३. सूचिलोमसुत्तवण्णना

२३७. ततिये गयायन्ति गयागामे, गयाय अविदूरे निविट्ठगामं उपनिस्सायाति अत्थो. टङ्कितमञ्चेति दीघमञ्चे पादमज्झे विज्झित्वा अटनियो पवेसेत्वा कतमञ्चे. तस्स ‘‘इदं उपरि, इदं हेट्ठा’’ति नत्थि, परिवत्तेत्वा अत्थतोपि तादिसोव होति, तं देवट्ठाने ठपेन्ति. चतुन्नं पासाणानं उपरि पासाणं अत्थरित्वा कतगेहम्पि ‘‘टङ्कितमञ्चो’’ति वुच्चति. सूचिलोमस्साति कथिनसूचिसदिसलोमस्स. सो किर कस्सपस्स भगवतो सासने पब्बजित्वा दूरट्ठानतो आगतो सेदमलग्गहितेन गत्तेन सुपञ्ञत्तं सङ्घिकमञ्चं अनादरेन अपच्चत्थरित्वा निपज्जि, तस्स परिसुद्धसीलस्स तं कम्मं सुद्धवत्थे काळकं विय अहोसि. सो तस्मिं अत्तभावे विसेसं निब्बत्तेतुं असक्कोन्तो कालंकत्वा गयागामद्वारे सङ्कारट्ठाने यक्खो हुत्वा निब्बत्ति. निब्बत्तमत्तस्सेव चस्स सकलसरीरं कथिनसूचीहि गविच्छिविज्झितं विय जातं.

अथेकदिवसं भगवा पच्चूससमये लोकं ओलोकेन्तो तं यक्खं पठमावज्जनस्सेव आपाथं आगतं दिस्वा – ‘‘अयं एकं बुद्धन्तरं महादुक्खं अनुभवि. किं नु ख्वास्स मं आगम्म सोत्थिकारणं भवेय्या’’ति? आवज्जेन्तो पठममग्गस्स उपनिस्सयं अद्दस. अथस्स सङ्गहं कातुकामो सुरत्तदुपट्टं निवासेत्वा सुगतमहाचीवरं पारुपित्वा देवविमानकप्पं गन्धकुटिं पहाय हत्थिगवास्समनुस्सकुक्कुरादिकुणपदुग्गन्धं सङ्कारट्ठानं गन्त्वा तत्थ महागन्धकुटियं विय निसीदि. तं सन्धाय वुत्तं ‘‘सूचिलोमस्स यक्खस्स भवने’’ति.

खरोति सुंसुमारपिट्ठि विय छदनिट्ठकाहि विसमच्छदनपिट्ठि विय च खरसरीरो. सो किर कस्सपसम्मासम्बुद्धकाले सीलसम्पन्नो उपासको एकदिवसे विहारे चित्तत्थरणादीहि अत्थताय भूमिया सङ्घिके अत्थरणे अत्तनो उत्तरासङ्गं अपच्चत्थरित्वा निपज्जि. सङ्घिकं तेलं अभाजेत्वा अत्तनो उत्तरासङ्गं अपच्चत्थरित्वा निपज्जि. सङ्घिकं तेलं अभाजेत्वा अत्तनो हत्थेहि सरीरं मक्खेसीतिपि वदन्ति. सो तेन कम्मेन सग्गे निब्बत्तितुं असक्कोन्तो तस्सेव गामस्स द्वारे सङ्कारट्ठाने यक्खो हुत्वा निब्बत्ति. निब्बत्तमत्तस्स चस्स सकलसरीरं वुत्तप्पकारं अहोसि. ते उभोपि सहाया जाता. इति खरस्स खरभावो वेदितब्बो.

अविदूरे अतिक्कमन्तीति गोचरं परियेसन्ता समागमट्ठानं वा गच्छन्ता आसन्ने ठाने गच्छन्ति. तेसु सूचिलोमो सत्थारं न पस्सति, खरलोमो पठमतरं दिस्वा सूचिलोमं यक्खं एतदवोच – ‘‘एसो समणो’’ति, सम्म, एस तव भवनं पविसित्वा निसिन्नो एको समणोति. नेसो समणो, समणको एसोति सो किर यो मं पस्सित्वा भीतो पलायति, तं समणकोति वदति. यो न भायति, तं समणोति. तस्मा ‘‘अयं मं दिस्वा भीतो पलायिस्सती’’ति मञ्ञमानो एवमाह.

कायं उपनामेसीति भेरवरूपं निम्मिनित्वा महामुखं विवरित्वा सकलसरीरे लोमानि उट्ठापेत्वा कायं उपनामेसि. अपनामेसीति रतनसतिकं सुवण्णग्घनिकं विय थोकं अपनामेसि. पापकोति लामको अमनुञ्ञो. सो गूथं विय अग्गि विय कण्हसप्पो विय च परिवज्जेतब्बो, न इमिना सुवण्णवण्णेन सरीरेन सम्पटिच्छितब्बो. एवं वुत्ते पन सूचिलोमो ‘‘पापको किर मे सम्फस्सो’’ति कुद्धो पञ्हं तं, समणातिआदिमाह. चित्तं वा ते खिपिस्सामीति येसञ्हि अमनुस्सा चित्तं खिपितुकामा होन्ति, तेसं सेतमुखं नीलोदरं सुरत्तहत्थपादं महासीसं पज्जलितनेत्तं भेरवं वा अत्तभावं निम्मिनित्वा दस्सेन्ति, भेरवं वा सद्दं सावेन्ति, कथेन्तानंयेव वा मुखे हत्थं पक्खिपित्वा हदयं मद्दन्ति, तेन ते सत्ता उम्मत्तका होन्ति खित्तचित्ता. तं सन्धायेवमाह. पारगङ्गायाति द्वीसु पादेसु गहेत्वा तं आविञ्छेत्वा यथा न पुनागच्छसि, एवं पारं वा गङ्गाय खिपिस्सामीति वदति. सदेवकेतिआदि वुत्तत्थमेव. पुच्छ यदाकङ्खसीति यंकिञ्चि आकङ्खसि, तं सब्बं पुच्छ, असेसं ते ब्याकरिस्सामीति सब्बञ्ञुपवारणं पवारेति.

कुतोनिदानाति किंनिदाना, किंपच्चयाति अत्थो? कुमारका धङ्कमिवोस्सजन्तीति यथा कुमारका काकं गहेत्वा ओस्सजन्ति खिपन्ति, एवं पापवितक्का कुतो समुट्ठाय चित्तं ओस्सजन्तीति पुच्छति?

इतोनिदानाति अयं अत्तभावो निदानं एतेसन्ति इतो निदाना. इतोजाति इतो अत्तभावतो जाता. इतो समुट्ठाय मनोवितक्काति यथा दीघसुत्तकेन पादे बद्धं काकं कुमारका तस्स सुत्तपरियन्तं अङ्गुलियं वेठेत्वा ओस्सजन्ति, सो दूरं गन्त्वापि पुन तेसं पादमूलेयेव पतति, एवमेव इतो अत्तभावतो समुट्ठाय पापवितक्का चित्तं ओस्सजन्ति.

स्नेहजाति तण्हासिनेहतो जाता. अत्तसम्भूताति अत्तनि सम्भूता. निग्रोधस्सेव खन्धजाति निग्रोधखन्धे जाता पारोहा विय. पुथूति बहू अनेकप्पकारा पापवितक्का तंसम्पयुत्तकिलेसा च. विसत्ताति लग्गा लग्गिता. कामेसूति वत्थुकामेसु. मालुवाव वितता वनेति यथा वने मालुवा लता यं रुक्खं निस्साय जायति, तं मूलतो याव अग्गा, अग्गतो याव मूला पुनप्पुनं संसिब्बित्वा अज्झोत्थरित्वा ओततवितता तिट्ठति. एवं वत्थुकामेसु पुथू किलेसकामा विसत्ता, पुथू वा सत्ता तेहि किलेसकामेहि वत्थुकामेसु विसत्ता. ये नं पजानन्तीति ये ‘‘अत्तसम्भूता’’ति एत्थ वुत्तं अत्तभावं जानन्ति.

यतोनिदानन्ति यं निदानमस्स अत्तभावस्स तञ्च जानन्ति. ते नं विनोदेन्तीति ते एवं अत्तभावसङ्खातस्स दुक्खसच्चस्स निदानभूतं समुदयसच्चं मग्गसच्चेन विनोदेन्ति. ते दुत्तरन्ति ते समुदयसच्चं नीहरन्ता इदं दुत्तरं किलेसोघं तरन्ति. अतिण्णपुब्बन्ति अनमतग्गे संसारे सुपिनन्तेपि न तिण्णपुब्बं. अपुनब्भवायाति अपुनब्भवसङ्खातस्स निरोधसच्चस्सत्थाय. इति इमाय गाथाय चत्तारि सच्चानि पकासेन्तो अरहत्तनिकूटेन देसनं निट्ठपेसि. देसनावसाने सूचिलोमो तस्मिंयेव पदेसे ठितो देसनानुसारेन ञाणं पेसेत्वा सोतापत्तिफले पतिट्ठितो. सोतापन्ना च नाम न किलिट्ठत्तभावे तिट्ठन्तीति सह फलपटिलाभेनस्स सरीरे सेतकण्डुपीळकसूचियो सब्बा पतिता. सो दिब्बवत्थनिवत्थो दिब्बवरदुकूलुत्तरासङ्गो दिब्बवेठनवेठितो दिब्बाभरणगन्धमालधरो सुवण्णवण्णो हुत्वा भुम्मदेवतापरिहारं पटिलभीति. ततियं.