५. अनोमसुत्तवण्णना

४५. पञ्चमे अनोमनामन्ति सब्बगुणसमन्नागतत्ता अवेकल्लनामं, परिपूरनामन्ति अत्थो. निपुणत्थदस्सिन्ति भगवा सण्हसुखुमे खन्धन्तरादयो अत्थे पस्सतीति निपुणत्थदस्सी. पञ्ञाददन्ति अन्वयपञ्ञाधिगमाय पटिपदं कथनवसेन पञ्ञाय दायकं. कामालये असत्तन्ति पञ्चकामगुणालये अलग्गं. कममानन्ति भगवा महाबोधिमण्डेयेव अरियमग्गेन गतो, न इदानि गच्छति, अतीतं पन उपादाय इदं वुत्तं. महेसिन्ति महन्तानं सीलक्खन्धादीनं एसितारं परियेसितारन्ति. पञ्चमं.