३. किसागोतमीसुत्तवण्णना
१६४. ततिये किसागोतमीति अप्पमंसलोहितताय किसा, गोतमीति पनस्सा नामं. पुब्बे किर सावत्थियं एकस्मिं कुले असीतिकोटिधनं सब्बं अङ्गाराव जातं. कुटुम्बिको अङ्गारजातानि अनीहरित्वा – ‘‘अवस्सं कोचि पुञ्ञवा भविस्सति, तस्स पुञ्ञेन पुन पाकतिकं भविस्सती’’ति सुवण्णहिरञ्ञस्स चाटियो पूरेत्वा आपणे ठपेत्वा समीपे निसीदि. अथेका दुग्गतकुलस्स धीता – ‘‘अड्ढमासकं गहेत्वा दारुसाकं आहरिस्सामी’’ति वीथिं गता तं दिस्वा कुटुम्बिकं आह – ‘‘आपणे ताव धनं एत्तकं, गेहे कित्तकं भविस्सती’’ति. किं दिस्वा अम्म एवं कथेसीति? इमं हिरञ्ञसुवण्णन्ति. सो ‘‘पुञ्ञवती एसा भविस्सती’’ति तस्सा वसनट्ठानं पुच्छित्वा आपणे भण्डं पटिसामेत्वा तस्सा मातापितरो उपसङ्कमित्वा एवमाह – ‘‘अम्हाकं गेहे वयप्पत्तो दारको अत्थि, तस्सेतं दारिकं देथा’’ति. किं सामि दुग्गतेहि सद्धिं केळिं करोसीति? मित्तसन्थवो नाम दुग्गतेहिपि सद्धिं होति, देथ नं, कुटुम्बसामिनी भविस्सतीति नं गहेत्वा घरं आनेसि. सा संवासमन्वाय पुत्तं विजाता. पुत्तो पदसा आहिण्डनकाले कालमकासि. सा दुग्गतकुले उप्पज्जित्वा महाकुलं गन्त्वापि ‘‘पुत्तविनासं पत्ताम्ही’’ति उप्पन्नबलवसोका पुत्तस्स सरीरकिच्चं वारेत्वा तं मतकळेवरं आदाय नगरे विप्पलपन्ती चरति.
एकदिवसं महतिया बुद्धवीथिया दसबलस्स सन्तिकं गन्त्वा – ‘‘पुत्तस्स मे अरोगभावत्थाय भेसज्जं देथ भगवा’’ति आह. गच्छ सावत्थिं आहिण्डित्वा यस्मिं गेहे मतपुब्बो नत्थि, ततो सिद्धत्थकं आहर, पुत्तस्स ते भेसज्जं भविस्सतीति. सा नगरं पविसित्वा धुरगेहतो पट्ठाय भगवता वुत्तनयेन गन्त्वा सिद्धत्थकं याचन्ती घरे घरे, ‘‘कुतो त्वं एवरूपं घरं पस्सिस्ससी’’ति वुत्ता कतिपयानि गेहानि आहिण्डित्वा – ‘‘सब्बेसम्पि किरायं धम्मता, न मय्हं पुत्तस्सेवा’’ति सालायं छवं छड्डेत्वा पब्बज्जं याचि. सत्था ‘‘इमं पब्बाजेतू’’ति भिक्खुनिउपस्सयं पेसेसि. सा खुरग्गेयेव अरहत्तं पापुणि. इमं थेरिं सन्धाय ‘‘अथ खो किसागोतमी’’ति वुत्तं.
एकमासीति एका आसि. रुदम्मुखीति रुदमानमुखी विय. अच्चन्तं मतपुत्ताम्हीति एत्थ अन्तं अतीतं अच्चन्तं, भावनपुंसकमेतं. इदं वुत्तं होति – यथा पुत्तमरणं अन्तं अतीतं होति, एवं मतपुत्ता अहं, इदानि मम पुन पुत्तमरणं नाम नत्थि. पुरिसा एतदन्तिकाति पुरिसापि मे एतदन्तिकाव. यो मे पुत्तमरणस्स अन्तो, पुरिसानम्पि मे एसेवन्तो, अभब्बा अहं इदानि पुरिसं गवेसितुन्ति. सब्बत्थ विहता नन्दीति सब्बेसु खन्धायतनधातुभवयोनिगतिठितिनिवासेसु मम तण्हानन्दी विहता. तमोक्खन्धोति अविज्जाक्खन्धो. पदालितोति ञाणेन भिन्नो. ततियं.