४. पतिरूपसुत्तवण्णना

१५०. चतुत्थे अनुरोधविरोधेसूति रागपटिघेसु. मा सज्जित्थो तदाचरन्ति एवं धम्मकथं आचरन्तो मा लग्गि. धम्मकथं कथेन्तस्स हि एकच्चे साधुकारं ददन्ति, तेसु रागो उप्पज्जति. एकच्चे असक्कच्चं सुणन्ति, तेसु पटिघो उप्पज्जति. इति धम्मकथिको अनुरोधविरोधेसु सज्जति नाम. त्वं एवं मा सज्जित्थोति वदति. यदञ्ञमनुसासतीति यं अञ्ञं अनुसासति, तं. सम्बुद्धो हितानुकम्पी हितेन अनुपकम्पति. यस्मा च हितानुकम्पी, तस्मा अनुरोधविरोधेहि विप्पमुत्तो तथागतोति. चतुत्थं.