१. पठमवग्गो

१. दहरसुत्तवण्णना

११२. कोसलसंयुत्तस्स पठमे भगवता सद्धिं सम्मोदीति यथा खमनीयादीनि पुच्छन्तो भगवा तेन, एवं सोपि भगवता सद्धिं समप्पवत्तमोदो अहोसि. सीतोदकं विय उण्होदकेन सम्मोदितं एकीभावं अगमासि. याय च – ‘‘कच्चि, भो गोतम, खमनीयं, कच्चि यापनीयं, कच्चि भोतो च गोतमस्स सावकानञ्च अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारो’’तिआदिकाय कथाय सम्मोदि, तं पीतिपामोज्जसङ्खातसम्मोदजननतो सम्मोदितुं युत्तभावतो च सम्मोदनीयं, अत्थब्यञ्जनमधुरताय चिरम्पि कालं सारेतुं निरन्तरं पवत्तेतुं अरहरूपतो सरितब्बभावतो च सारणीयं. सुय्यमानसुखतो च सम्मोदनीयं, अनुस्सरियमानसुखतो सारणीयं. तथा ब्यञ्जनपरिसुद्धताय सम्मोदनीयं, अत्थपरिसुद्धताय सारणीयन्ति एवं अनेकेहि परियायेहि सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा परियोसापेत्वा निट्ठपेत्वा इतो पुब्बे तथागतस्स अदिट्ठत्ता गुणागुणवसेन गम्भीरभावं वा उत्तानभावं वा अजानन्तो एकमन्तं निसीदि, एकमन्तं निसिन्नो खो यं ओवट्टिकसारं कत्वा आगतो लोकनिस्सरणभवोक्कन्तिपञ्हं सत्थु सम्मासम्बुद्धतं पुच्छितुं भवम्पि नोतिआदिमाह.

तत्थ भवम्पीति पि-कारो सम्पिण्डनत्थे निपातो, तेन च छ सत्थारे सम्पिण्डेति. यथा पूरणादयो ‘‘सम्मासम्बुद्धम्हा’’ति पटिजानन्ति, एवं भवम्पि नु पटिजानातीति अत्थो. इदं पन राजा न अत्तनो लद्धिया, लोके महाजनेन गहितपटिञ्ञावसेन पुच्छति. अथ भगवा बुद्धसीहनादं नदन्तो यं हि तं महाराजातिआदिमाह. तत्थ अहं हि महाराजाति अनुत्तरं सब्बसेट्ठं सब्बञ्ञुतञ्ञाणसङ्खातं सम्मासम्बोधिं अहं अभिसम्बुद्धोति अत्थो. समणब्राह्मणाति पब्बज्जूपगमनेन समणा, जातिवसेन ब्राह्मणा. सङ्घिनोतिआदीसु पब्बजितसमूहसङ्खातो सङ्घो एतेसं अत्थीति सङ्घिनो. स्वेव गणो एतेसं अत्थीति गणिनो. आचारसिक्खापनवसेन तस्स गणस्स आचरियाति गणाचरिया. ञाताति पञ्ञाता पाकटा. ‘‘अप्पिच्छा सन्तुट्ठा अप्पिच्छताय वत्थम्पि न निवासेन्ती’’ति एवं समुग्गतो यसो एतेसं अत्थीति यसस्सिनो. तित्थकराति लद्धिकरा. साधुसम्मताति ‘‘सन्तो सप्पुरिसा’’ति एवं सम्मता. बहुजनस्साति अस्सुतवतो अन्धबालपुथुज्जनस्स. पूरणोतिआदीनि तेसं नामगोत्तानि. पूरणोति हि नाममेव. तथा, मक्खलीति. सो पन गोसालाय जातत्ता गोसालोति वुत्तो. नाटपुत्तोति नाटस्स पुत्तो. बेलट्ठपुत्तोति बेलट्ठस्स पुत्तो. कच्चायनोति पकुधस्स गोत्तं. केसकम्बलस्स धारणतो अजितो केसकम्बलोति वुत्तो.

तेपि मयाति कप्पकोलाहलं बुद्धकोलाहलं चक्कवत्तिकोलाहलन्ति तीणि कोलाहलानि. तत्थ ‘‘वस्ससतसहस्समत्थके कप्पुट्ठानं भविस्सती’’ति कप्पकोलाहलं नाम होति – ‘‘इतो वस्ससतसहस्समत्थके लोको विनस्सिस्सति, मेत्तं मारिसा, भावेथ, करुणं मुदितं उपेक्ख’’न्ति मनुस्सप्पथे देवता घोसेन्तियो विचरन्ति. ‘‘वस्ससहस्समत्थके पन बुद्धो उप्पज्जिस्सती’’ति बुद्धकोलाहलं नाम होति – ‘‘इतो वस्ससहस्समत्थके बुद्धो उप्पज्जित्वा धम्मानुधम्मपटिपदं पटिपन्नेन सङ्घरतनेन परिवारितो धम्मं देसेन्तो विचरिस्सती’’ति देवता उग्घोसेन्ति. ‘‘वस्ससतमत्थके पन चक्कवत्ती उप्पज्जिस्सती’’ति चक्कवत्तिकोलाहलं नाम होति – ‘‘इतो वस्ससतमत्थके सत्तरतनसम्पन्नो चतुद्दीपिस्सरो सहस्स पुत्तपरिवारो वेहासङ्गमो चक्कवत्तिराजा उप्पज्जिस्सती’’ति देवता उग्घोसेन्ति.

इमेसु तीसु कोलाहलेसु इमे छ सत्थारो बुद्धकोलाहलं सुत्वा आचरिये पयिरुपासित्वा चिन्तामाणिविज्जादीनि उग्गण्हित्वा – ‘‘मयं बुद्धम्हा’’ति पटिञ्ञं कत्वा महाजनपरिवुता जनपदं विचरन्ता अनुपुब्बेन सावत्थियं पत्ता. तेसं उपट्ठाका राजानं उपसङ्कमित्वा, ‘‘महाराज, पूरणो कस्सपो…पे… अजितो केसकम्बलो बुद्धो किर सब्बञ्ञू किरा’’ति आरोचेसुं. राजा ‘‘तुम्हेव ने निमन्तेत्वा आनेथा’’ति आह. ते गन्त्वा तेहि, ‘‘राजा वो निमन्तेति. रञ्ञो गेहे भिक्खं गण्हथा’’ति वुत्ता गन्तुं न उस्सहन्ति, पुनप्पुनं वुच्चमाना उपट्ठाकानं चित्तानुरक्खणत्थाय अधिवासेत्वा सब्बे एकतोव अगमंसु. राजा आसनानि पञ्ञापेत्वा ‘‘निसीदन्तू’’ति आह. निग्गुणानं अत्तभावे राजुस्मा नाम फरति, ते महारहेसु आसनेसु निसीदितुं असक्कोन्ता फलकेसु चेव भूमियं च निसीदिंसु.

राजा ‘‘एत्तकेनेव नत्थि तेसं अन्तो सुक्कधम्मो’’ति वत्वा आहारं अदत्वाव तालतो पतितं मुग्गरेन पोथेन्तो विय ‘‘तुम्हे बुद्धा, न बुद्धा’’ति पञ्हं पुच्छि. ते चिन्तयिंसु – ‘‘सचे ‘बुद्धम्हा’ति वक्खाम, राजा बुद्धविसये पञ्हं पुच्छित्वा कथेतुं असक्कोन्ते ‘तुम्हे मयं बुद्धाति महाजनं वञ्चेत्वा आहिण्डथा’ति जिव्हम्पि छिन्दापेय्य, अञ्ञम्पि अनत्थं करेय्या’’ति सकपटिञ्ञाय एव ‘न मयं बुद्धा’ति वदिंसु. अथ ने राजा गेहतो निकड्ढापेसि. ते राजघरतो निक्खन्ते उपट्ठाका पुच्छिंसु – ‘‘किं आचरिया राजा तुम्हे पञ्हं पुच्छित्वा सक्कारसम्मानं अकासी’’ति? राजा ‘‘बुद्धा तुम्हे’’ति पुच्छि, ततो मयं – ‘‘सचे अयं राजा बुद्धविसये पञ्हं कथियमानं अजानन्तो अम्हेसु मनं पदोसेस्सति, बहुं अपुञ्ञं पसविस्सती’’ति रञ्ञो अनुकम्पाय ‘न मयं बुद्धा’ति वदिम्हा, मयं पन बुद्धा एव, अम्हाकं बुद्धभावो, उदकेन धोवित्वापि हरितुं न सक्काति. इति बहिद्धा ‘बुद्धम्हा’ति आहंसु – रञ्ञो सन्तिके ‘न मयं बुद्धा’ति वदिंसूति, इदं गहेत्वा राजा एवमाह. तत्थ किं पन भवं गोतमो दहरो चेव जातिया, नवो च पब्बज्जायाति इदं अत्तनो पटिञ्ञं गहेत्वा वदति. तत्थ किन्ति पटिक्खेपवचनं. एते जातिमहल्लका च चिरपब्बजिता च ‘‘बुद्धम्हा’’ति न पटिजानन्ति, भवं गोतमो जातिया च दहरो पब्बज्जाय च नवो किं पटिजानाति? मा पटिजानाहीति अत्थो.

न उञ्ञातब्बाति न अवजानितब्बा. न परिभोतब्बाति न परिभवितब्बा. कतमे चत्तारोति कथेतुकम्यतापुच्छा. खत्तियोति राजकुमारो. उरगोति आसीविसो. अग्गीति अग्गियेव. भिक्खूति इमस्मिं पन पदे देसनाकुसलताय अत्तानं अब्भन्तरं कत्वा सीलवन्तं पब्बजितं दस्सेति. एत्थ च दहरं राजकुमारं दिस्वा, उक्कमित्वा मग्गं अदेन्तो, पारुपनं अनपनेन्तो, निसिन्नासनतो अनुट्ठहन्तो, हत्थिपिट्ठादीहि अनोतरन्तो, हेट्ठा कत्वा मञ्ञनवसेन अञ्ञम्पि एवरूपं अनाचारं करोन्तो खत्तियं अवजानाति नाम. ‘‘भद्दको वतायं राजकुमारो, महाकण्डो महोदरो – किं नाम यंकिञ्चि चोरूपद्दवं वूपसमेतुं यत्थ कत्थचि ठाने रज्जं अनुसासितुं सक्खिस्सती’’तिआदीनि वदन्तो परिभोति नाम. अञ्जनिसलाकमत्तम्पि आसीविसपोतकं कण्णादीसु पिळन्धन्तो अङ्गुलिम्पि जिव्हम्पि डंसापेन्तो उरगं अवजानाति नाम. ‘‘भद्दको वतायं आसीविसो उदकदेड्डुभो विय किं नाम किञ्चिदेव डंसितुं कस्सचिदेव काये विसं फरितुं सक्खिस्सती’’तिआदीनि वदन्तो परिभोति नाम. खज्जोपनकमत्तम्पि अग्गिं गहेत्वा हत्थेन कीळन्तो भण्डुक्खलिकाय खिपन्तो चूळाय वा सयनपिट्ठसाटकपसिब्बकादीसु वा ठपेन्तो अग्गिं अवजानाति नाम. ‘‘भद्दको वतायं अग्गि कतरं नु खो यागुभत्तं पचिस्सति, कतरं मच्छमंसं, कस्स सीतं विनोदेस्सती’’तिआदीनि वदन्तो परिभोति नाम. दहरसामणेरम्पि पन दिस्वा उक्कमित्वा मग्गं अदेन्तोति राजकुमारे वुत्तं अनाचारं करोन्तो भिक्खुं अवजानाति नाम. ‘‘भद्दको वतायं सामणेरो महाकण्ठो महोदरो यंकिञ्चि बुद्धवचनं उग्गहेतुं यंकिञ्चि अरञ्ञं अज्झोगाहेत्वा वसितुं सक्खिस्सति, सङ्घत्थेरकाले मनापो भविस्सती’’तिआदीनि वदन्तो परिभोति नाम. तं सब्बम्पि न कातब्बन्ति दस्सेन्तो न उञ्ञातब्बो न परिभोतब्बोति आह.

एतदवोचाति एतं गाथाबन्धं अवोच. गाथा च नामेता तदत्थदीपनापि होन्ति विसेसत्थदीपनापि, तत्रिमा तदत्थम्पि विसेसत्थम्पि दीपेन्तियेव. तत्थ खत्तियन्ति खेत्तानं अधिपतिं. वुत्तञ्हेतं ‘‘खेत्तानं अधिपतीति खो, वासेट्ठ, ‘खत्तियो खत्तियो’त्वेव दुतियं अक्खरं उपनिब्बत्त’’न्ति (दी. नि. ३.१३१). जातिसम्पन्नन्ति तायेव खत्तियजातिया जातिसम्पन्नं. अभिजातन्ति तीणि कुलानि अतिक्कमित्वा जातं.

ठानं हीति कारणं विज्जति. मनुजिन्दोति मनुस्सजेट्ठको. राजदण्डेनाति रञ्ञो उद्धटदण्डेन, सो अप्पको नाम न होति, दससहस्सवीसतिसहस्सप्पमाणो होतियेव. तस्मिं पक्कमते भुसन्ति तस्मिं पुग्गले बलवउपक्कमं उपक्कमति. रक्खं जीवितमत्तनोति अत्तनो जीवितं रक्खमानो तं खत्तियं परिवज्जेय्य न घट्टेय्य.

उच्चावचेहीति नानाविधेहि. वण्णेहीति सण्ठानेहि. येन येन हि वण्णेन चरन्तो गोचरं लभति, यदि सप्पवण्णेन, यदि देड्डुभवण्णेन, यदि धमनिवण्णेन, अन्तमसो कलन्दकवण्णेनपि चरतियेव. आसज्जाति पत्वा. बालन्ति येन बालेन घट्टितो, तं बालं नरं वा नारिं वा डंसेय्य.

पहूतभक्खन्ति बहुभक्खं. अग्गिस्स हि अभक्खं नाम नत्थि. जालिनन्ति जालवन्तं. पावकन्ति अग्गिं. पावगन्तिपि पाठो. कण्हवत्तनिन्ति वत्तनीति मग्गो, अग्गिना गतमग्गो कण्हो होति काळको, तस्मा ‘‘कण्हवत्तनी’’ति वुच्चति.

महा हुत्वानाति महन्तो हुत्वा. अग्गि हि एकदा यावब्रह्मलोकप्पमाणोपि होति. जायन्ति तत्थ पारोहाति तत्थ अग्गिना दड्ढवने पारोहा जायन्ति. पारोहाति तिणरुक्खादयो वुच्चन्ति. ते हि अग्गिना दड्ढट्ठाने मूलमत्तेपि अवसिट्ठे पादतो रोहन्ति जायन्ति वड्ढन्ति, तस्मा ‘‘पारोहा’’ति वुच्चन्ति. पुन रोहनत्थेन वा पारोहा. अहोरत्तानमच्चयेति रत्तिन्दिवानं अतिक्कमे. निदाघेपि देवे वुट्ठमत्ते जायन्ति.

भिक्खु डहति तेजसाति एत्थ अक्कोसन्तं पच्चक्कोसन्तो भण्डन्तं पटिभण्डन्तो पहरन्तं पटिपहरन्तो भिक्खु नाम किञ्चि भिक्खुतेजसा डहितुं न सक्कोति. यो पन अक्कोसन्तं न पच्चक्कोसति, भण्डन्तं न पटिभण्डति. पहरन्तं न पटिपहरति, तस्मिं विप्पटिपन्नो तस्स सीलतेजेन डय्हति. तेनेवेतं वुत्तं. न तस्स पुत्ता पसवोति तस्स पुत्तधीतरोपि गोमहिंसकुक्कुटसूकरादयो पसवोपि न भवन्ति, विनस्सन्तीति अत्थो. दायादा विन्दरे धनन्ति तस्स दायादापि धनं न विन्दन्ति. तालावत्थू भवन्ति तेति ते भिक्खुतेजसा दड्ढा वत्थुमत्तावसिट्ठो मत्थकच्छिन्नतालो विय भवन्ति, पुत्तधीतादिवसेन न वड्ढन्तीति अत्थो.

तस्माति यस्मा समणतेजेन दड्ढा मत्थकच्छिन्नतालो विय अविरुळ्हिधम्मा भवन्ति, तस्मा. सम्मदेव समाचरेति सम्मा समाचरेय्य. सम्मा समाचरन्तेन पन किं कातब्बन्ति? खत्तियं ताव निस्साय लद्धब्बं गामनिगमयानवाहनादिआनिसंसं, उरगं निस्साय तस्स कीळापनेन लद्धब्बं वत्थहिरञ्ञसुवण्णादिआनिसंसं अग्गिं निस्साय तस्सानुभावेन पत्तब्बं यागुभत्तपचनसीतविनोदनादिआनिसंसं, भिक्खुं निस्साय तस्स वसेन पत्तब्बं असुतसवनसुतपरियोदपन-सग्गमग्गाधिगमादिआनिसंसं सम्पस्समानेन ‘‘एते निस्साय पुब्बे वुत्तप्पकारो आदीनवो अत्थि. किं इमेही’’ति? न सब्बसो पहातब्बा. इस्सरियत्थिकेन पन वुत्तप्पकारं अवजाननञ्च परिभवनञ्च अकत्वा पुब्बुट्ठायिपच्छानिपातितादीहि उपायेहि खत्तियकुमारो तोसेतब्बो, एवं ततो इस्सरियं अधिगमिस्सति. अहितुण्डिकेन उरगे विस्सासं अकत्वा नागविज्जं परिवत्तेत्वा अजपदेन दण्डेन गीवाय गहेत्वा विसहरेन मूलेन दाठा धोवित्वा पेळायं पक्खिपित्वा कीळापेन्तेन चरितब्बं. एवं तं निस्साय घासच्छादनादीनि लभिस्सति. यागुपचनादीनि कत्तुकामेन अग्गिं विस्सासेन भण्डुक्खलिकादीसु अपक्खिपित्वा हत्थेहि अनामसन्तेन गोमयचुण्णादीहि जालेत्वा यागुपचनादीनि कत्तब्बानि, एवं तं निस्साय आनिसंसं लभिस्सति. असुतसवनादीनि पत्थयन्तेनपि भिक्खुं अतिविस्सासेन वेज्जकम्मनवकम्मादीसु अयोजेत्वा चतूहि पच्चयेहि सक्कच्चं उपट्ठातब्बो, एवं तं निस्साय असुतपुब्बं बुद्धवचनं असुतपुब्बं पञ्हाविनिच्छयं दिट्ठधम्मिकसम्परायिकं अत्थं तिस्सो कुलसम्पत्तियो छ कामसग्गानि नव च ब्रह्मलोके पत्वा अमतमहानिब्बानदस्सनम्पि लभिस्सतीति इममत्थं सन्धाय सम्मदेव समाचरेति आह.

एतदवोचाति धम्मदेसनं सुत्वा पसन्नो पसादं आविकरोन्तो एतं ‘‘अभिक्कन्त’’न्तिआदिवचनं अवोच. तत्थ अभिक्कन्तन्ति अभिकन्तं अतिइट्ठं अतिमनापं, अतिसुन्दरन्ति अत्थो. एत्थ एकेन अभिक्कन्तसद्देन देसनं थोमेति ‘‘अभिक्कन्तं, भन्ते, यदिदं भगवतो धम्मदेसना’’ति. एकेन अत्तनो पसादं ‘‘अभिक्कन्तं, भन्ते, यदिदं भगवतो धम्मदेसनं आगम्म मम पसादो’’ति.

ततो परं चतूहि उपमाहि देसनंयेव थोमेति. तत्थ निक्कुज्जितन्ति अधोमुखठपितं, हेट्ठामुखजातं वा. उक्कुज्जेय्याति उपरिमुखं करेय्य. पटिच्छन्नन्ति तिणपण्णादिछादितं. विवरेय्याति उग्घाटेय्य. मूळ्हस्साति दिसामूळ्हस्स. मग्गं आचिक्खेय्याति हत्थे गहेत्वा ‘‘एस मग्गो’’ति वदेय्य. अन्धकारेति काळपक्खचातुद्दसी अड्ढरत्तघनवनसण्ड मेघपटलेहि चतुरङ्गे तमे. इदं वुत्तं होति – यथा कोचि निक्कुज्जितं उक्कुज्जेय्य, एवं सद्धम्मविमुखं असद्धम्मे पतितं मं असद्धम्मा वुट्ठापेन्तेन, यथा पटिच्छन्नं विवरेय्य, एवं कस्सपस्स भगवतो सासनन्तरधाना पभुति मिच्छादिट्ठिगहनपटिच्छन्नं सासनं विवरन्तेन, यथा मूळ्हस्स मग्गं आचिक्खेय्य, एवं कुम्मग्गमिच्छामग्गपटिपन्नस्स मे सग्गमोक्खमग्गं आविकरोन्तेन, यथा अन्धकारे तेलपज्जोतं धारेय्य, एवं मोहन्धकारे निमुग्गस्स मे बुद्धादिरतनरूपानि अपस्सतो तप्पटिच्छादकमोहन्धकारविद्धंसकदेसनापज्जोतं धारेन्तेन मय्हं भगवता एतेहि परियायेहि पकासितत्ता अनेकपरियायेन धम्मो पकासितोति.

एवं देसनं थोमेत्वा इमाय देसनाय रतनत्तये पसन्नचित्तो पसन्नाकारं करोन्तो एसाहन्तिआदिमाह. तत्थ एसाहन्ति एसो अहं. भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्चाति भगवन्तञ्च धम्मञ्च भिक्खुसङ्घञ्चाति इमं रतनत्तयं सरणं गच्छामि. उपासकं मं, भन्ते, भगवा धारेतूति मं भगवा ‘उपासको अय’न्ति एवं धारेतु, जानातूति अत्थो. अज्जतग्गेति अज्जतं आदिं कत्वा. अज्जदग्गेति वा पाठो, द-कारो पदसन्धिकरो, अज्ज अग्गं कत्वाति अत्थो. पाणुपेतन्ति पाणेहि उपेतं याव मे जीवितं पवत्तति, ताव उपेतं अनञ्ञसत्थुकं तीहि सरणगमनेहि सरणं गतं उपासकं कप्पियकारकं मं भगवा धारेतूति अयमेत्थ सङ्खेपो, वित्थारो पन सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय सामञ्ञफलसुत्ते सब्बाकारेन वुत्तोति. पठमं.

२. पुरिससुत्तवण्णना

११३. दुतिये अभिवादेत्वाति पुरिमसुत्ते सरणगतत्ता इध अभिवादेसि. अज्झत्तन्ति नियकज्झत्तं, अत्तनो सन्ताने उप्पज्जन्तीति अत्थो. लोभादीसु लुब्भनलक्खणो लोभो, दुस्सनलक्खणो दोसो, मुय्हनलक्खणो मोहोति. हिंसन्तीति विहेठेन्ति नासेन्ति विनासेन्ति. अत्तसम्भूताति अत्तनि सम्भूता. तचसारंव सम्फलन्ति यथा तचसारं वेळुं वा नळं वा अत्तनो फलं हिंसति विनासेति, एवं हिंसन्ति विनासेन्तीति. दुतियं.

३. जरामरणसुत्तवण्णना

११४. ततिये अञ्ञत्र जरामरणाति जरामरणतो मुत्तो नाम अत्थीति वुच्चति. खत्तियमहासालाति खत्तियमहासाला नाम महासारप्पत्ता खत्तिया. येसं हि खत्तियानं हेट्ठिमन्तेन कोटिसतं निधानगतं होति, तयो कहापणकुम्भा वलञ्जनत्थाय गेहमज्झे रासिं कत्वा ठपिता होन्ति, ते खत्तियमहासाला नाम. येसं ब्राह्मणानं असीतिकोटिधनं निहितं होति, दियड्ढो कहापणकुम्भो वलञ्जनत्थाय गेहमज्झे रासिं कत्वा ठपितो होति, ते ब्राह्मणमहासाला नाम. येसं गहपतीनं चत्तालीसकोटिधनं निहितं होति, कहापणकुम्भो वलञ्जनत्थाय गेहमज्झे रासिं कत्वा ठपितो होति, ते गहपतिमहासाला नाम.

अड्ढाति इस्सरा. निधानगतधनस्स महन्तताय महद्धना. सुवण्णरजतभाजनादीनं उपभोगभण्डानं महन्तताय महाभोगा. अनिधानगतस्स जातरूपरजतस्स पहूतताय, पहूतजातरूपरजता. वित्तूपकरणस्स तुट्ठिकरणस्स पहूतताय पहूतवित्तूपकरणा. गोधनादीनञ्च सत्तविधधञ्ञानञ्च पहूतताय पहूतधनधञ्ञा. तेसम्पि जातानं नत्थि अञ्ञत्र जरामरणाति तेसम्पि एवं इस्सरानं जातानं निब्बत्तानं नत्थि अञ्ञत्र जरामरणा, जातत्तायेव जरामरणतो मोक्खो नाम नत्थि, अन्तोजरामरणेयेव होति.

अरहन्तोतिआदीसु आरका किलेसेहीति अरहन्तो. खीणा एतेसं चत्तारो आसवाति खीणासवा. ब्रह्मचरियवासं वुट्ठा परिनिट्ठितवासाति वुसितवन्तो. चतूहि मग्गेहि करणीयं एतेसं कतन्ति कतकरणीया. खन्धभारो किलेसभारो अभिसङ्खारभारो कामगुणभारोति, इमे ओहिता भारा एतेसन्ति ओहितभारा. अनुप्पत्तो अरहत्तसङ्खातो सको अत्थो एतेसन्ति अनुप्पत्तसदत्था. दसविधम्पि परिक्खीणं भवसंयोजनं एतेसन्ति परिक्खीणभवसंयोजना. सम्मा कारणेहि जानित्वा विमुत्ताति सम्मदञ्ञाविमुत्ता. मग्गपञ्ञाय चतुसच्चधम्मं ञत्वा फलविमुत्तिया विमुत्ताति अत्थो. भेदनधम्मोति भिज्जनसभावो. निक्खेपनधम्मोति निक्खिपितब्बसभावो. खीणासवस्स हि अजीरणधम्मोपि अत्थि, आरम्मणतो पटिविद्धं निब्बानं, तं हि न जीरति. इध पनस्स जीरणधम्मं दस्सेन्तो एवमाह. अत्थुप्पत्तिको किरस्स सुत्तस्स निक्खेपो. सिविकसालाय निसीदित्वा कथितन्ति वदन्ति. तत्थ भगवा चित्रानि रथयानादीनि दिस्वा दिट्ठमेव उपमं कत्वा, ‘‘जीरन्ति वे राजरथा’’ति गाथमाह.

तत्थ जीरन्तीति जरं पापुणन्ति. राजरथाति रञ्ञो अभिरूहनरथा. सुचित्ताति सुवण्णरजतादीहि सुट्ठु चित्तिता. अथो सरीरम्पि जरं उपेतीति एवरूपेसु अनुपादिण्णकेसु सारदारुमयेसु रथेसु जीरन्तेसु इमस्मिं अज्झत्तिके उपादिण्णके मंसलोहितादिमये सरीरे किं वत्तब्बं? सरीरम्पि जरं उपेतियेवाति अत्थो. सन्तो हवे सब्भि पवेदयन्तीति सन्तो सब्भीहि सद्धिं सतं धम्मो न जरं उपेतीति एवं पवेदयन्ति. ‘‘सतं धम्मो नाम निब्बानं, तं न जीरति, अजरं अमतन्ति एवं कथेन्ती’’ति अत्थो. यस्मा वा निब्बानं आगम्म सीदनसभावा किलेसा भिज्जन्ति, तस्मा तं सब्भीति वुच्चति. इति पुरिमपदस्स कारणं दस्सेन्तो ‘‘सन्तो हवे सब्भि पवेदयन्ती’’ति आह. इदं हि वुत्तं होति – सतं धम्मो न जरं उपेति, तस्मा सन्तो सब्भि पवेदयन्ति. अजरं निब्बानं सतं धम्मोति आचिक्खन्तीति अत्थो. सुन्दराधिवचनं वा एतं सब्भीति. यं सब्भिधम्मभूतं निब्बानं सन्तो पवेदयन्ति कथयन्ति, सो सतं धम्मो न जरं उपेतीतिपि अत्थो. ततियं.

४. पियसुत्तवण्णना

११५. चतुत्थे रहोगतस्साति रहसि गतस्स. पटिसल्लीनस्साति निलीनस्स एकीभूतस्स. एवमेतं, महाराजाति इध भगवा इमं सुत्तं सब्बञ्ञुभासितं करोन्तो आह. अन्तकेनाधिपन्नस्साति मरणेन अज्झोत्थटस्स. चतुत्थं.

५. अत्तरक्खितसुत्तवण्णना

११६. पञ्चमे हत्थिकायोति हत्थिघटा. सेसेसुपि एसेव नयो. संवरोति पिदहनं. साधु सब्बत्थ संवरोति इमिना कम्मपथभेदं अपत्तस्स कम्मस्स संवरं दस्सेति. लज्जीति हिरिमा. लज्जीगहणेन चेत्थ ओत्तप्पम्पि गहितमेव होति. पञ्चमं.

६. अप्पकसुत्तवण्णना

११७. छट्ठे उळारे उळारेति पणीते च बहुके च. मज्जन्तीति मानमज्जनेन मज्जन्ति. अतिसारन्ति अतिक्कमं. कूटन्ति पासं. पच्छासन्ति पच्छा तेसं. छट्ठं.

७. अड्डकरणसुत्तवण्णना

११८. सत्तमे कामहेतूति काममूलकं. कामनिदानन्ति कामपच्चया. कामाधिकरणन्ति कामकारणा. सब्बानि हेतानि अञ्ञमञ्ञवेवचनानेव. भद्रमुखोति सुन्दरमुखो. एकदिवसं किर राजा अड्डकरणे निसीदि. तत्थ पठमतरं लञ्जं गहेत्वा निसिन्ना अमच्चा अस्सामिकेपि सामिके करिंसु. राजा तं ञत्वा – ‘‘मय्हं ताव पथविस्सरस्स सम्मुखापेते एवं करोन्ति, परम्मुखा किं नाम न करिस्सन्ति? पञ्ञायिस्सति दानि विटटूभो सेनापति सकेन रज्जेन, किं मय्हं एवरूपेहि लञ्जखादकेहि मुसावादीहि सद्धिं एकट्ठाने निसज्जाया’’ति चिन्तेसि. तस्मा एवमाह. खिप्पंव ओड्डितन्ति कुमिनं विय ओड्डितं. यथा मच्छा ओड्डितं कुमिनं पविसन्ता न जानन्ति, एवं सत्ता किलेसकामेन वत्थुकामं वीतिक्कमन्ता न जानन्तीति अत्थो. सत्तमं.

८. मल्लिकासुत्तवण्णना

११९. अट्ठमे अत्थि नु खो ते मल्लिकेति कस्मा पुच्छति? अयं किर मल्लिका दुग्गतमालाकारस्स धीता, एकदिवसं आपणतो पूवं गहेत्वा ‘‘मालारामं गन्त्वाव खादिस्सामी’’ति गच्छन्ती पटिपथे भिक्खुसङ्घपरिवारं भगवन्तं भिक्खाचारं पविसन्तं दिस्वा पसन्नचित्ता तं भगवतो अदासि. सत्था निसीदनाकारं दस्सेसि. आनन्दत्थेरो चीवरं पञ्ञापेत्वा अदासि. भगवा तत्थ निसीदित्वा तं पूवं परिभुञ्जित्वा मुखं विक्खालेत्वा सितं पात्वाकासि. थेरो ‘‘इमिस्सा, भन्ते, को विपाको भविस्सती’’ति पुच्छि. आनन्द, अज्जेसा तथागतस्स पठमभोजनं अदासि, अज्जेव कोसलरञ्ञो अग्गमहेसी भविस्सतीति. तंदिवसमेव च राजा कासिगामे भागिनेय्येन युद्धेन पराजितो पलायित्वा नगरं आगच्छन्तो मालारामं पविसित्वा बलकायस्स आगमनं आगमेसि. तस्स सा वत्तं अकासि. सो ताय वत्ते पसीदित्वा तं अन्तेपूरं अतिहारापेत्वा तं अग्गमहेसिट्ठाने ठपेसि.

अथेकदिवसं चिन्तेसि – ‘‘मया इमिस्सा दुग्गतकुलस्स धीतुया महन्तं इस्सरियं दिन्नं, यंनूनाहं इमं पुच्छेय्यं ‘को ते पियो’ति? सा ‘त्वं मे, महाराज, पियो’ति वत्वा पुन मं पुच्छिस्सति. अथस्साहं ‘मय्हम्पि त्वंयेव पिया’ति वक्खामी’’ति. इति सो अञ्ञमञ्ञं विस्सासजननत्थं सम्मोदनीयं कथं कथेन्तो पुच्छति. सा पन देवी पण्डिता बुद्धुपट्ठायिका धम्मुपट्ठायिका सङ्घुपट्ठायिका महापञ्ञा, तस्मा एवं चिन्तेसि – ‘‘नायं पञ्हो रञ्ञो मुखं ओलोकेत्वा कथेतब्बो’’ति. सा सरसेनेव कथेत्वा राजानं पुच्छि. राजा ताय सरसेन कथितत्ता निवत्तितुं अलभन्तो सयम्पि सरसेनेव कथेत्वा ‘‘सकारणं इदं, तथागतस्स नं आरोचेस्सामी’’ति गन्त्वा भगवतो आरोचेसि. नेवज्झगाति नाधिगच्छति. एवं पियो पुथु अत्ता परेसन्ति यथा एकस्स अत्ता पियो, एवं परेसं पुथुसत्तानम्पि अत्ता पियोति अत्थो. अट्ठमं.

९. यञ्ञसुत्तवण्णना

१२०. नवमे थूणूपनीतानीति थूणं उपनीतानि, थूणाय बद्धानि होन्ति. परिकम्मानि करोन्तीति एत्तावता तेहि भिक्खूहि रञ्ञो आरद्धयञ्ञो तथागतस्स आरोचितो. कस्मा पन रञ्ञा अयं यञ्ञो आरद्धो? दुस्सुपिनपटिघाताय. एकदिवसं किर राजा सब्बालङ्कारप्पटिमण्डितो हत्थिक्खन्धवरगतो नगरं अनुसञ्चरन्तो वातपानं विवरित्वा ओलोकयमानं एकं इत्थिं दिस्वा तस्सा पटिबद्धचित्तो ततोव पटिनिवत्तित्वा अन्तेपुरं पविसित्वा एकस्स पुरिसस्स तमत्थं आरोचेत्वा ‘‘गच्छ तस्सा सस्सामिकभावं वा अस्सामिकभावं वा जानाही’’ति पेसेसि. सो गन्त्वा पुच्छि. सा ‘‘एसो मे सामिको आपणे निसिन्नो’’ति दस्सेसि. राजपुरिसो रञ्ञो तमत्थं आचिक्खि. राजा तं पुरिसं पक्कोसापेत्वा ‘‘मं उपट्ठहा’’ति आह. ‘‘नाहं, देव, उपट्ठहितुं जानामी’’ति च वुत्ते ‘‘उपट्ठानं नाम न आचरियस्स सन्तिके उग्गहेतब्ब’’न्ति बलक्कारेन आवुधफलकं गाहापेत्वा उपट्ठाकं अकासि. उपट्ठहित्वा गेहं गतमत्तमेव च नं पुन पक्कोसापेत्वा ‘‘उपट्ठाकेन नाम रञ्ञो वचनं कत्तब्बं, गच्छ इतो योजनमत्ते अम्हाकं सीसधोवनपोक्खरणी अत्थि, ततो अरुणमत्तिकञ्च लोहितुप्पलमालञ्च गण्हित्वा एहि. सचे अज्जेव नागच्छसि, राजदण्डं करिस्सामी’’ति वत्वा पेसेसि. सो राजभयेन निक्खमित्वा गतो.

राजापि तस्मिं गते दोवारिकं पक्कोसापेत्वा, ‘‘अज्ज सायन्हेयेव द्वारं पिदहित्वा ‘अहं राजदूतो’ति वा ‘उपराजदूतो’ति वा भणन्तानम्पि मा विवरी’’ति आह. सो पुरिसो मत्तिकञ्च उप्पलानि च गहेत्वा द्वारे पिहितमत्ते आगन्त्वा बहुं वदन्तोपि द्वारं अलभित्वा परिस्सयभयेन जेतवनं गतो. राजापि रागपरिळाहेन अभिभूतो काले निसीदति, काले तिट्ठति, काले निपज्जति, सन्निट्ठानं अलभन्तो यत्थ कत्थचि निसिन्नकोव मक्कटनिद्दाय निद्दायति.

पुब्बे च तस्मिंयेव नगरे चत्तारो सेट्ठिपुत्ता परदारिककम्मं कत्वा नन्दोपनन्दाय नाम लोहकुम्भिया निब्बत्तिंसु. ते फेणुद्देहकं पच्चमाना तिंसवस्ससहस्सानि हेट्ठा गच्छन्ता कुम्भिया तलं पापुणन्ति, तिंसवस्ससहस्सानि उपरि गच्छन्ता मत्थकं पापुणन्ति. ते तं दिवसं आलोकं ओलोकेत्वा अत्तनो दुक्कटभयेन एकेकं गाथं वत्तुकामा वत्तुं असक्कोन्ता एकेकं अक्खरमेव आहंसु. एको स-कारं, एको सो-कारं, एको न-कारं, एको दु-कारं आह. राजा तेसं नेरयिकसत्तानं सद्दं सुतकालतो पट्ठाय सुखं अविन्दमानोव तंरत्तावसेसं वीतिनामेसि.

अरुणे उट्ठिते पुरोहितो आगन्त्वा तं सुखसेय्यं पुच्छि. सो ‘‘कुतो मे, आचरिय, सुख’’न्ति? वत्वा, ‘‘सुपिने एवरूपे सद्दे अस्सोसि’’न्ति आचिक्खि. ब्राह्मणो – ‘‘इमस्स रञ्ञो इमिना सुपिनेन वुड्ढि वा हानि वा नत्थि, अपिच खो पन यं इमस्स गेहे अत्थि, तं समणस्स गोतमस्स होति, गोतमसावकानं होति, ब्राह्मणा किञ्चि न लभन्ति, ब्राह्मणानं भिक्खं उप्पादेस्सामी’’ति, ‘‘भारियो अयं, महाराज, सुपिनो तीसु जानीसु एका पञ्ञायति, रज्जन्तरायो वा भविस्सति जीवितन्तरायो वा, देवो वा न वस्सिस्सती’’ति आह. कथं सोत्थि भवेय्य आचरियाति? ‘‘मन्तेत्वा ञातुं सक्का, महाराजाति. गच्छथ आचरियेहि सद्धिं मन्तेत्वा अम्हाकं सोत्थिं करोथा’’ति.

सो सिविकसालायं ब्राह्मणे सन्निपातेत्वा तमत्थं आरोचेत्वा, ‘‘विसुं विसुं गन्त्वा एवं वदथा’’ति तयो वग्गे अकासि. ब्राह्मणा पविसित्वा राजानं सुखसेय्यं पुच्छिंसु. राजा पुरोहितस्स कथितनियामेनेव कथेत्वा ‘‘कथं सोत्थि भवेय्या’’ति पुच्छि. महाब्राह्मणा – ‘‘सब्बपञ्चसतं यञ्ञं यजित्वा एतस्स कम्मस्स सोत्थि भवेय्य, एवं, महाराज, आचरिया कथेन्ती’’ति आहंसु. राजा तेसं सुत्वा अनभिनन्दित्वा अप्पटिक्कोसित्वा तुण्ही अहोसि. अथ दुतियवग्गब्राह्मणापि आगन्त्वा तत्थेव कथेसुं. तथा ततियवग्गब्राह्मणापि. अथ राजा ‘‘यञ्ञं करोन्तू’’ति आणापेसि. ततो पट्ठाय ब्राह्मणा उसभादयो पाणे आहरापेसुं. नगरे महासद्दो उदपादि. तं पवत्तिं ञत्वा मल्लिका राजानं तथागतस्स सन्तिकं पेसेसि. सो गन्त्वा भगवन्तं वन्दित्वा एकमन्तं निसीदि. अथ नं भगवा – ‘‘हन्द कुतो नु त्वं, महाराज, आगच्छसि दिवादिवस्सा’’ति आह. राजा – ‘‘अज्ज मे, भन्ते, सुपिनके चत्तारो सद्दा सुता, सोहं ब्राह्मणे पुच्छिं. ब्राह्मणा ‘भारियो, महाराज, सुपिनो, सब्बपञ्चसतं यञ्ञं यजित्वा पटिकम्मं करोमाति आरद्धा’’’ति आह. किन्ति ते, महाराज, सद्दा सुताति. सो यथासुतं आरोचेसि. अथ नं भगवा आह – पुब्बे, महाराज, इमस्मिंयेव नगरे चत्तारो सेट्ठिपुत्ता परदारिका हुत्वा नन्दोपनन्दाय लोहकुम्भिया निब्बत्ता सट्ठिवस्ससहस्समत्थके उग्गच्छिंसु.

तत्थ एको –

‘‘सट्ठिवस्ससहस्सानि, परिपुण्णानि सब्बसो;

निरये पच्चमानानं, कदा अन्तो भविस्सती’’ति.(पे. व. ८०२; जा. १.४.५४) –

इमं गाथं वत्थुकामो अहोसि. दुतियो –

‘‘सोहं नून इतो गन्त्वा, योनिं लद्धान मानुसिं;

वदञ्ञू सीलसम्पन्नो, काहामि कुसलं बहु’’न्ति. (पे. व. ८०५; जा. १.४.५६) –

इमं गाथं वत्थुकामो अहोसि. ततियो –

‘‘नत्थि अन्तो कुतो अन्तो, न अन्तो पटिदिस्सति;

तदा हि पकतं पापं, मम तुय्हञ्च मारिसा’’ति. (पे. व. ८०३; जा. १.४.५५) –

इमं गाथं वत्थुकामो अहोसि. चतुत्थो –

‘‘दुज्जीवितमजीविम्हा, ये सन्ते न ददम्हसे;

विज्जमानेसु भोगेसु, दीपं नाकम्ह अत्तनो’’ति. (पे. व. ८०४; जा. १.४.५३) –

इमं. ते इमा गाथा वत्तुं असक्कोन्ता एकेकं अक्खरं वत्वा तत्थेव निमुग्गा. इति, महाराज, ते नेरयिकसत्ता यथाकम्मेन विरविंसु. तस्स सद्दस्स सुतपच्चया तुय्हं हानि वा वुड्ढि वा नत्थि. एत्तकानं पन पसूनं घातनकम्मं नाम भारियन्ति निरयभयेन तज्जेत्वा धम्मकथं कथेसि. राजा दसबले पसीदित्वा, ‘‘मुञ्चामि, नेसं जीवितं ददामि, हरितानि चेव तिणानि खादन्तु, सीतलानि च पानीयानि पिवन्तु, सीतो च नेसं वातो उपवायतू’’ति वत्वा, ‘‘गच्छथ हारेथा’’ति मनुस्से आणापेसि. ते गन्त्वा ब्राह्मणे पलापेत्वा तं पाणसङ्घं बन्धनतो मोचेत्वा नगरे धम्मभेरिं चरापेसुं.

अथ राजा दसबलस्स सन्तिके निसिन्नो आह – ‘‘भन्ते, एकरत्ति नाम तियामा होति, मय्हं पन अज्ज द्वे रत्तियो एकतो घटिता विय अहेसु’’न्ति. सोपि पुरिसो तत्थेव निसिन्नो आह – ‘‘भन्ते, योजनं नाम चतुगावुतं होति, मय्हं पन अज्ज द्वे योजनानि एकतो कतानि विय अहेसु’’न्ति. अथ भगवा – ‘‘जागरस्स ताव रत्तिया दीघभावो पाकटो, सन्तस्स योजनस्स दीघभावो पाकटो, वट्टपतितस्स पन बालपुथुज्जनस्स अनमतग्गसंसारवट्टं एकन्तदीघमेवा’’ति राजानञ्च तञ्च पुरिसं नेरयिकसत्ते च आरब्भ धम्मपदे इमं गाथं अभासि –

‘‘दीघा जागरतो रत्ति, दीघं सन्तस्स योजनं;

दीघो बालानं संसारो, सद्धम्मं अविजानत’’न्ति. (ध. प. ६०);

गाथापरियोसाने सो इत्थिसामिको पुरिसो सोतापत्तिफले पतिट्ठहि. एतमत्थं विदित्वाति एतं कारणं जानित्वा.

अस्समेधन्तिआदीसु – पोराणराजकाले किर सस्समेधं पुरिसमेधं सम्मापासं वाचापेय्यन्ति चत्तारि सङ्गहवत्थूनि अहेसुं, येहि राजानो लोकं सङ्गण्हिंसु. तत्थ निप्फन्नसस्सतो दसमभागग्गहणं सस्समेधं नाम, सस्ससम्पादने मेधाविताति अत्थो. महायोधानं छमासिकं भत्त-वेतनानुप्पदानं पुरिसमेधं नाम, पुरिससङ्गण्हने मेधाविताति अत्थो. दलिद्दमनुस्सानं हत्थतो लेखं गहेत्वा तीणि वस्सानि विनाव वड्ढिया सहस्सद्विसहस्समत्तधनानुप्पदानं सम्मापासं नाम. तञ्हि सम्मा मनुस्से पासेति, हदये बन्धित्वा विय ठपेति, तस्मा सम्मापासन्ति वुच्चति. ‘‘तात मातुला’’तिआदिना नयेन सण्हवाचाभणनं वाचापेय्यं नाम, पियवाचाति अत्थो. एवं चतूहि सङ्गहवत्थूहि सङ्गहितं रट्ठं इद्धञ्चेव होति फीतञ्च पहूतअन्नपानं खेमं निरब्बुदं. मनुस्सा मुदा मोदमाना उरे पुत्ते नच्चेन्ता अपारुतघरद्वारा विहरन्ति. इदं घरद्वारेसु अग्गळानं अभावतो निरग्गळन्ति वुच्चति. अयं पोराणिका पवेणी.

अपरभागे पन ओक्काकराजकाले ब्राह्मणा इमानि चत्तारि सङ्गहवत्थूनि इमञ्च रट्ठसम्पत्तिं परिवत्तेत्वा उद्धंमूलकं कत्वा अस्समेधं पुरिसमेधन्ति आदिके पञ्च यञ्ञे नाम अकंसु. तेसु अस्समेत्थ मेधन्ति वधन्तीति अस्समेधो. द्वीहि परियञ्ञेहि यजितब्बस्स एकवीसतियूपस्स एकस्मिं मज्झिमदिवसेयेव सत्तनवुतिपञ्चपसुसतघातभिंसनस्स ठपेत्वा भूमिञ्च पुरिसे च अवसेससब्बविभवदक्खिणस्स यञ्ञस्सेतं अधिवचनं. पुरिसमेत्थ मेधन्तीति पुरिसमेधो. चतूहि परियञ्ञेहि यजितब्बस्स सद्धिं भूमिया अस्समेधे वुत्तविभवदक्खिणस्स यञ्ञस्सेतं अधिवचनं. सम्ममेत्थ पासेन्तीति सम्मापासो. दिवसे दिवसे सम्मं खिपित्वा तस्स पतितोकासे वेदिं कत्वा संहारिमेहि यूपादीहि सरस्सतिनदिया निमुग्गोकासतो पभुति पटिलोमं गच्छन्तेन यजितब्बस्स सत्रयागस्सेतं अधिवचनं. वाजमेत्थ पिवन्तीति वाजपेय्यो. एकेन परियञ्ञेन सत्तरसहि पसूहि यजितब्बस्स बेलुवयूपस्स सत्तरसकदक्खिणस्स यञ्ञस्सेतं अधिवचनं. नत्थि एत्थ अग्गळाति निरग्गळो. नवहि परियञ्ञेहि यजितब्बस्स सद्धिं भूमिया च पुरिसेहि च अस्समेधे वुत्तविभवदक्खिणस्स सब्बमेधपरियायनामस्स अस्समेधविकप्पस्सेवेतं अधिवचनं. महारम्भाति महाकिच्चा महाकरणीया. सम्मग्गताति सम्मा पटिपन्ना बुद्धादयो. निरारम्भाति अप्पत्था अप्पकिच्चा. यजन्ति अनुकुलन्ति अनुकुलेसु यजन्ति, यं निच्चभत्तादि पुब्बपुरिसेहि पट्ठपितं, तं अपरापरं अनुपच्छिन्नत्ता मनुस्सा ददन्तीति अत्थो. नवमं.

१०. बन्धनसुत्तवण्णना

१२१. दसमे इध, भन्ते, रञ्ञाति इदं ते भिक्खू तेसु मनुस्सेसु आनन्दत्थेरस्स सुकतकारणं आरोचेन्ता आरोचेसुं. रञ्ञो किर सक्केन कुसराजस्स दिन्नो अट्ठवङ्को मणि पवेणिया आगतो. राजा अलङ्करणकाले तं मणिं आहरथाति आह. मनुस्सा ‘‘ठपितट्ठाने न पस्सामा’’ति आरोचेसुं. राजा अन्तोघरचारिनो ‘‘मणिं परियेसित्वा देथा’’ति बन्धापेसि. आनन्दत्थेरो ते दिस्वा मणिपटिसामकानं एकं उपायं आचिक्खि. ते रञ्ञो आरोचेसुं. राजा ‘‘पण्डितो थेरो, थेरस्स वचनं करोथा’’ति. पटिसामकमनुस्सा राजङ्गणे उदकचाटिं ठपेत्वा साणिया परिक्खिपापेत्वा ते मनुस्से आहंसु – ‘‘साटकं पारुपित्वा एत्थ गन्त्वा हत्थं ओतारेथा’’ति. मणिचोरो चिन्तेसि – ‘‘राजभण्डं विस्सज्जेतुं वा वलञ्जेतुं वा न सक्का’’ति. सो गेहं गन्त्वा मणिं उपकच्छके ठपेत्वा साटकं पारुपित्वा आगम्म उदकचाटियं पक्खिपित्वा पक्कामि. महाजने पटिक्कन्ते राजमनुस्सा चाटियं हत्थं ओतारेत्वा मणिं दिस्वा आहरित्वा रञ्ञो अदंसु. ‘‘आनन्दत्थेरेन किर दस्सितनयेन मणि दिट्ठो’’ति महाजनो कोलाहलं अकासि. ते भिक्खू तं कारणं तथागतस्स आरोचेन्ता इमं पवत्तिं आरोचेसुं. सत्था – ‘‘अनच्छरियं, भिक्खवे, यं आनन्दो मनुस्सानं हत्थारुळ्हमणिं आहरापेय्य, यत्थ पुब्बे पण्डिता अत्तनो ञाणे ठत्वा अहेतुकपटिसन्धियं निब्बत्तानं तिरच्छानगतानम्पि हत्थारुळ्हं भण्डं आहरापेत्वा रञ्ञो अदंसू’’ति वत्वा –

‘‘उक्कट्ठे सूरमिच्छन्ति, मन्तीसु अकुतूहलं;

पियञ्च अन्नपानम्हि, अत्थे जाते च पण्डित’’न्ति. (जा. १.१.९२) –

महासारजातकं कथेसि.

न तं दळ्हन्ति तं बन्धनं थिरन्ति न कथेन्ति. यदायसन्ति यं आयसा कतं. सारत्तरत्ताति सुट्ठु रत्तरत्ता, सारत्तेन वा रत्ता सारत्तरत्ता, सारं इदन्ति मञ्ञनाय रत्ताति अत्थो. अपेक्खाति आलयो निकन्ति. आहूति कथेन्ति. ओहारिनन्ति चतूसु अपायेसु आकड्ढनकं. सिथिलन्ति न आयसादिबन्धनं विय इरियापथं निवारेत्वा ठितं. तेन हि बन्धनेन बद्धा परदेसम्पि गच्छन्तियेव. दुप्पमुञ्चन्ति अञ्ञत्र लोकुत्तरञाणेन मुञ्चितुं असक्कुणेय्यन्ति. दसमं.

पठमो वग्गो.