१. पठमवग्गो

१. सुवीरसुत्तवण्णना

२४७. सक्कसंयुत्तस्स पठमे अभियंसूति कदा अभियंसु? यदा बलवन्तो अहेसुं, तदा. तत्रायं अनुपुब्बिकथा – सक्को किर मगधरट्ठे मचलगामके मघो नाम माणवो हुत्वा तेत्तिंस पुरिसे गहेत्वा कल्याणकम्मं करोन्तो सत्त वतपदानि पूरेत्वा तत्थ कालङ्कतो देवलोके निब्बत्ति. तं बलवकम्मानुभावेन सपरिसं सेसदेवता दसहि ठानेहि अधिगण्हन्तं दिस्वा ‘‘आगन्तुकदेवपुत्ता आगता’’ति नेवासिका गन्धपानं सज्जयिंसु. सक्को सकपरिसाय सञ्ञं अदासि – ‘‘मारिसा मा गन्धपानं पिवित्थ, पिवनाकारमत्तमेव दस्सेथा’’ति. ते तत्थ अकंसु. नेवासिकदेवता सुवण्णसरकेहि उपनीतं गन्धपानं यावदत्थं पिवित्वा मत्ता तत्थ तत्थ सुवण्णपथवियं पतित्वा सयिंसु. सक्को ‘‘गण्हथ पुत्तहताय पुत्ते’’ति ते पादेसु गहेत्वा सिनेरुपादे खिपापेसि. सक्कस्स पुञ्ञतेजेन तदनुवत्तकापि सब्बे तत्थेव पतिंसु. ते सिनेरुवेमज्झकाले सञ्ञं लभित्वा, ‘‘ताता न सुरं पिविम्ह, न सुरं पिविम्हा’’ति आहंसु. ततो पट्ठाय असुरा नाम जाता. अथ नेसं कम्मपच्चयउतुसमुट्ठानं सिनेरुस्स हेट्ठिमतले दसयोजनसहस्सं असुरभवनं निब्बत्ति. सक्को तेसं निवत्तेत्वा अनागमनत्थाय आरक्खं ठपेसि, यं सन्धाय वुत्तं –

‘‘अन्तरा द्विन्नं अयुज्झपुरानं,

पञ्चविधा ठपिता अभिरक्खा;

उदकं करोटि-पयस्स च हारी,

मदनयुता चतुरो च महत्था’’ति.

द्वे नगरानि हि युद्धेन गहेतुं असक्कुणेय्यताय अयुज्झपुरानि नाम जातानि देवनगरञ्च असुरनगरञ्च. यदा हि असुरा बलवन्तो होन्ति, अथ देवेहि पलायित्वा देवनगरं पविसित्वा द्वारे पिदहिते असुरानं सतसहस्सम्पि किञ्चि कातुं न सक्कोति. यदा देवा बलवन्तो होन्ति, अथासुरेहि पलायित्वा असुरनगरस्स द्वारे पिदहिते सक्कानं सतसहस्सम्पि किञ्चि कातुं न सक्कोति. इति इमानि द्वे नगरानि अयुज्झपुरानि नाम. नेसं अन्तरा एतेसु उदकादीसु पञ्चसु ठानेसु सक्केन आरक्खा ठपिता. तत्थ उदकसद्देन नागा गहिता. ते हि उदके बलवन्तो होन्ति. तस्मा सिनेरुस्स पठमालिन्दे तेसं आरक्खा. करोटिसद्देन सुपण्णा गहिता. तेसं किर करोटि नाम पानभोजनं, तेन तं नामं लभिंसु. दुतियालिन्दे तेसं आरक्खा. पयस्सहारीसद्देन कुम्भण्डा गहिता. दानवरक्खसा किर ते. ततियालिन्दे तेसं आरक्खा. मदनयुतसद्देन यक्खा गहिता. विसमचारिनो किरते युज्झसोण्डा. चतुत्थालिन्दे तेसं आरक्खा. चतुरो च महन्ताति चत्तारो महाराजानो वुत्ता. पञ्चमालिन्दे तेसं आरक्खा. तस्मा यदि असुरा कुपिताविलचित्ता देवपुरं उपयन्ति युद्धेसू, यं गिरिनो पठमं परिभण्डं, तं उरगा पटिबाहन्ति एवं सेसेसु सेसा.

ते पन असुरा आयुवण्णरसइस्सरियसम्पत्तीहि तावतिंससदिसाव. तस्मा अन्तरा अत्तानं अजानित्वा पाटलिया पुप्फिताय, ‘‘न इदं देवनगरं, तत्थ पारिच्छत्तको पुप्फति, इध पन चित्तपाटली, जरसक्केनाम्हाकं सुरं पायेत्वा वञ्चिता, देवनगरञ्च नो गहितं, गच्छाम तेन सद्धिं युज्झिस्सामा’’ति हत्थिअस्सरथे आरुय्ह सुवण्णरजतमणिफलकानि गहेत्वा, युद्धसज्जा हुत्वा, असुरभेरियो वादेन्ता महासमुद्दे उदकं द्विधा भेत्वा उट्ठहन्ति. ते देवे वुट्ठे वम्मिकमक्खिका वम्मिकं विय सिनेरुं अभिरुहितु आरभन्ति. अथ नेसं पठमं नागेहि सद्धिं युद्धं होति. तस्मिं खो पन युद्धे न कस्सचि छवि वा चम्मं वा छिज्जति, न लोहितं उप्पज्जति, केवलं कुमारकानं दारुमेण्डकयुद्धं विय अञ्ञमञ्ञं सन्तासनमत्तमेव होति. कोटिसतापि कोटिसहस्सापि नागा तेहि सद्धिं युज्झित्वा ते असुरपुरंयेव पवेसेत्वा निवत्तन्ति.

यदा पन असुरा बलवन्तो होन्ति, अथ नागा ओसक्कित्वा दुतिये आलिन्दे सुपण्णेहि सद्धिं एकतोव हुत्वा युज्झन्ति. एस नयो सुपण्णादीसूपि. यदा पन तानि पञ्चपि ठानानि असुरा मद्दन्ति, तदा एकतो सम्पिण्डितानिपि पञ्च बलानि ओसक्कन्ति. अथ चत्तारो महाराजानो गन्त्वा सक्कस्स तं पवत्तिं आरोचेन्ति. सक्को तेसं वचनं सुत्वा दियड्ढयोजनसतिकं वेजयन्तरथं आरुय्ह सयं वा निक्खमति, एकं वा पुत्तं पेसेति. इमस्मिं पन काले पुत्तं पेसेतुकामो, तात सुवीरातिआदिमाह.

एवं भद्दन्तवाति खोति एवं होतु भद्दं तव इति खो. पमादं आपादेसीति पमादं अकासि. अच्छरासङ्घपरिवुतो सट्ठियोजनं वित्थारेन सुवण्णमहावीथिं ओतरित्वा नक्खत्तं कीळन्तो नन्दनवनादीसु विचरतीति अत्थो.

अनुट्ठहन्ति अनुट्ठहन्तो. अवायामन्ति अवायमन्तो. अलस्वस्साति अलसो अस्स. न च किच्चानि कारयेति किञ्चि किच्चं नाम न करेय्य. सब्बकामसमिद्धस्साति सब्बकामेहि समिद्धो अस्स. तं मे, सक्क, वरं दिसाति, सक्क देवसेट्ठ, तं मे वरं उत्तमं ठानं ओकासं दिसं आचिक्ख कथेहीति वदति. निब्बानस्स हि सो मग्गोति कम्मं अकत्वा जीवितट्ठानं नाम निब्बानस्स मग्गो. पठमं.

२. सुसीमसुत्तवण्णना

२४८. दुतिये सुसीमन्ति अत्तनो पुत्तसहस्सस्स अन्तरे एवंनामकं एकं पुत्तमेव. दुतियं.

३. धजग्गसुत्तवण्णना

२४९. ततिये समुपब्यूळ्होति सम्पिण्डितो रासिभूतो. धजग्गंउल्लोकेय्यथाति सक्कस्स किर दियड्ढयोजनसतायामो रथो. तस्स हि पच्छिमन्तो पण्णासयोजनो, मज्झे रथपञ्जरो पण्णासयोजनो, रथसन्धितो याव रथसीसा पण्णासयोजनानि. तदेव पमाणं दिगुणं कत्वा तियोजनसतायामोतिपि वदन्तियेव. तस्मिं योजनिकपल्लङ्को अत्थतो, तियोजनिकं सेतच्छत्तं मत्थके ठपितं, एकस्मिंयेव युगे सहस्सआजञ्ञा युत्ता, सेसालङ्कारस्स पमाणं नत्थि. धजो पनस्स अड्ढतियानि योजनसतानि उग्गतो, यस्स वाताहतस्स पञ्चङ्गिकतूरियस्सेव सद्दो निच्छरति, तं उल्लोकेय्याथाति वदति. कस्मा? तं पस्सन्तानञ्हि राजा नो आगन्त्वा परिसपरियन्ते निखातथम्भो विय ठितो, कस्स मयं भायामाति भयं न होति. पजापतिस्साति सो किर सक्केन समानवण्णो समानायुको दुतियं आसनं लभति. तथा वरुणो ईसानो च. वरुणो पन ततियं आसनं लभति, ईसानो चतुत्थं. पलायीति असुरेहि पराजितो तस्मिं रथे ठितो अप्पमत्तकम्पि रजधजं दिस्वा पलायनधम्मो.

इतिपि सो भगवातिआदीनि विसुद्धिमग्गे वित्थारितानेव. इदमवोचाति इदं धजग्गपरित्तं नाम भगवा अवोच, यस्स आणाखेत्ते कोटिसतसहस्सचक्कवाळे आनुभावो वत्तति. इदं आवज्जेत्वा हि यक्खभयचोरभयादीहि दुक्खेहि मुत्तानं अन्तो नत्थि. तिट्ठतु अञ्ञदुक्खवूपसमो, इदं आवज्जमानो हि पसन्नचित्तो आकासेपि पतिट्ठं लभति.

तत्रिदं वत्थु – दीघवापिचेतियम्हि किर सुधाकम्मे कयिरमाने एको दहरो मुद्धवेदिकापादतो पतित्वा चेतियकुच्छिया भस्सति. हेट्ठा ठितो भिक्खुसङ्घो ‘‘धजग्गपरित्तं, आवुसो, आवज्जाही’’ति आह. सो मरणभयेन तज्जितो ‘‘धजग्गपरित्तं मं रक्खतू’’ति आह. तावदेवस्स चेतियकुच्छितो द्वे इट्ठका निक्खमित्वा सोपानं हुत्वा अट्ठंसु, उपरिट्ठितो वल्लिनिस्सेणिं ओतारेसुं. तस्मिं निस्सेणियं ठिते इट्ठका यथाट्ठानेयेव अट्ठंसु. ततियं.

४. वेपचित्तिसुत्तवण्णना

२५०. चतुत्थे वेपचित्तीति सो किर असुरानं सब्बजेट्ठको. येनाति निपातमत्तं नन्ति च. कण्ठपञ्चमेहीति द्वीसु हत्थेसु पादेसु कण्ठे चाति एवं पञ्चहि बन्धनेहि. तानि पन नळिनसुत्तं विय मक्कटकसुत्तं विय च चक्खुस्सापाथं आगच्छन्ति, इरियापथं रुज्झन्ति. तेहि पन चित्तेनेव बज्झति, चित्तेनेव मुच्चति. अक्कोसतीति चोरोसि बालोसि मूळ्होसि थेनोसि ओट्ठोसि गोणोसि गद्रभोसि नेरयिकोसि तिरच्छानगतोसि, नत्थि तुय्हं सुगति, दुग्गतियेव तुय्हं पाटिकङ्खाति इमेहि दसहि अक्कोसवत्थूहि अक्कोसति. परिभासतीति, जरसक्क, न त्वं सब्बकालं जिनिस्ससि, यदा असुरानं जयो भविस्सति, तदा तम्पि एवं बन्धित्वा असुरभवनस्स द्वारे निपज्जापेत्वा पोथापेस्सामीति आदीनि वत्वा तज्जेति. सक्को विजितविजयो न तं मनसि करोति, महापटिग्गहणं पनस्स मत्थके विधुनन्तो सुधम्मदेवसभं पविसति चेव निक्खमति च. अज्झभासीति ‘‘किं नु खो एस सक्को इमानि फरुसवचनानि भयेन तितिक्खति, उदाहु अधिवासनखन्तिया समन्नागतत्ता’’ति? वीमंसन्तो अभासि.

दुब्बल्या नोति दुब्बलभावेन नु. पटिसंयुजेति पटिसंयुजेय्य पटिप्फरेय्य. पभिज्जेय्युन्ति विरज्जेय्युं. पकुज्झेय्युन्तिपि पाठो. परन्ति पच्चत्थिकं. यो सतो उपसम्मतीति यो सतिमा हुत्वा उपसम्मति, तस्स उपसमंयेवाहं बालस्स पटिसेधनं मञ्ञेति अत्थो. यदा नं मञ्ञतीति यस्मा तं मञ्ञति. अज्झारुहतीति अज्झोत्थरति. गोव भिय्यो पलायिनन्ति यथा गोयुद्धे तावदेव द्वे गावो युज्झन्ते गोगणो ओलोकेन्तो तिट्ठति, यदा पन एको पलायति, अथ नं पलायन्तं सब्बो गोगणो भिय्यो अज्झोत्थरति. एवं दुम्मेधो खमन्तं भिय्यो अज्झोत्थरतीति अत्थो.

सदत्थपरमाति सकत्थपरमा. खन्त्या भिय्यो न विज्जतीति तेसु सकअत्थपरमेसु अत्थेसु खन्तितो उत्तरितरो अञ्ञो अत्थो न विज्जति. तमाहु परमं खन्तिन्ति यो बलवा तितिक्खति, तस्स तं खन्तिं परमं आहु. बालबलं नाम अञ्ञाणबलं. तं यस्स बलं, अबलमेव तं बलन्ति आहु कथेन्तीति दीपेति. धम्मगुत्तस्साति धम्मेन रक्खितस्स, धम्मं वा रक्खन्तस्स. पटिवत्ताति पटिप्फरित्वा वत्ता, पटिप्फरित्वा वा बालबलन्ति वदेय्यापि, धम्मट्ठं पन चालेतुं समत्थो नाम नत्थि. तस्सेव तेन पापियोति तेन कोधेन तस्सेव पुग्गलस्स पापं. कतरस्स? यो कुद्धं पटिकुज्झति. तिकिच्छन्तानन्ति एकवचने बहुवचनं, तिकिच्छन्तन्ति अत्थो. जना मञ्ञन्तीति एवरूपं अत्तनो च परस्स चाति उभिन्नं अत्थं तिकिच्छन्तं निप्फादेन्तं पुग्गलं ‘‘अन्धबालो अय’’न्ति अन्धबालपुथुज्जनाव एवं मञ्ञन्ति. धम्मस्स अकोविदाति चतुसच्चधम्मे अछेका. इधाति इमस्मिं सासने. खोति निपातमत्तं. चतुत्थं.

५. सुभासितजयसुत्तवण्णना

२५१. पञ्चमे असुरिन्दं एतदवोचाति छेकताय एतं अवोच. एवं किरस्स अहोसि ‘‘परस्स नाम गाहं मोचेत्वा पठमं वत्तुं गरु. परस्स वचनं अनुगन्त्वा पन पच्छा सुखं वत्तु’’न्ति. पुब्बदेवाति देवलोके चिरनिवासिनो पुब्बसामिका, तुम्हाकं ताव पवेणिआगतं भणथाति. अदण्डावचराति दण्डावचरणरहिता, दण्डं वा सत्थं वा गहेतब्बन्ति एवमेत्थ नत्थीति अत्थो. पञ्चमं.

६. कुलावकसुत्तवण्णना

२५२. छट्ठे अज्झभासीति तस्स किर सिम्बलिवनाभिमुखस्स जातस्स रथसद्दो च आजानीयसद्दो धजसद्दो च समन्ता असनिपातसद्दो विय अहोसि. तं सुत्वा सिम्बलिवने बलवसुपण्णा पलायिंसु, जराजिण्णा चेव रोगदुब्बला च असञ्जातपक्खपोतका च पलायितुं असक्कोन्ता, मरणभयेन तज्जिता एकप्पहारेनेव महाविरवं विरविंसु. सक्को तं सुत्वा ‘‘कस्स सद्दो, ताता’’ति? मातलिं पुच्छि. रथसद्दं, ते देव, सुत्वा सुपण्णा पलायितुं असक्कोन्ता विरवन्तीति. तं सुत्वा करुणासमावज्जितहदयो अभासि. ईसामुखेनाति रथस्स ईसामुखेन. यथा कुलावके ईसामुखं न सञ्चुण्णेति, एवं इमिना ईसामुखेन ते परिवज्जय. सो हि रथो पुञ्ञपच्चयनिब्बत्तो चक्कवाळपब्बतेपि सिनेरुम्हिपि सम्मुखीभूते विनिविज्झित्वाव गच्छति न सज्जति, आकासगतसदिसेनेव गच्छति. सचे तेन सिम्बलिवनेन गतो भवेय्य, यथा महासकटे कदलिवनमज्झेन वा एरण्डवनमज्झेन वा गच्छन्ते सब्बवनं विभग्गं निम्मथितं होति, एवं तम्पि सिम्बलिवनं भवेय्य. छट्ठं.

७. नदुब्भियसुत्तवण्णना

२५३. सत्तमे उपसङ्कमीति ‘‘अयं सक्को ‘योपि मे अस्स सुपच्चत्थिको, तस्स पाहं न दुब्भेय्य’न्ति चिन्तेति, मया तस्स पच्चत्थिकतरो नाम नत्थि, वीमंसिस्सामि ताव नं, किं नु खो मं पस्सित्वा दुब्भति, न दुब्भती’’ति चिन्तेत्वा उपसङ्कमि. तिट्ठ वेपचित्ति गहितोसीति वेपचित्ति, एत्थेव तिट्ठ, गहितो त्वं मयाति वदति. सह वचनेनेवस्स सो कण्ठपञ्चमेहि बन्धनेहि बद्धोव अहोसि. सपस्सु च मेति मयि अदुब्भत्थाय सपथं करोहीति वदति. यं मुसाभणतो पापन्ति इमस्मिं कप्पे पठमकप्पिकेसु चेतियरञ्ञो पापं सन्धायाह. अरियूपवादिनोति कोकलिकस्स विय पापं. मित्तद्दुनो च यं पापन्ति महाकपिजातके महासत्ते दुट्ठचित्तस्स पापं. अकतञ्ञुनोति देवदत्तसदिसस्स अकतञ्ञुनो पापं. इमानि किर इमस्मिं कप्पे चत्तारि महापापानि. सत्तमं.

८. वेरोचनअसुरिन्दसुत्तवण्णना

२५४. अट्ठमे अट्ठंसूति द्वारपालरूपकानि विय ठिता. निप्फदाति निप्फत्ति, याव अत्थो निप्फज्जति, ताव वायमेथेवाति वदति. दुतियगाथा सक्कस्स. तत्थ खन्त्या भिय्योति निप्फन्नसोभनेसु अत्थेसु खन्तितो उत्तरितरो अत्थो नाम नत्थि. अत्थजाताति किच्चजाता. सोणसिङ्गालादयोपि हि उपादाय अकिच्चजातो सत्तो नाम नत्थि. इतो एत्तो गमनमत्तम्पि किच्चमेव होति. संयोगपरमा त्वेव, सम्भोगा सब्बपाणिनन्ति पारिवासिकओदनादीनि हि असम्भोगारहानि होन्ति, तानि पुन उण्हापेत्वा भज्जित्वा सप्पिमधुफाणितादीहि संयोजितानि सम्भोगारहानि होन्ति. तेनाह ‘‘संयोगपरमा त्वेव, सम्भोगा सब्बपाणिन’’न्ति. निप्फन्नसोभनो अत्थोति इमे अत्था नाम निप्फन्नाव सोभन्ति. पुन चतुत्थगाथा सक्कस्स. तत्थापि वुत्तनयेनेव अत्थो वेदितब्बो. अट्ठमं.

९. अरञ्ञायतनइसिसुत्तवण्णना

२५५. नवमे पण्णकुटीसु सम्मन्तीति हिमवन्तपदेसे रमणीये अरञ्ञायतने रत्तिट्ठानदिवाट्ठानचङ्कमनादीहि सम्पन्नासु पण्णसालासु वसन्ति. सक्को च देवानमिन्दो वेपचित्ति चाति इमे द्वे जना जामातिकससुरा कालेन कलहं करोन्ति, कालेन एकतो चरन्ति, इमस्मिं पन काले एकतो चरन्ति. पटलियोति गणङ्गणूपाहना. खग्गं ओलग्गेत्वाति खग्गं अंसे ओलग्गेत्वा. छत्तेनाति दिब्बसेतच्छत्तेन मत्थके धारयमानेन. अपब्यामतो करित्वाति ब्यामतो अकत्वा. चिरदिक्खितानन्ति चिरसमादिण्णवतानं. इतो पटिक्कम्माति ‘‘इतो पक्कम परिवज्जय, मा उपरिवाते तिट्ठा’’ति वदन्ति. न हेत्थ देवाति एतस्मिं सीलवन्तानं गन्धे देवा न पटिक्कूलसञ्ञिनो, इट्ठकन्तमनापसञ्ञिनोयेवाति दीपेति. नवमं.

१०. समुद्दकसुत्तवण्णना

२५६. दसमे समुद्दतीरे पण्णकुटीसूति चक्कवाळमहासमुद्दपिट्ठियं रजतपट्टवण्णे वालुकपुळिने वुत्तप्पकारासु पण्णसालासु वसन्ति. सियापि नोति सियापि अम्हाकं. अभयदक्खिणं याचेय्यामाति अभयदानं याचेय्याम. येभुय्येन किर देवासुरसङ्गामो महासमुद्दपिट्ठे होति. असुरानं न सब्बकालं जयो होति, बहुवारे पराजयोव होति. ते देवेहि पराजिता पलायन्ता इसीनं अस्समपदेन गच्छन्ता ‘‘सक्को इमेहि सद्धिं मन्तेत्वा अम्हे नासेति, गण्हथ पुत्तहताय पुत्ते’’ति कुपिता अस्समपदे पानीयघटचङ्कमनसालादीनि विद्धंसेन्ति. इसयो अरञ्ञतो फलाफलं आदाय आगता नं दिस्वा पुन दुक्खेन पटिपाकतिकं करोन्ति. तेपि पुनप्पुनं तथेव विनासेन्ति. तस्मा ‘‘इदानि तेसं सङ्गामो पच्चुपट्ठितो’’ति सुत्वा एवं चिन्तयिंसु.

कामंकरोति इच्छितकरो. भयस्स अभयस्स वाति भयं वा अभयं वा. इदं वुत्तं होति – सचे त्वं अभयं दातुकामो, अभयं दातुं पहोसि. सचे भयं दातुकामो. भयं दातुं पहोसि. अम्हाकं पन अभयदानं देहीति. दुट्ठानन्ति विरुद्धानं. पवुत्तन्ति खेत्ते पतिट्ठापितं.

तिक्खत्तुं उब्बिज्जीति सायमासभत्तं भुञ्जित्वा सयनं अभिरुय्ह निपन्नो निद्दाय ओक्कन्तमत्ताय समन्ता ठत्वा सत्तिसतेन पहटो विय विरवन्तो उट्ठहति, दसयोजनसहस्सं असुरभवनं ‘‘किमिद’’न्ति सङ्खोभं आपज्जति. अथ नं आगन्त्वा ‘‘किमिद’’न्ति पुच्छन्ति. सो ‘‘न किञ्ची’’ति वदति. दुतिययामादीसुपि एसेव नयो. इति असुरानं ‘‘मा भायि, महाराजा’’ति तं अस्सासेन्तानंयेव अरुणं उग्गच्छति. एवमस्स ततो पट्ठाय गेलञ्ञजातं चित्तं वेपति. तेनेव चस्स ‘‘वेपचित्ती’’ति अपरं नामं उदपादीति. दसमं.

पठमो वग्गो.