९. मच्छरिसुत्तवण्णना
४९. नवमे मच्छरिनोति मच्छेरेन समन्नागता. एकच्चो हि अत्तनो वसनट्ठाने भिक्खुं हत्थं पसारेत्वापि न वन्दति, अञ्ञत्थ गतो विहारं पविसित्वा सक्कच्चं वन्दित्वा मधुरपटिसन्थारं करोति – ‘‘भन्ते, अम्हाकं वसनट्ठानं नागच्छथ, सम्पन्नो पदेसो, पटिबला मयं अय्यानं यागुभत्तादीहि उपट्ठानं कातु’’न्ति. भिक्खू ‘‘सद्धो अयं उपासको’’ति यागुभत्तादीहि सङ्गण्हन्ति. अथेको थेरो तस्स गामं गन्त्वा पिण्डाय चरति. सो तं दिस्वा अञ्ञेन वा गच्छति, घरं वा पविसति. सचेपि सम्मुखीभावं आगच्छति, हत्थेन वन्दित्वा – ‘‘अय्यस्स भिक्खं देथ, अहं एकेन कम्मेन गच्छामी’’ति पक्कमति. थेरो सकलगामं चरित्वा तुच्छपत्तोव निक्खमति. इदं ताव मुदुमच्छरियं नाम, येन समन्नागतो अदायकोपि दायको विय पञ्ञायति. इध पन थद्धमच्छरियं अधिप्पेतं, येन समन्नागतो भिक्खूसु पिण्डाय पविट्ठेसु, ‘‘थेरा ठिता’’ति वुत्ते, ‘‘किं मय्हं पादा रुज्जन्ती’’तिआदीनि वत्वा सिलाथम्भो विय खाणुको विय च थद्धो हुत्वा तिट्ठति, सामीचिम्पि न करोति. कदरियाति इदं मच्छरिनोति पदस्सेव वेवचनं. मुदुकम्पि हि मच्छरियं ‘‘मच्छरिय’’न्तेव वुच्चति, थद्धं पन कदरियं नाम. परिभासकाति भिक्खू घरद्वारे ठिते दिस्वा, ‘‘किं तुम्हे कसित्वा आगता, वपित्वा, लायित्वा? मयं अत्तनोपि न लभाम, कुतो तुम्हाकं, सीघं निक्खमथा’’तिआदीहि संतज्जका. अन्तरायकराति दायकस्स सग्गन्तरायो, पटिग्गाहकानं लाभन्तरायो, अत्तनो उपघातोति इमेसं अन्तरायानं कारका.
सम्परायोति परलोको. रतीति पञ्चकामगुणरति. खिड्डाति कायिकखिड्डादिका तिविधा खिड्डा. दिट्ठे धम्मेस विपाकोति तस्मिं निब्बत्तभवने दिट्ठे धम्मे एस विपाको. सम्पराये च दुग्गतीति ‘‘यमलोकं उपपज्जरे’’ति वुत्ते सम्पराये च दुग्गति.
वदञ्ञूति भिक्खू घरद्वारे ठिता किञ्चापि तुण्हीव होन्ति, अत्थतो पन – ‘‘भिक्खं देथा’’ति वदन्ति नाम. तत्र ये ‘‘मयं पचाम, इमे पन न पचन्ति, पचमाने पत्वा अलभन्ता कुहिं लभिस्सन्ती’’ति? देय्यधम्मं संविभजन्ति, ते वदञ्ञू नाम. पकासन्तीति विमानप्पभाय जोतन्ति. परसम्भतेसूति परेहि सम्पिण्डितेसु. सम्पराये च सुग्गतीति, ‘‘एते सग्गा’’ति एवं वुत्तसम्पराये सुगति. उभिन्नम्पि वा एतेसं ततो चवित्वा पुन सम्परायेपि दुग्गतिसुगतियेव होतीति. नवमं.