत्तारो एव महिद्धिकाति? तेविज्जाति पुब्बेनिवासदिब्बचक्खुआसवक्खयसङ्खाताहि तीहि विज्जाहि समन्नागता. इद्धिपत्ताति इद्धिविधञाणं पत्ता. चेतोपरियायकोविदाति परेसं चित्ताचारे कुसला. एवमेत्थ पञ्च अभिञ्ञापि सरूपेन वुत्ता. दिब्बसोतं पन तासं वसेन आगतमेव होति. बहूति एवरूपा छळभिञ्ञा बुद्धसावका बहू गणनपथं अतिक्कन्ता, सकलं जम्बुदीपं कासावपज्जोतं कत्वा विचरन्तीति. पञ्चमं.