७. इस्सरियसुत्तवण्णना
७७. सत्तमे सत्थमलन्ति मलग्गहितसत्थं. किं सु हरन्तं वारेन्तीति कं हरन्तं निसेधेन्ति. वसोति आणापवत्तनं. इत्थीति अविस्सज्जनीयभण्डत्ता ‘‘इत्थी भण्डानमुत्तमं, वरभण्ड’’न्ति आह. अथ वा सब्बेपि बोधिसत्ता च चक्कवत्तिनो च मातुकुच्छियंयेव निब्बत्तन्तीति ‘‘इत्थी भण्डानमुत्तम’’न्ति आह. कोधो सत्थमलन्ति कोधो मलग्गहितसत्थसदिसो, पञ्ञासत्थस्स वा मलन्ति सत्थमलं. अब्बुदन्ति विनासकारणं, चोरा लोकस्मिं विनासकाति अत्थो. हरन्तोति सलाकभत्तादीनि गहेत्वा गच्छन्तो. सलाकभत्तादीनि हि पट्ठपितकालेयेव मनुस्सेहि परिच्चत्तानि. तेसं तानि हरन्तो समणो पियो होति, अनाहरन्ते पुञ्ञहानिं निस्साय विप्पटिसारिनो होन्ति. सत्तमं.