१. सत्तजटिलसुत्तवण्णना

१२२. दुतियवग्गस्स पठमे पुब्बारामे मिगारमातुपासादेति पुब्बारामसङ्खाते विहारे मिगारमातुया पासादे. तत्रायं अनुपुब्बिकथा – अतीते सतसहस्सकप्पमत्थके एका उपासिका पदुमुत्तरं भगवन्तं निमन्तेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सतसहस्सदानं दत्वा भगवतो पादमूले निपज्जित्वा – ‘‘अनागते तुम्हादिसस्स बुद्धस्स अग्गुपट्ठायिका होमी’’ति पत्थनं अकासि. सा कप्पसतसहस्सं देवेसु च मनुस्सेसु च संसरित्वा अम्हाकं भगवतो काले भद्दियनगरे मेण्डकपुत्तस्स धनञ्चयसेट्ठिनो गेहे सुमनदेविया कुच्छिस्मिं पटिसन्धिं गण्हि. जातकाले चस्सा विसाखाति नामं अकंसु. सा यदा भगवा भद्दियनगरं अगमासि, तदा पञ्चहि दारिकासतेहि सद्धिं भगवतो पच्चुग्गमनं गता पठमदस्सनम्हियेव सोतापन्ना अहोसि. अपरभागे सावत्थियं मिगारसेट्ठिपुत्तस्स पुण्णवड्ढनकुमारस्स गेहं गता. तत्थ नं मिगारसेट्ठि मातिट्ठाने ठपेसि, तस्मा मिगारमाताति वुच्चति. ताय कारिते पासादे.

बहि द्वारकोट्ठकेति पासादद्वारकोट्ठकस्स बहि, न विहारद्वारकोट्ठकस्स. सो किर पासादो लोहपासादो विय समन्ता चतुद्वारकोट्ठकयुत्तेन पाकारेन परिक्खित्तो. तेसु पाचीनद्वारकोट्ठकस्स बहि पासादच्छायायं पाचीनलोकधातुं ओलोकेन्तो पञ्ञत्ते वरबुद्धासने निसिन्नो होति.

परूळ्हकच्छनखलोमाति परूळ्हकच्छा परूळ्हनखा परूळ्हलोमा, कच्छादीसु दीघलोमा दीघनखा चाति अत्थो. खारिविविधन्ति विविधखारिं नानप्पकारकं पब्बजितपरिक्खारभण्डकं. अविदूरे अतिक्कमन्तीति अविदूरमग्गेन नगरं पविसन्ति. राजाहं, भन्तेति अहं, भन्ते, राजा पसेनदि कोसलो, मय्हं नामं तुम्हे जानाथाति. कस्मा पन राजा लोके अग्गपुग्गलस्स सन्तिके निसिन्नो एवरूपानं नग्गभोग्गनिस्सिरिकानं अञ्जलिं पग्गण्हातीति. सङ्गण्हनत्थाय. एवं हिस्स अहोसि – ‘‘सचाहं एत्तकम्पि एतेसं न करिस्सामि, ‘मयं पुत्तदारं पहाय एतस्सत्थाय दुब्भोजनदुक्खसेय्यादीनि अनुभोम, अयं अम्हाकं अञ्जलिमत्तम्पि न करोती’ति अत्तना दिट्ठं सुतं पटिच्छादेत्वा न कथेय्युं. एवं कते पन अनिगूहित्वा कथेस्सन्ती’’ति. तस्मा एवमकासि. अपिच सत्थु अज्झासयजाननत्थं एवमकासि.

कासिकचन्दनन्ति सण्हचन्दनं. मालागन्धविलेपनन्ति वण्णगन्धत्थाय मालं, सुगन्धभावत्थाय गन्धं, वण्णगन्धत्थाय विलेपनञ्च धारेन्तेन.

संवासेनाति सहवासेन. सीलं वेदितब्बन्ति अयं सुसीलो वा दुस्सीलो वाति संवसन्तेन उपसङ्कमन्तेन जानितब्बो. तञ्च खो दीघेन अद्धुना न इत्तरन्ति तञ्च सीलं दीघेन कालेन वेदितब्बं, न इत्तरेन. द्वीहतीहञ्हि संयताकारो च संवुतिन्द्रियाकारो च न सक्का दस्सेतुं. मनसिकरोताति सीलमस्स परिग्गहेस्सामीति मनसिकरोन्तेन पच्चवेक्खन्तेनेव सक्का जानितुं, न इतरेन. पञ्ञवताति तम्पि सप्पञ्ञेनेव पण्डितेन. बालो हि मनसिकरोन्तोपि जानितुं न सक्कोति.

संवोहारेनाति कथनेन.

‘‘यो हि कोचि मनुस्सेसु, वोहारं उपजीवति;

एवं वासेट्ठ जानाहि, वाणिजो सो न ब्राह्मणो’’ति. (म. नि. २.४५७) –

एत्थ हि ब्यवहारो वोहारो नाम. ‘‘चत्तारो अरियवोहारा चत्तारो अनरियवोहारा’’ति (दी. नि. ३.३१३) एत्थ चेतना. ‘‘सङ्खा समञ्ञा पञ्ञत्ति वोहारो’’ति (ध. स. १३१३-१३१५) एत्थ पञ्ञत्ति. ‘‘वोहारमत्तेन सो वोहरेय्या’’ति (सं. नि. १.२५) एत्थ कथा वोहारो. इधापि एसोव अधिप्पेतो. एकच्चस्स हि सम्मुखा कथा परम्मुखाय कथाय न समेति, परम्मुखा कथा च सम्मुखाय कथाय, तथा पुरिमकथा च पच्छिमकथाय, पच्छिमकथा च पुरिमकथाय. सो कथेन्तेनेव सक्का जानितुं ‘‘असुचि एसो पुग्गलो’’ति. सुचिसीलस्स पन पुरिमं पच्छिमेन, पच्छिमञ्च पुरिमेन समेति, सम्मुखाकथितं परम्मुखाकथितेन, परम्मुखाकथितञ्च सम्मुखाकथितेन, तस्मा कथेन्तेन सक्का सुचिभावो जानितुन्ति पकासेन्तो एवमाह.

थामोति ञाणथामो. यस्स हि ञाणथामो नत्थि, सो उप्पन्नेसु उपद्दवेसु गहेतब्बग्गहणं कतब्बकिच्चं अपस्सन्तो अद्वारघरं पविट्ठो विय चरति. तेनाह आपदासु खो, महाराज, थामो वेदितब्बोति. साकच्छायाति संकथाय. दुप्पञ्ञस्स हि कथा उदके गेण्डु विय उप्पलवति, पञ्ञवतो कथेन्तस्स पटिभानं अनन्तरं होति. उदकविप्फन्दितेनेव हि मच्छो खुद्दको वा महन्तो वाति ञायति. ओचरकाति हेट्ठाचरका. चरा हि पब्बतमत्थकेन चरन्तापि हेट्ठा – चरकाव होन्ति. ओचरित्वाति अवचरित्वा वीमंसित्वा, तं तं पवत्तिं ञत्वाति अत्थो. रजोजल्लन्ति रजञ्च जल्लञ्च. वण्णरूपेनाति वण्णसण्ठानेन. इत्तरदस्सनेनाति लहुकदस्सनेन. वियञ्जनेनाति परिक्खारभण्डकेन. पतिरूपको मत्तिकाकुण्डलोवाति सुवण्णकुण्डलपतिरूपको मत्तिकाकुण्डलोव. लोहड्ढमासोति लोहड्ढमासको. पठमं.