९. पठमअपुत्तकसुत्तवण्णना

१३०. नवमे दिवा दिवस्साति दिवसस्स दिवा, मज्झन्हिकसमयेति अत्थो. सापतेय्यन्ति धनं. को पन वादो रूपियस्साति सुवण्णरजततम्बलोहकाळलोहफालकच्छपकादिभेदस्स घनकतस्स चेव परिभोगभाजनादिभेदस्स च रूपियभण्डस्स पन को वादो? ‘‘एत्तकं नामा’’ति का परिच्छेदकथाति अत्थो. कणाजकन्ति सकुण्डकभत्तं. बिलङ्गदुतियन्ति कञ्जिकदुतियं. साणन्ति साणवाकमयं. तिपक्खवसनन्ति तीणि खण्डानि द्वीसु ठानेसु सिब्बित्वा कतनिवासनं.

असप्पुरिसोति लामकपुरिसो. उद्धग्गिकन्तिआदीसु उपरूपरिभूमीसु फलदानवसेन उद्धं अग्गमस्साति उद्धग्गिका. सग्गस्स हिता तत्रुपपत्तिजननतोति सोवग्गिका. निब्बत्तट्ठानेसु सुखो विपाको अस्साति सुखविपाका. सुट्ठु अग्गानं दिब्बवण्णादीनं विसेसानं निब्बत्तनतो सग्गसंवत्तनिका. एवरूपं दक्खिणदानं न पतिट्ठापेतीति.

सातोदकाति मधुरोदका. सेत्तोदकाति वीचीनं भिन्नट्ठाने उदकस्स सेतताय सेतोदका. सुपतित्थाति सुन्दरतित्था. तं जनोति येन उदकेन सातोदका, तं उदकं जनो भाजनानि पूरेत्वा नेव हरेय्य. न यथापच्चयं वा करेय्याति, यं यं उदकेन उदककिच्चं कातब्बं, तं तं न करेय्य. तदपेय्यमानन्ति तं अपेय्यमानं. किच्चकरो च होतीति अत्तना कत्तब्बकिच्चकरो चेव कुसलकिच्चकरो च, भुञ्जति च, कम्मन्ते च पयोजेति, दानञ्च देतीति अत्थो. नवमं.