७. समयसुत्तवण्णना
३७. सत्तमे सक्केसूति ‘‘सक्या वत, भो कुमारा’’ति (दी. नि. १.२६७) उदानं पटिच्च सक्काति लद्धनामानं राजकुमारानं निवासो एकोपि जनपदो रूळ्हीसद्देन सक्काति वुच्चति. तस्मिं सक्केसु जनपदे. महावनेति सयंजाते अरोपिमे हिमवन्तेन सद्धिं एकाबद्धे महति वने. सब्बेहेव अरहन्तेहीति इमं सुत्तं कथितदिवसेयेव पत्तअरहन्तेहि.
तत्रायं अनुपुब्बिकथा – साकियकोलिया हि किर कपिलवत्थुनगरस्स च कोलियनगरस्स च अन्तरे रोहिणिं नाम नदिं एकेनेव आवरणेन बन्धापेत्वा सस्सानि कारेन्ति. अथ जेट्ठमूलमासे सस्सेसु मिलायन्तेसु उभयनगरवासीनम्पि कम्मकारा सन्निपतिंसु. तत्थ कोलियनगरवासिनो आहंसु – ‘‘इदं उदकं उभयतो आहरियमानं न तुम्हाकं, न अम्हाकं पहोस्सति, अम्हाकं पन सस्सं एकेन उदकेनेव निप्फज्जिस्सति, इदं उदकं अम्हाकं देथा’’ति. कपिलवत्थुवासिनो आहंसु – ‘‘तुम्हेसु कोट्ठे पूरेत्वा ठितेसु मयं रत्तसुवण्णनीलमणिकाळकहापणे च गहेत्वा पच्छिपसिब्बकादिहत्था न सक्खिस्साम तुम्हाकं घरद्वारे विचरितुं, अम्हाकम्पि सस्सं एकेनेव उदकेन निप्फज्जिस्सति, इदं उदकं अम्हाकं देथा’’ति. ‘‘न मयं दस्सामा’’ति. ‘‘मयम्पि न दस्सामा’’ति. एवं कथं वड्ढेत्वा एको उट्ठाय एकस्स पहारं अदासि, सोपि अञ्ञस्साति एवं अञ्ञमञ्ञं पहरित्वा राजकुलानं जातिं घट्टेत्वा कलहं वड्ढयिंसु.
कोलियकम्मकारा वदन्ति – ‘‘तुम्हे कपिलवत्थुवासिके गहेत्वा गज्जथ, ये सोणसिङ्गालादयो विय अत्तनो भगिनीहि सद्धिं संवसिंसु, एतेसं हत्थिनो च अस्सा च फलकावुधानि च अम्हाकं किं करिस्सन्ती’’ति? साकियकम्मकारा वदन्ति – ‘‘तुम्हे दानि कुट्ठिनो दारके गहेत्वा गज्जथ, ये अनाथा निग्गतिका तिरच्छाना विय कोलरुक्खे वसिंसु, एतेसं हत्थिनो च अस्सा च फलकावुधानि च अम्हाकं किं करिस्सन्ती’’ति? ते गन्त्वा तस्मिं कम्मे नियुत्तअमच्चानं कथेसुं, अमच्चा राजकुलानं कथेसुं. ततो साकिया – ‘‘भगिनीहि सद्धिं संवसितकानं थामञ्च बलञ्च दस्सेस्सामा’’ति युद्धसज्जा निक्खमिंसु. कोलियापि – ‘‘कोलरुक्खवासीनं थामञ्च बलञ्च दस्सेस्सामा’’ति युद्धसज्जा निक्खमिंसु.
भगवापि रत्तिया पच्चूससमयेव महाकरुणासमापत्तितो उट्ठाय लोकं वोलोकेन्तो इमे एवं युद्धसज्जे निक्खमन्ते अद्दस. दिस्वा – ‘‘मयि गते अयं कलहो वूपसम्मिस्सति नु खो उदाहु नो’’ति उपधारेन्तो – ‘‘अहमेत्थ गन्त्वा कलहवूपसमनत्थं तीणि जातकानि कथेस्सामि, ततो कलहो वूपसम्मिस्सति. अथ सामग्गिदीपनत्थाय द्वे जातकानि कथेत्वा अत्तदण्डसुत्तं देसेस्सामि. देसनं सुत्वा उभयनगरवासिनोपि अड्ढतियानि अड्ढतियानि कुमारसतानि दस्सन्ति, अहं ते पब्बाजेस्सामि, तदा महासमागमो भविस्सती’’ति सन्निट्ठानं अकासि. तस्मा इमेसु युद्धसज्जेसु निक्खमन्तेसु कस्सचि अनारोचेत्वा सयमेव पत्तचीवरमादाय गन्त्वा द्विन्नं सेनानं अन्तरे आकासे पल्लङ्कं आभुजित्वा छब्बण्णरस्मियो विस्सज्जेत्वा निसीदि.
कपिलवत्थुवासिनो भगवन्तं दिस्वाव, ‘‘अम्हाकं ञातिसेट्ठो सत्था आगतो. दिट्ठो नु खो तेन अम्हाकं कलहकरणभावो’’ति चिन्तेत्वा, ‘‘न खो पन सक्का भगवति आगते अम्हेहि परस्स सरीरे सत्थं पातेतुं. कोलियनगरवासिनो अम्हे हनन्तु वा बज्झन्तु वा’’ति. आवुधानि छड्डेत्वा, भगवन्तं वन्दित्वा, निसीदिंसु. कोलियनगरवासिनोपि तथेव चिन्तेत्वा आवुधानि छड्डेत्वा, भगवन्तं वन्दित्वा, निसीदिंसु.
भगवा जानन्तोव, ‘‘कस्मा आगतत्थ, महाराजा’’ति पुच्छि? ‘‘न, भगवा, तित्थकीळाय न पब्बतकीळाय, न नदीकीळाय, न गिरिदस्सनत्थं, इमस्मिं पन ठाने सङ्गामं पच्चुपट्ठपेत्वा आगतम्हा’’ति. ‘‘किं निस्साय वो कलहो, महाराजाति? उदकं, भन्तेति. उदकं किं अग्घति, महाराजाति? अप्पं, भन्तेति. पथवी नाम किं अग्घति, महाराजाति? अनग्घा, भन्तेति. खत्तिया किं अग्घन्तीति? खत्तिया नाम अनग्घा, भन्तेति. अप्पमूलं उदकं निस्साय किमत्थं अनग्घे खत्तिये नासेथ, महाराज, कलहे अस्सादो नाम नत्थि, कलहवसेन, महाराज, अट्ठाने वेरं कत्वा एकाय रुक्खदेवताय काळसीहेन सद्धिं बद्धाघातो सकलम्पि इमं कप्पं अनुप्पत्तोयेवाति वत्वा फन्दनजातकं (जा. १.१३.१४ आदयो) कथेसि’’. ततो ‘‘परपत्तियेन नाम, महाराज, न भवितब्बं. परपत्तिया हुत्वा हि एकस्स ससकस्स कथाय तियोजनसहस्सवित्थते हिमवन्ते चतुप्पदगणा महासमुद्दं पक्खन्दिनो अहेसुं. तस्मा परपत्तियेन न भवितब्ब’’न्ति वत्वा, पथवीउन्द्रियजातकं कथेसि. ततो ‘‘कदाचि, महाराज, दुब्बलोपि महाबलस्स रन्धं विवरं पस्सति, कदाचि महाबलो दुब्बलस्स. लटुकिकापि हि सकुणिका हत्थिनागं घातेसी’’ति लटुकिकजातकं (जा. १.५.३९ आदयो) कथेसि. एवं कलहवूपसमनत्थाय तीणि जातकानि कथेत्वा सामग्गिपरिदीपनत्थाय द्वे जातकानि कथेसि. कथं? ‘‘समग्गानञ्हि, महाराज, कोचि ओतारं नाम पस्सितुं न सक्कोतीति वत्वा, रुक्खधम्मजातकं (जा. १.१.७४) कथेसि. ततो ‘‘समग्गानं, महाराज, कोचि विवरं दस्सितुं न सक्खि. यदा पन अञ्ञमञ्ञं विवादमकंसु, अथ ते नेसादपुत्तो जीविता वोरोपेत्वा आदाय गतोति विवादे अस्सादो नाम नत्थी’’ति वत्वा, वट्टकजातकं (जा. १.१.११८) कथेसि. एवं इमानि पञ्च जातकानि कथेत्वा अवसाने अत्तदण्डसुत्तं (सु. नि. ९४१ आदयो) कथेसि.
राजानो पसन्ना – ‘‘सचे सत्था नागमिस्स, मयं सहत्था अञ्ञमञ्ञं वधित्वा लोहितनदिं पवत्तयिस्साम. अम्हाकं पुत्तभातरो च गेहद्वारे न पस्सेय्याम, सासनपटिसासनम्पि नो आहरणको नाभविस्स. सत्थारं निस्साय नो जीवितं लद्धं. सचे पन सत्था आगारं अज्झावसिस्स दीपसहस्सद्वयपरिवारं चतुमहादीपरज्जमस्स हत्थगतं अभविस्स, अतिरेकसहस्सं खो पनस्स पुत्ता अभविस्संसु, ततो खत्तियपरिवारो अविचरिस्स. तं खो पनेस सम्पत्तिं पहाय निक्खमित्वा सम्बोधिं पत्तो. इदानिपि खत्तियपरिवारोयेव विचरतू’’ति उभयनगरवासिनो अड्ढतियानि अड्ढतियानि कुमारसतानि अदंसु. भगवापि ते पब्बाजेत्वा महावनं अगमासि. तेसं गरुगारवेन न अत्तनो रुचिया पब्बजितानं अनभिरति उप्पज्जि. पुराणदुतियिकायोपि तेसं – ‘‘अय्यपुत्ता उक्कण्ठन्तु, घरावासो न सण्ठाती’’तिआदीनि वत्वा सासनं पेसेन्ति. ते च अतिरेकतरं उक्कण्ठिंसु.
भगवा आवज्जेन्तो तेसं अनभिरतिभावं ञत्वा – ‘‘इमे भिक्खू मादिसेन बुद्धेन सद्धिं एकतो वसन्ता उक्कण्ठन्ति, हन्द नेसं कुणालदहस्स वण्णं कथेत्वा तत्थ नेत्वा अनभिरतिं विनोदेमी’’ति कुणालदहस्स वण्णं कथेसि. ते तं दट्ठुकामा अहेसुं. दट्ठुकामत्थ, भिक्खवे, कुणालदहन्ति? आम भगवाति. यदि एवं एथ गच्छामाति. इद्धिमन्तानं भगवा गमनट्ठानं मयं कथं गमिस्सामाति. तुम्हे गन्तुकामा होथ, अहं ममानुभावेन गहेत्वा गमिस्सामीति. साधु, भन्तेति. भगवा पञ्च भिक्खुसतानि गहेत्वा आकासे उप्पतित्वा कुणालदहे पतिट्ठाय ते भिक्खू आह – ‘‘भिक्खवे, इमस्मिं कुणालदहे येसं मच्छानं नामं न जानाथ ममं पुच्छथा’’ति.
ते पुच्छिंसु. भगवा पुच्छितं पुच्छितं कथेसि. न केवलञ्च, मच्छानंयेव, तस्मिं वनसण्डे रुक्खानम्पि पब्बतपादे द्विपदचतुप्पदसकुणानम्पि नामानि पुच्छापेत्वा कथेसि. अथ द्वीहि सकुणेहि मुखतुण्डकेन डंसित्वा गहितदण्डके निसिन्नो कुणालसकुणराजा पुरतो पच्छतो उभोसु च पस्सेसु सकुणसङ्घपरिवुतो आगच्छति. भिक्खू तं दिस्वा – ‘‘एस, भन्ते, इमेसं सकुणानं राजा भविस्सति, परिवारा एते एतस्सा’’ति मञ्ञामाति. एवमेतं, भिक्खवे, अयम्पि ममेव वंसो मम पवेणीति. इदानि ताव मयं, भन्ते, एते सकुणे पस्साम. यं पन भगवा ‘‘अयम्पि ममेव वंसो मम पवेणी’’ति आह, तं सोतुकामम्हाति. सोतुकामत्थ, भिक्खवेति? आम भगवाति. तेन हि सुणाथाति तीहि गाथासतेहि मण्डेत्वा कुणालजातकं (जा. २.२१.कुणालजातक) कथेन्तो अनभिरतिं विनोदेसि. देसनापरियोसाने सब्बेपि सोतापत्तिफले पतिट्ठहिंसु, मग्गेनेव च नेसं इद्धिपि आगता. भगवा ‘‘होतु ताव एत्तकं तेसं भिक्खून’’न्ति आकासे उप्पतित्वा महावनमेव अगमासि. तेपि भिक्खू गमनकाले दसबलस्स आनुभावेन गन्त्वा आगमनकाले अत्तनो आनुभावेन भगवन्तं परिवारेत्वा महावने ओतरिंसु.
भगवा पञ्ञत्तासने निसीदित्वा ते भिक्खू आमन्तेत्वा – ‘‘एथ, भिक्खवे, निसीदथ. उपरिमग्गत्तयवज्झानं वो किलेसानं कम्मट्ठानं कथेस्सामी’’ति कम्मट्ठानं कथेसि. भिक्खू चिन्तयिंसु – ‘‘भगवा अम्हाकं अनभिरतभावं ञत्वा कुणालदहं नेत्वा अनभिरतिं विनोदेसि, तत्थ सोतापत्तिफलं पत्तानं नो इदानि इध तिण्णं मग्गानं कम्मट्ठानं अदासि, न खो पन अम्हेहि ‘सोतापन्ना मय’न्ति वीतिनामेतुं वट्टति, पुरिसपुरिसेहि नो भवितुं वट्टती’’ति ते दसबलस्स पादे वन्दित्वा उट्ठाय निसीदनं पप्फोटेत्वा विसुं विसुं पब्भाररुक्खमूलेसु निसीदिंसु.
भगवा चिन्तेसि – ‘‘इमे भिक्खू पकतियापि अविस्सट्ठकम्मट्ठाना, लद्धुपायस्स पन भिक्खुनो किलमनकारणं नाम नत्थि. गच्छन्ता गच्छन्ता च विपस्सनं वड्ढेत्वा अरहत्तं पत्वा ‘अत्तना पटिविद्धगुणं आरोचेस्सामा’ति मम सन्तिकं आगमिस्सन्ति. एतेसु आगतेसु दससहस्सचक्कवाळदेवता एकचक्कवाळे सन्निपतिस्सन्ति, महासमयो भविस्सति, विवित्ते ओकासे मया निसीदितुं वट्टती’’ति ततो विवित्ते ओकासे बुद्धासनं पञ्ञापेत्वा निसीदि.
सब्बपठमं कम्मट्ठानं गहेत्वा गतत्थेरो सह पटिसम्भिदाहि अरहत्तं पापुणि. ततो अपरो ततो अपरोति पञ्चसतापि पदुमिनियं पदुमानि विय विकसिंसु. सब्बपठमं अरहत्तं पत्तभिक्खु ‘‘भगवतो आरोचेस्सामी’’ति पल्लङ्कं विनिब्भुजित्वा निसीदनं पप्फोटेत्वा उट्ठाय दसबलाभिमुखो अहोसि. एवं अपरोपि अपरोपीति पञ्चसता भत्तसालं पविसन्ता विय पटिपाटियाव आगमिंसु. पठमं आगतो वन्दित्वा निसीदनं पञ्ञापेत्वा, एकमन्तं निसीदित्वा, पटिविद्धगुणं आरोचेतुकामो ‘‘अत्थि नु खो अञ्ञो कोचि? नत्थी’’ति निवत्तित्वा आगतमग्गं ओलोकेन्तो अपरम्पि अद्दस अपरम्पि अद्दसयेवाति सब्बेपि ते आगन्त्वा एकमन्तं निसीदित्वा, अयं इमस्स हरायमानो न कथेसि, अयं इमस्स हरायमानो न कथेसि. खीणासवानं किर द्वे आकारा होन्ति – ‘‘अहो वत मया पटिविद्धगुणं सदेवको लोको खिप्पमेव पटिविज्झेय्या’’ति चित्तं उप्पज्जति. पटिविद्धभावं पन निधिलद्धपुरिसो विय न अञ्ञस्स आरोचेतुकामा होन्ति.
एवं ओसटमत्ते पन तस्मिं अरियमण्डले पाचीनयुगन्धरपरिक्खेपतो अब्भा महिका धूमो रजो राहूति, इमेहि उपक्किलेसेहि विप्पमुत्तं बुद्धुप्पादपटिमण्डितस्स लोकस्स रामणेय्यकदस्सनत्थं पाचीनदिसाय उक्खित्तरजतमयमहाआदासमण्डलं विय, नेमिवट्टियं गहेत्वा, परिवत्तियमानरजतचक्कसस्सिरिकं पुण्णचन्दमण्डलं उल्लङ्घित्वा, अनिलपथं पटिपज्जित्थ. इति एवरूपे खणे लये मुहुत्ते भगवा सक्केसु विहरति कपिलवत्थुस्मिं महावने महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि सब्बेहेव अरहन्तेहि.
तत्थ भगवापि महासम्मतस्स वंसे उप्पन्नो, तेपि पञ्चसता भिक्खू महासम्मतस्स कुले उप्पन्ना. भगवापि खत्तियगब्भे जातो, तेपि खत्तियगब्भे जाता. भगवापि राजपब्बजितो, तेपि राजपब्बजिता. भगवापि सेतच्छत्तं पहाय हत्थगतं चक्कवत्तिरज्जं निस्सज्जित्वा पब्बजितो, तेपि सेतच्छत्तं पहाय हत्थगतानि रज्जानि विस्सज्जित्वा पब्बजिता. इति भगवा परिसुद्धे ओकासे, परिसुद्धे रत्तिभागे, सयं परिसुद्धो परिसुद्धपरिवारो, वीतरागो वीतरागपरिवारो, वीतदोसो वीतदोसपरिवारो, वीतमोहो वीतमोहपरिवारो, नित्तण्हो नित्तण्हपरिवारो, निक्किलेसो निक्किलेसपरिवारो, सन्तो सन्तपरिवारो, दन्तो दन्तपरिवारो, मुत्तो मुत्तपरिवारो, अतिविय विरोचतीति. वण्णभूमि नामेसा, यत्तकं सक्कोति, तत्तकं वत्तब्बं. इति इमे भिक्खू सन्धाय वुत्तं, ‘‘पञ्चमत्तेहि भिक्खुसतेहि सब्बेहेव अरहन्तेही’’ति.
येभुय्येनाति बहुतरा सन्निपतिता, मन्दा न सन्निपतिता असञ्ञी अरूपावचरदेवता समापन्नदेवतायो च. तत्रायं सन्निपातक्कमो – महावनस्स किर सामन्ता देवता चलिंसु, ‘‘आयाम भो! बुद्धदस्सनं नाम बहूपकारं, धम्मस्सवनं बहूपकारं, भिक्खुसङ्घदस्सनं बहूपकारं. आयाम आयामा’’ति! महासद्दं कुरुमाना आगन्त्वा भगवन्तञ्च तंमुहुत्तं अरहत्तप्पत्तखीणासवे च वन्दित्वा एकमन्तं अट्ठंसु. एतेनेव उपायेन तासं तासं सद्दं सुत्वा सद्दन्तरअड्ढगावुतगावुतअड्ढयोजनयोजनादिवसेन तियोजनसहस्सवित्थते हिमवन्ते, तिक्खत्तुं तेसट्ठिया नगरसहस्सेसु, नवनवुतिया दोणमुखसतसहस्सेसु, छनवुतिया पट्टनकोटिसतसहस्सेसु, छपण्णासाय रतनाकरेसूति सकलजम्बुदीपे, पुब्बविदेहे, अपरगोयाने, उत्तरकुरुम्हि, द्वीसु परित्तदीपसहस्सेसूति सकलचक्कवाळे, ततो दुतियततियचक्कवाळेति एवं दससहस्सचक्कवाळेसु देवता सन्निपतिताति वेदितब्बा. दससहस्सचक्कवाळञ्हि इध दसलोकधातुयोति अधिप्पेतं. तेन वुत्तं – ‘‘दसहि च लोकधातूहि देवता येभुय्येन सन्निपतिता होन्ती’’ति.
एवं सन्निपतिताहि देवताहि सकलचक्कवाळगब्भं याव ब्रह्मलोका सूचिघरे निरन्तरं पक्खित्तसूचीहि विय परिपुण्णं होति. तत्थ ब्रह्मलोकस्स एवं उच्चत्तनं वेदितब्बं – लोहपासादे किर सत्तकूटागारसमो पासाणो ब्रह्मलोके ठत्वा अधो खित्तो चतूहि मासेहि पथविं पापुणाति. एवं महन्ते ओकासे यथा हेट्ठा ठत्वा खित्तानि पुप्फानि वा धूमो वा उपरि गन्तुं, उपरि वा ठत्वा खित्तसासपा हेट्ठा ओतरितुं अन्तरं न लभन्ति, एवं निरन्तरा देवता अहेसुं. यथा खो पन चक्कवत्तिरञ्ञो निसिन्नट्ठानं असम्बाधं होति, आगतागता महेसक्खा खत्तिया ओकासं लभन्तियेव, परतो परतो पन अतिसम्बाधं होति. एवमेव भगवतो निसिन्नट्ठानं असम्बाधं, आगतागता महेसक्खा देवा च ब्रह्मानो च ओकासं लभन्तियेव. अपि सुदं भगवतो आसन्नासन्नट्ठाने वालग्गनित्तुदनमत्ते पदेसे दसपि वीसतिपि देवा सुखुमे अत्तभावे मापेत्वा अट्ठंसु. सब्बपरतो सट्ठि सट्ठि देवता अट्ठंसु.
सुद्धावासकायिकानन्ति सुद्धावासवासीनं. सुद्धावासा नाम सुद्धानं अनागामिखीणासवानं आवासा पञ्च ब्रह्मलोका. एतदहोसीति कस्मा अहोसि? ते किर ब्रह्मानो समापत्तिं समापज्जित्वा यथा परिच्छेदेन वुट्ठिता ब्रह्मभवनं ओलोकेन्ता पच्छाभत्ते भत्तगेहं विय सुञ्ञतं अद्दसंसु. ततो ‘‘कुहिं ब्रह्मानो गता’’ति आवज्जन्ता महासमागमं ञत्वा – ‘‘अयं समागमो महा, मयं ओहीना, ओहीनकानं पन ओकासो दुल्लभो होति, तस्मा गच्छन्ता अतुच्छहत्था हुत्वा एकेकं गाथं अभिसङ्खरित्वा गच्छाम. ताय महासमागमे च अत्तनो आगतभावं जानापेस्साम, दसबलस्स च वण्णं भासिस्सामा’’ति. इति तेसं समापत्तितो उट्ठाय आवज्जितत्ता एतदहोसि.
भगवतो पुरतो पातुरहेसुन्ति पाळियं भगवतो सन्तिके अभिमुखट्ठानेयेव ओतिण्णा विय कत्वा वुत्ता, न खो पनेत्थ एवं अत्थो वेदितब्बो. ते पन ब्रह्मलोके ठितायेव गाथा अभिसङ्खरित्वा एको पुरत्थिमचक्कवाळमुखवट्टियं ओतरि, एको दक्खिणचक्कवाळमुखवट्टियं, एको पच्छिमचक्कवाळमुखवट्टियं, एको उत्तरचक्कवाळमुखवट्टियं ओतरि. ततो पुरत्थिमचक्कवाळमुखवट्टियं ओतिण्णब्रह्मा नीलकसिणं समापज्जित्वा नीलरस्मियो विस्सज्जेत्वा दससहस्सचक्कवाळदेवतानं मणिवम्मं पटिमुञ्चन्तो विय अत्तनो आगतभावं जानापेत्वा बुद्धवीथि नाम केनचि उत्तरितुं न सक्का, तस्मा महतिया बुद्धवीथियाव आगन्त्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो अत्तना अभिसङ्खतं गाथं अभासि.
दक्खिणचक्कवाळमुखवट्टियं ओतिण्णब्रह्मा पीतकसिणं समापज्जित्वा सुवण्णपभं मुञ्चित्वा दससहस्सचक्कवाळदेवतानं सुवण्णपटं पारुपन्तो विय अत्तनो आगतभावं जानापेत्वा तथेव अकासि. पच्छिमचक्कवाळमुखवट्टियं ओतिण्णब्रह्मा लोहितकसिणं समापज्जित्वा लोहितकरस्मियो मुञ्चित्वा दससहस्सचक्कवाळदेवतानं रत्तवरकम्बलेन परिक्खिपन्तो विय अत्तनो आगतभावं जानापेत्वा तथेव अकासि. उत्तरचक्कवाळमुखवट्टियं ओतिण्णब्रह्मा ओदातकसिणं समापज्जित्वा ओदातरस्मियो विस्सज्जेत्वा दससहस्सचक्कवाळदेवतानं सुमनकुसुमपटं पारुपन्तो विय अत्तनो आगतभावं जानापेत्वा तथेव अकासि.
पाळियं पन भगवतो पुरतो पातुरहेसुं. अथ खो ता देवता भगवन्तं अभिवादेत्वा एकमन्तं अट्ठंसूति एवं एकक्खणे विय पुरतो पातुभावो च अभिवादेत्वा एकमन्तं ठितभावो च वुत्तो, सो इमिना अनुक्कमेन अहोसि, एकतो कत्वा पन दस्सितो. गाथाभासनं पन पाळियम्पि विसुं विसुंयेव वुत्तं.
तत्थ महासमयोति महासमूहो. पवनं वुच्चति वनसण्डो. उभयेनपि भगवा ‘‘इमस्मिं पन वनसण्डे अज्ज महासमूहो सन्निपातो’’ति आह. ततो येसं सो सन्निपातो, ते दस्सेतुं देवकाया समागताति आह. तत्थ देवकायाति देवघटा. आगतम्ह इमं धम्मसमयन्ति एवं समागते देवकाये दिस्वा मयम्पि इमं धम्मसमूहं आगता. किं कारणा? दक्खिताये अपराजितसङ्घन्ति केनचि अपराजितं अज्जेव तयो मारे मद्दित्वा विजितसङ्गामं इमं अपराजितसङ्घं दस्सनत्थाय आगतम्हाति अत्थो. सो पन, ब्रह्मा, इमं गाथं भासित्वा, भगवन्तं अभिवादेत्वा, पुरत्थिमचक्कवाळमुखवट्टियंयेव अट्ठासि.
अथ दुतियो वुत्तनयेनेव आगन्त्वा अभासि. तत्थ तत्र भिक्खवोति तस्मिं सन्निपातट्ठाने भिक्खू. समादहंसूति समाधिना योजेसुं. चित्तमत्तनो उजुकं अकंसूति अत्तनो चित्ते सब्बे वङ्ककुटिलजिम्हभावे हरित्वा उजुकं अकरिंसु. सारथीव नेत्तानि गहेत्वाति यथा समप्पवत्तेसु सिन्धवेसु ओधस्तपतोदो सारथी सब्बयोत्तानि गहेत्वा अचोदेन्तो अवारेन्तो तिट्ठति, एवं छळङ्गुपेक्खाय समन्नागता गुत्तद्वारा सब्बेपेते पञ्चसता भिक्खू इन्द्रियानि रक्खन्ति पण्डिता, एते दट्ठुं इधागतम्हा भगवाति, सोपि गन्त्वा यथाठानेयेव अट्ठासि.
अथ ततियो वुत्तनयेनेव आगन्त्वा अभासि. तत्थ छेत्वा खीलन्ति रागदोसमोहखीलं छिन्दित्वा. पलिघन्ति रागदोसमोहपलिघमेव. इन्दखीलन्ति रागदोसमोहइन्दखीलमेव. ऊहच्च मनेजाति एते तण्हाएजाय अनेजा भिक्खू इन्दखीलं ऊहच्च समूहनित्वा चतूसु दिसासु अप्पटिहतचारिकं चरन्ति. सुद्धाति निरुपक्किलेसा. विमलाति निम्मला. इदं तस्सेव वेवचनं. चक्खुमताति पञ्चहि चक्खूहि चक्खुमन्तेन. सुदन्ताति चक्खुतोपि दन्ता सोततोपि घानतोपि जिव्हातोपि कायतोपि मनतोपि दन्ता. सुसुनागाति तरुणनागा. तत्रायं वचनत्थो – छन्दादीहि न गच्छन्तीति नागा, तेन तेन मग्गेन पहीने किलेसे न आगच्छन्तीति नागा, नानप्पकारं आगुं न करोन्तीति नागा. अयमेत्थ सङ्खेपो, वित्थारो पन महानिद्देसे (महानि. ८०) वुत्तनयेनेव वेदितब्बो.
अपिच –
‘‘आगुं न करोति किञ्चि लोके,
सब्बसंयोग विसज्ज बन्धनानि;
सब्बत्थ न सज्जती विमुत्तो,
नागो तादि पवुच्चते तथत्ता’’ति. –
एवमेत्थ अत्थो वेदितब्बो. सुसुनागाति सुसू नागा, सुसुनागभावसम्पत्तिं पत्ताति अत्थो. ते एवरूपे अनुत्तरेन योग्गाचरियेन दमिते तरुणनागे दस्सनाय आगतम्ह भगवाति. सोपि गन्त्वा यथाठानेयेव अट्ठासि.
अथ चतुत्थो वुत्तनयेनेव आगन्त्वा अभासि. तत्थ गतासेति निब्बेमतिकसरणगमनेन गता. सोपि गन्त्वा यथाठानेयेव अट्ठासीति. सत्तमं.