२. दुतियवग्गो

१. वतपदसुत्तवण्णना

२५७. दुतियवग्गस्स पठमे वतपदानीति वतकोट्ठासानि. समत्तानीति परिपुण्णानि. समादिन्नानीति गहितानि. कुले जेट्ठापचायीति कुलजेट्ठकानं महापिता महामाता चूळपिता चूळमाता मातुलो मातुलानीतिआदीनं अपचितिकारको. सण्हवाचोति पियमुदुमधुरवाचो. मुत्तचागोति विस्सट्ठचागो. पयतपाणीति देय्यधम्मदानत्थाय सदा धोतहत्थो. वोस्सग्गरतोति वोस्सज्जने रतो. याचयोगोति परेहि याचितब्बारहो, याचयोगोति वा याचयोगेनेव युत्तो. दानसंविभागरतोति दाने च संविभागे च रतो. पठमं.

२. सक्कनामसुत्तवण्णना

२५८. दुतिये मनुस्सभूतोति मगधरट्ठे मचलगामे मनुस्सभूतो. आवसथं अदासीति चतुमहापथे महाजनस्स आवसथं कारेत्वा अदासि. सहस्सम्पि अत्थानन्ति सहस्सम्पि कारणानं, जनसहस्सेन वा वचनसहस्सेन वा ओसारिते ‘‘अयं इमस्स अत्थो, अयं इमस्स अत्थो’’ति एकपदे ठितोव विनिच्छिनति. दुतियं.

३. महालिसुत्तवण्णना

२५९. ततिये उपसङ्कमीति ‘‘सक्को देवराजाति कथेन्ति, अत्थि नु खो सो सक्को, येन सो दिट्ठपुब्बोति इममत्थं दसबलं पुच्छिस्सामी’’ति उपसङ्कमि. तञ्च पजानामीति बहुवचने एकवचनं, ते च धम्मे पजानामीति अत्थो. सक्को किर अनन्तरे अत्तभावे मगधरट्ठे मचलगामे मघो नाम माणवो अहोसि पण्डितो ब्यत्तो, बोधिसत्तचरिया विय च तस्स चरिया अहोसि. सो तेत्तिंस पुरिसे गहेत्वा कल्याणमकासि. एकदिवसं अत्तनोव पञ्ञाय उपपरिक्खित्वा गाममज्झे महाजनस्स सन्निपतितट्ठाने कचवरं उभतोपस्सेसु अपब्यूहित्वा तं ठानं रमणीयं अकासि. पुन तत्थेव मण्डपं कारेसि. पुन गच्छन्ते काले सालं कारेसि. गामतो च निक्खमित्वा गावुतम्पि अड्ढयोजनम्पि तिगावुतम्पि योजनम्पि विचरित्वा तेहि सहायेहि सद्धिं विसमं समं अकासि. ते सब्बेव एकच्छन्दा तत्थ तत्थ सेतुयुत्तट्ठाने सेतुं, मण्डपसालापोक्खरणिमालावच्छरोपनपदीनं युत्तट्ठानेसु मण्डपसालापोक्खरणिमालावच्छरोपनादीनि करोन्ता बहुं पुञ्ञमकंसु. मघो सत्त वतपदानि पूरेत्वा कायस्स भेदा सद्धिं सहायेहि तावतिंसभवने निब्बत्ति. तं सब्बं भगवा जानाति. तेनाह – येसं धम्मानं समादिन्नत्ता सक्को सक्कत्तं अज्झगा, तञ्च पजानामीति. अयं सक्कस्स सक्कत्ताधिगमे सङ्खेपकथा, वित्थारो पन सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय सक्कपण्हवण्णनायं वुत्तो. ततियं.

४. दलिद्दसुत्तवण्णना

२६०. चतुत्थे मनुस्सदलिद्दोति मनुस्सअधनो. मनुस्सकपणोति मनुस्सकारुञ्ञतं पत्तो. मनुस्सवराकोति मनुस्सलामको. तत्राति तस्मिं ठाने, तस्मिं वा अतिरोचने. उज्झायन्तीति अवज्झायन्ति लामकतो चिन्तेन्ति. खियन्तीति कथेन्ति पकासेन्ति. विपाचेन्तीति तत्थ तत्थ कथेन्ति वित्थारेन्ति. एसो खो मारिसाति एत्थ अयमनुपुब्बिकथा – सो किर अनुप्पन्ने बुद्धे कासिरट्ठे बाराणसिराजा हुत्वा समुस्सितद्धजपटाकनानालङ्कारेन सुट्ठु अलङ्कतं नगरं पदक्खिणं अकासि अत्तनो सिरिसम्पत्तिया समाकड्ढितनेत्तेन जनकायेन समुल्लोकियमानो. तस्मिञ्च समये एको पच्चेकबुद्धो गन्धमादनपब्बता आगम्म तस्मिं नगरे पिण्डाय चरति, सन्तिन्द्रियो सन्तमानसो उत्तमदमथसमन्नागतो. महाजनोपि राजगतं चित्तीकारं पहाय पच्चेकबुद्धमेव ओलोकेसि. राजा – ‘‘इदानि इमस्मिं जनकाये एकोपि मं न ओलोकेति. किं नु खो एत’’न्ति? ओलोकेन्तो पच्चेकबुद्धं अद्दस. सोपि पच्चेकबुद्धो महल्लको होति पच्छिमवये ठितो. चीवरानिपिस्स जिण्णानि, ततो ततो सुत्तानि गळन्ति. रञ्ञो सतसहस्साधिकानि द्वे असङ्ख्येय्यानि पूरितपारमिं पच्चेकबुद्धं दिस्वा चित्तपसादमत्तं वा हत्थं पसारेत्वा वन्दनमत्तं वा नाहोसि. सो राजा ‘‘पब्बजितो मञ्ञे एस उसूयाय मं न ओलोकेती’’ति कुज्झित्वा ‘‘क्वायं कुट्ठिचीवरानि पारुतो’’ति निट्ठुभित्वा पक्कामि. तस्स कम्मस्स विपाकेन महानिरये निब्बत्तित्वा विपाकावसेसेन मनुस्सलोकं आगच्छन्तो राजगहे परमकपणाय इत्थिया कुच्छिम्हि पटिसन्धिं गण्हि. गहितकालतो पट्ठाय सा इत्थी कञ्जिकमत्तम्पि उदरपूरं नालत्थ. तस्स कुच्छिगतस्सेव कण्णनासा विलीना, सङ्खपलितकुट्ठी हुत्वा मातुकुच्छितो निक्खन्तो. मातापितरो नाम दुक्करकारिका होन्ति, तेनस्स माता याव कपालं गहेत्वा चरितुं न सक्कोति, तावस्स कञ्जिकम्पि उदकम्पि आहरित्वा अदासि. भिक्खाय चरितुं समत्थकाले पनस्स कपालं हत्थे दत्वा ‘‘पञ्ञायिस्ससि सकेन कम्मेना’’ति पक्कामि.

अथस्स ततो पट्ठाय सकलसरीरतो मंसानि छिज्जित्वा छिज्जित्वा पतन्ति, यूसं पग्घरति, महावेदना वत्तन्ति. यं यं रच्छं निस्साय सयति, सब्बरत्तिं महारवेन रवति. तस्स कारुञ्ञपरिदेवितसद्देन सकलवीथियं मनुस्सा सब्बरत्तिं निद्दं न लभन्ति. तस्स ततो पट्ठाय सुखसयिते पबोधेतीति सुप्पबुद्धोत्वेव नामं उदपादि. अथापरेन समयेन भगवति राजगहं सम्पत्ते नागरा सत्थारं निमन्तेत्वा नगरमज्झे महामण्डपं कत्वा दानं अदंसु. सुप्पबुद्धोपि कुट्ठी गन्त्वा दानग्गमण्डपस्स अविदूरे निसीदि. नागरा बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयेन भोजनीयेन परिविसन्ता तस्सापि यागुभत्तं अदंसु. तस्स पणीतभोजनं भुत्तस्स चित्तं एकग्गं अहोसि. सत्था भत्तकिच्चावसाने अनुमोदनं कत्वा सच्चानि दीपेसि, सुप्पबुद्धो निसिन्नट्ठाने निसिन्नोव देसनानुसारेन ञाणं पेसेत्वा सोतापत्तिफले पतिट्ठितो. सत्था उट्ठाय विहारं गतो. सोपि चुम्बटं आरुय्ह कपालमादाय दण्डमोलुब्भ अत्तनो वसनट्ठानं गच्छन्तो विब्भन्ताय गाविया जीविता वोरोपितो मत्तिकपातिं भिन्दित्वा सुवण्णपातिं पटिलभन्तो विय दुतियचित्तवारे देवलोके निब्बत्तो अत्तनो पुञ्ञं निस्साय अञ्ञे देवे अतिक्कम्म विरोचित्थ. तं कारणं दस्सेन्तो सक्को देवानमिन्दो एसो खो मारिसातिआदिमाह.

सद्धाति मग्गेनागतसद्धा. सीलञ्च यस्स कल्याणन्ति कल्याणसीलं नाम अरियसावकस्स अरियकन्तसीलं वुच्चति. तत्थ किञ्चापि अरियसावकस्स एकसीलम्पि अकन्तं नाम नत्थि, इमस्मिं पनत्थे भवन्तरेपि अप्पहीनं पञ्चसीलं अधिप्पेतं. चतुत्थं.

५. रामणेय्यकसुत्तवण्णना

२६१. पञ्चमे आरामचेत्याति आरामचेतियानि. वनचेत्याति वनचेतियानि. उभयत्थापि चित्तीकतट्ठेन चेत्यं वेदितब्बं. मनुस्सरामणेय्यस्साति मनुस्सरमणीयभावस्स. इदानि मनुस्सरमणीयकवसेन भूमिरमणीयकं दस्सेन्तो गामे वातिआदिमाह. पञ्चमं.

६. यजमानसुत्तवण्णना

२६२. छट्ठे यजमानानन्ति यजन्तानं. तदा किर अङ्गमगधवासिका मनुस्सा अनुसंवच्छरं सप्पिमधुफाणितादीसु अग्गं गहेत्वा एकस्मिं ठाने दारूनं सट्ठिमत्ते सकटभारे रासिं कत्वा अग्गिं दत्वा पज्जलितकाले ‘‘महाब्रह्मुनो यजामा’’ति तं सब्बं पक्खिपन्ति. ‘‘एकवारं पक्खित्तं सहस्सगुणफलं देती’’ति नेसं लद्धि. सक्को देवराजा ‘‘सब्बेपिमे सब्बअग्गानि गहेत्वा ‘महाब्रह्मुनो यजामा’ति अग्गिम्हि झापेन्ति. अफलं करोन्ति, मयि पस्सन्ते मा नस्सन्तु, यथा बुद्धस्स चेव सङ्घस्स च दत्वा बहुं पुञ्ञं पसवन्ति, एवं करिस्सामी’’ति दारुरासिं जलापेत्वा ओलोकेन्तेसु मनुस्सेसु पुण्णमदिवसे ब्रह्मत्तभावं मापेत्वा महाजनस्स पस्सन्तस्सेव चन्दमण्डलं भिन्दित्वा निक्खन्तो विय अहोसि. महाजनो दिस्वा ‘‘इमं यञ्ञं पटिग्गहेतुं महाब्रह्मा आगच्छती’’ति जण्णुकेहि भूमियं पतिट्ठाय, अञ्जलिं पग्गय्ह नमस्समानो अट्ठासि. ब्राह्मणा आहंसु ‘‘तुम्हे ‘मयं तक्केन कथेमा’ति मञ्ञथ, इदानि पस्सथ, अयं वो ब्रह्मा सहत्था यञ्ञं पटिग्गहेतुं आगच्छती’’ति. सक्को आगन्त्वा दारुचितकमत्थके आकासे ठत्वा ‘‘कस्सायं सक्कारो’’ति पुच्छि? तुम्हाकं, भन्ते, पटिग्गण्हथ नो यञ्ञन्ति. तेन हि आगच्छथ, मा तुलं छड्डेत्वा हत्थेन तुलयित्थ, अयं सत्था धुरविहारे वसति, तं पुच्छिस्साम ‘‘कस्स दिन्नं महप्फलं होती’’ति? उभयरट्ठवासिनो गहेत्वा सत्थु सन्तिकं गन्त्वा पुच्छन्तो एवमाह.

तत्थ पुञ्ञपेक्खानन्ति पुञ्ञं इच्छन्तानं पुञ्ञत्थिकानं. ओपधिकं पुञ्ञन्ति उपधिविपाकं पुञ्ञं. सङ्घे दिन्नं महप्फलन्ति अरियसङ्घे दिन्नं विप्फारवन्तं होति. देसनावसाने चतुरासीतिपाणसहस्सानि अमतपानं पिविंसु. ततो पट्ठाय मनुस्सा सब्बानि अग्गदानानि भिक्खुसङ्घस्स अदंसु. छट्ठं.

७. बुद्धवन्दनासुत्तवण्णना

२६३. सत्तमे उट्ठेहीति उट्ठह, घट, वायम. विजितसङ्गामाति रागादीनञ्चेव द्वादसयोजनिकस्स च मारबलस्स जितत्ता भगवन्तं एवं आलपति. पन्नभाराति ओरोपितखन्धकिलेसाभिसङ्खारभार. पन्नरसाय रत्तिन्ति पन्नरसाय पुण्णमाय रत्तिं. सत्तमं.

८. गहट्ठवन्दनासुत्तवण्णना

२६४. अट्ठमे पुथुद्दिसाति चतस्सो दिसा चतस्सो अनुदिसा च. भुम्माति भूमिवासिनो. चिररत्तसमाहितेति उपचारप्पनाहि चिररत्तसमाहितचित्ते. वन्देति वन्दामि. ब्रह्मचरियपरायणेति दसपि वस्सानि वीसतिपि वस्सानि…पे… सट्ठिपि वस्सानि आपाणकोटिकं एकसेय्यं एकभत्तन्तिआदिकं सेट्ठचरियं ब्रह्मचरियं चरमानेति अत्थो. पुञ्ञकराति चतुपच्चयदानं कुसुम्भसुमनपूजा दीपसहस्सजालन्ति एवमादिपुञ्ञकारका. सीलवन्तोति उपासकत्ते पतिट्ठाय पञ्चहिपि दसहिपि सीलेहि समन्नागता. धम्मेन दारं पोसेन्तीति उमङ्गभिन्दनादीनि अकत्वा धम्मिकेहि कसिगोरक्खवणिज्जादीहि पुत्तदारं पोसेन्ति. पमुखो रथमारुहीति देवानं पमुखो सेट्ठो रथं आरुहि. अट्ठमं.

९. सत्थारवन्दनासुत्तवण्णना

२६५. नवमे भगवन्तं नमस्सतीति एकंसं उत्तरियं दुकुलं कत्वा, ब्रह्मजाणुको हुत्वा सिरसि अञ्जलिं ठपेत्वा नमस्सति. सो यक्खोति सो सक्को. अनोमनामन्ति सब्बगुणेहि ओमकभावस्स नत्थिताय सब्बगुणनेमित्तकेहि नामेहि अनोमनामं. अविज्जासमतिक्कमाति चतुसच्चपटिच्छादिकाय वट्टमूलकअविज्जाय समतिक्कमेन. सेक्खाति सत्त सेक्खा. अपचयारामाति वट्टविद्धंसने रता. सिक्खरेति सिक्खन्ति. नवमं.

१०. सङ्घवन्दनासुत्तवण्णना

२६६. दसमे अज्झभासीति कस्मा एस पुनप्पुनं एवं भासतीति? सक्कस्स किर देवरञ्ञो सद्दो मधुरो, सुफसितं दन्तावरणं, कथनकाले सुवण्णकिङ्किणिकसद्दो विय निच्छरति. तं पुनप्पुनं सोतुं लभिस्सामीति भासति. पूतिदेहसयाति पूतिम्हि मातुसरीरे वा, अत्तनोयेव वा सरीरं अवत्थरित्वा सयनतो पूतिदेहसया. निमुग्गा कुणपम्हेतेति दसमासे मातुकुच्छिसङ्खाते कुणपस्मिं एते निमुग्गा. एतं तेसं पिहयामीति एतेसं एतं पिहयामि पत्थयामि. न ते सं कोट्ठे ओपेन्तीति न ते सं सन्तकं धञ्ञं कोट्ठे पक्खिपन्ति. न हि एतेसं धञ्ञं अत्थि. न कुम्भीति न कुम्भियं. न कळोपियन्ति न पच्छियं. परनिट्ठितमेसानाति परेसं निट्ठितं परघरे पक्कं भिक्खाचारवत्तेन एसमाना गवेसमाना. तेनाति एवं परियिट्ठेन. सुब्बताति दसपि…पे… सट्ठिपि वस्सानि सुसमादिन्नसुन्दरवता.

सुमन्तमन्तिनोति धम्मं सज्झायिस्साम, धुतङ्गं समादियिस्साम, अमतं परिभुञ्जिस्साम, समणधम्मं करिस्सामाति एवं सुभासितभासिनो. तुण्हीभूता समञ्चराति तियामरत्तिं असनिघोसेन घोसिता विय धम्मं कथेन्तापि तुण्हीभूता समं चरन्तियेव नाम. कस्मा? निरत्थकवचनस्साभावा. पुथुमच्चा चाति बहुसत्ता च अञ्ञमञ्ञं विरुद्धा. अत्तदण्डेसु निब्बुताति परविहेठनत्थं गहितदण्डेसु सत्तेसु निब्बुता विस्सट्ठदण्डा. सादानेसु अनादानाति सगहणेसु सत्तेसु च भवयोनिआदीनं एककोट्ठासस्सापि अगहितत्ता अगहणा. दसमं.

दुतियो वग्गो.