४. पठममारपाससुत्तवण्णना
१४०. चतुत्थे योनिसो मनसिकाराति उपायमनसिकारेन. योनिसो सम्मप्पधानाति उपायवीरियेन कारणवीरियेन. विमुत्तीति अरहत्तफलविमुत्ति. अज्झभासीति ‘‘अयं अत्तना वीरियं कत्वा अरहत्तं पत्वापि न तुस्सति, इदानि अञ्ञेसम्पि ‘पापुणाथा’ति उस्साहं करोति, पटिबाहेस्सामि न’’न्ति चिन्तेत्वा अभासि.
मारपासेनाति किलेसपासेन. ये दिब्बा ये च मानुसाति ये दिब्बा कामगुणसङ्खाता मानुसा कामगुणसङ्खाता च मारपासा नाम अत्थि, सब्बेहि तेहि त्वं बद्धोति वदति. मारबन्धनबद्धोति मारबन्धनेन बद्धो, मारबन्धने वा बद्धो. न मे समण मोक्खसीति समण त्वं मम विसयतो न मुच्चिस्ससि. चतुत्थं.