४. विजयासुत्तवण्णना
१६५. चतुत्थे पञ्चङ्गिकेनाति आततं विततं आततविततं घनं सुसिरन्ति एवं पञ्चङ्गसमन्नागतेन. निय्यातयामि तुय्हेवाति सब्बे तुय्हंयेव देमि. नाहं तेनत्थिकाति नाहं तेन अत्थिका. पूतिकायेनाति सुवण्णवण्णोपि कायो निच्चं उग्घरितपग्घरितट्ठेन पूतिकायोव, तस्मा एवमाह. भिन्दनेनाति भिज्जनसभावेन. पभङ्गुनाति चुण्णविचुण्णं आपज्जनधम्मेन. अट्टीयामीति अट्टा पीळिता होमि. हरायामीति लज्जामि. सन्ता समापत्तीति अट्ठविधा लोकियसमापत्ति आरम्मणसन्तताय अङ्गसन्तताय च सन्ताति वुत्ता. सब्बत्थाति सब्बेसु रूपारूपभवेसु, तेसं द्विन्नं भवानं गहितत्ता गहिते कामभवे अट्ठसु च समापत्तीसूति एतेसु सब्बेसु ठानेसु मय्हं अविज्जातमो विहतोति वदति. चतुत्थं.