५. उप्पलवण्णासुत्तवण्णना

१६६. पञ्चमे सुपुप्फितग्गन्ति अग्गतो पट्ठाय सुट्ठु पुप्फितं सालरुक्खं. न चत्थि ते दुतिया वण्णधातूति तव वण्णधातुसदिसा दुतिया वण्णधातु नत्थि, तया सदिसा अञ्ञा भिक्खुनी नत्थीति वदति. इधागता तादिसिका भवेय्युन्ति यथा त्वं इधागता किञ्चि सन्थवं वा सिनेहं वा न लभसि, एवमेवं तेपि तयाव सदिसा भवेय्युं. पखुमन्तरिकायन्ति द्विन्नं अक्खीनं मज्झे नासवंसेपि तिट्ठन्तिं मं न पस्ससि. वसीभूतम्हीति वसीभूता अस्मि. पञ्चमं.