८. पिण्डसुत्तवण्णना

१५४. अट्ठमे पाहुनकानि भवन्तीति तथारूपे नक्खत्ते तत्थ तत्थ पेसेतब्बानि पाहुनकानि भवन्ति, आगन्तुकपण्णाकारदानानि वा. सयंचरणदिवसे समवयजातिगोत्ता कुमारका ततो ततो सन्निपतन्ति. कुमारिकायोपि अत्तनो अत्तनो विभवानुरूपेन अलङ्कता तहं तहं विचरन्ति. तत्र कुमारिकायोपि यथारुचिकानं कुमारकानं पण्णाकारं पेसेन्ति, कुमारकापि कुमारिकानं अञ्ञस्मिं असति अन्तमसो मालागुळेनपि परिक्खिपन्ति. अन्वाविट्ठाति अनु आविट्ठा. तंदिवसं किर पञ्चसता कुमारिकायो उय्यानकीळं गच्छन्तियो पटिपथे सत्थारं दिस्वा छणपूवं ददेय्युं. सत्था तासं दानानुमोदनत्थं पकिण्णकधम्मदेसनं देसेय्य, देसनापरियोसाने सब्बापि सोतापत्तिफले पतिट्ठहेय्युं. मारो तासं सम्पत्तिया अन्तरायं करिस्सामीति अन्वाविसि. पाळियं पन मा समणो गोतमो पिण्डमलत्थाति एत्तकंयेव वुत्तन्ति.

किं पन सत्था मारावट्टनं अजानित्वा पविट्ठोति? आम अजानित्वा. कस्मा? अनावज्जनताय. बुद्धानञ्हि – ‘‘असुकट्ठाने भत्तं लभिस्साम, न लभिस्सामा’’ति आवज्जनं न अननुच्छविकं. पविट्ठो पन मनुस्सानं उपचारभेदं दिस्वा, ‘‘किं इद’’न्ति? आवज्जेन्तो ञत्वा, ‘‘आमिसत्थं मारावट्टनं भिन्दितुं अननुच्छविक’’न्ति अभिन्दित्वाव निक्खन्तो.

उपसङ्कमीति अमित्तविजयेन विय तुट्ठो सकलगामे कटच्छुमत्तम्पि भत्तं अलभित्वा गामतो निक्खमन्तं भगवन्तं गामियमनुस्सवेसेन उपसङ्कमि. तथाहं करिस्सामीति इदं सो मुसा भासति. एवं किरस्स अहोसि – ‘‘मया एवं वुत्ते पुन पविसिस्सति, अथ नं गामदारका ‘सकलगामे चरित्वा कटच्छुभिक्खम्पि अलभित्वा गामतो निक्खम्म पुन पविट्ठोसी’तिआदीनि वत्वा उप्पण्डेस्सन्ती’’ति. भगवा पन – ‘‘सचायं मं एवं विहेठेस्सति मुद्धमस्सेव सत्तधा फलिस्सती’’ति तस्मिं अनुकम्पाय अपविसित्वा गाथाद्वयमाह.

तत्थ पसवीति जनेसि निप्फादेसि. आसज्जाति आसादेत्वा घट्टेत्वा. न मे पापं विपच्चतीति मम पापं न पच्चति. निप्फलं एतन्ति किं नु त्वं एवं मञ्ञसि? मा एवं मञ्ञि, अत्थि तया कतस्स पापस्स फलन्ति दीपेति. किञ्चनन्ति मद्दितुं समत्थं रागकिञ्चनादि किलेसजातं. आभस्सरा यथाति यथा आभस्सरा देवा सप्पीतिकज्झानेन यापेन्ता पीतिभक्खा नाम होन्ति, एवं भविस्सामाति. अट्ठमं.