१. सब्भिसुत्तवण्णना

३१. सतुल्लपकायिकवग्गस्स पठमे सतुल्लपकायिकाति सतं धम्मं समादानवसेन उल्लपेत्वा सग्गे निब्बत्ताति सतुल्लपकायिका. तत्रिदं वत्थु – सम्बहुला किर समुद्दवाणिजा नावाय समुद्दं पक्खन्दिंसु. तेसं खित्तसरवेगेन गच्छन्तिया नावाय सत्तमे दिवसे समुद्दमज्झे महन्तं उप्पातिकं पातुभूतं, महाऊमियो उट्ठहित्वा नावं उदकस्स पूरेन्ति. नावाय निमुज्जमानाय महाजनो अत्तनो अत्तनो देवतानं नामानि गहेत्वा आयाचनादीनि करोन्तो परिदेवि. तेसं मज्झे एको पुरिसो – ‘‘अत्थि नु खो मे एवरूपे भये पतिट्ठा’’ति आवज्जेन्तो अत्तनो परिसुद्धानि सरणानि चेव सीलानि च दिस्वा योगी विय पल्लङ्कं आभुजित्वा निसीदि. तमेनं इतरे सभयकारणं पुच्छिंसु. सो तेसं कथेसि – ‘‘अम्भो अहं नावं अभिरूहनदिवसे भिक्खुसङ्घस्स दानं दत्वा सरणानि चेव सीलानि च अग्गहेसिं, तेन मे भयं नत्थी’’ति. किं पन सामि एतानि अञ्ञेसम्पि वत्तन्तीति? आम वत्तन्तीति तेन हि अम्हाकम्पि देथाति. सो ते मनुस्से सतं सतं कत्वा सत्त कोट्ठासे अकासि, ततो पञ्चसीलानि अदासि. तेसु पठमं जङ्घसतं गोप्फकमत्ते उदके ठितं अग्गहेसि, दुतियं जाणुमत्ते, ततियं कटिमत्ते, चतुत्थं नाभिमत्ते, पञ्चमं थनमत्ते, छट्ठं गलप्पमाणे, सत्तमं मुखेन लोणोदके पविसन्ते अग्गहेसि. सो तेसं सीलानि दत्वा – ‘‘अञ्ञं तुम्हाकं पटिसरणं नत्थि, सीलमेव आवज्जेथा’’ति उग्घोसेसि. तानि सत्तपि जङ्घसतानि तत्थ कालं कत्वा आसन्नकाले गहितसीलं निस्साय तावतिंसभवने निब्बत्तिंसु, तेसं घटावसेनेव विमानानि निब्बत्तिंसु. सब्बेसं मज्झे आचरियस्स योजनसतिकं सुवण्णविमानं निब्बत्ति, अवसेनानि तस्स परिवारानि हुत्वा सब्बहेट्ठिमं द्वादसयोजनिकं अहोसि. ते निब्बत्तक्खणेयेव कम्मं आवज्जेन्ता आचरियं निस्साय सम्पत्तिलाभं ञत्वा, ‘‘गच्छाम ताव, दसबलस्स सन्तिके अम्हाकं आचरियस्स वण्णं कथेय्यामा’’ति मज्झिमयामसमनन्तरे भगवन्तं उपसङ्कमिंसु, ता देवता आचरियस्स वण्णभणनत्थं एकेकं गाथं अभासिंसु.

तत्थ सब्भिरेवाति पण्डितेहि, सप्पुरिसेहि एव. र-कारो पदसन्धिकरो. समासेथाति सह निसीदेय्य. देसनासीसमेव चेतं, सब्बइरियापथे सब्भिरेव सह कुब्बेय्याति अत्थो. कुब्बेथाति करेय्य. सन्थवन्ति मित्तसन्थवं. तण्हासन्थवो पन न केनचि सद्धिं कातब्बो, मित्तसन्थवो बुद्ध-पच्चेकबुद्ध-बुद्धसावकेहि सह कातब्बो. इदं सन्धायेतं वुत्तं. सतन्ति बुद्धादीनं सप्पुरिसानं. सद्धम्मन्ति पञ्चसीलदससीलचतुसतिपट्ठानादिभेदं सद्धम्मं, इध पन पञ्चसीलं अधिप्पेतं. सेय्यो होतीति वड्ढि होति. न पापियोति लामकं किञ्चि न होति. नाञ्ञतोति वालिकादीहि तेलादीनि विय अञ्ञतो अन्धबालतो पञ्ञा नाम न लब्भति, तिलादीहि पन तेलादीनि विय सतं धम्मं ञत्वा पण्डितमेव सेवन्तो भजन्तो लभतीति. सोकमज्झेति सोकवत्थूनं सोकानुगतानं वा सत्तानं मज्झगतो न सोचति बन्धुलमल्लसेनापतिस्स उपासिका विय, पञ्चन्नं चोरसतानं मज्झे धम्मसेनापतिस्स सद्धिविहारिको संकिच्चसामणेरो विय च.

ञातिमज्झे विरोचतीति ञातिगणमज्झे संकिच्चथेरस्स सद्धिविहारिको अधिमुत्तकसामणेरो विय सोभति. सो किर थेरस्स भागिनेय्यो होति, अथ नं थेरो आह – ‘‘सामणेर, महल्लकोसि जातो, गच्छ, वस्सानि पुच्छित्वा एहि, उपसम्पादेस्सामि त’’न्ति. सो ‘‘साधू’’ति थेरं वन्दित्वा पत्तचीवरमादाय चोरअटविया ओरभागे भगिनिगामं गन्त्वा पिण्डाय चरि, तं भगिनी दिस्वा वन्दित्वा गेहे निसीदापेत्वा भोजेसि. सो कतभत्तकिच्चो वस्सानि पुच्छि. सा ‘‘अहं न जानामि, माता मे जानाती’’ति आह. अथ सो ‘‘तिट्ठथ तुम्हे, अहं मातुसन्तिकं गमिस्सामी’’ति अटविं ओतिण्णो. तमेनं दूरतोव चोरपुरिसो दिस्वा चोरानं आरोचेसि. चोरा ‘‘सामणेरो किरेको अटविं ओतिण्णो, गच्छथ नं आनेथा’’ति आणापेत्वा एकच्चे ‘‘मारेम न’’न्ति आहंसु, एकच्चे विस्सज्जेमाति. सामणेरो चिन्तेसि – ‘‘अहं सेखो सकरणीयो, इमेहि सद्धिं मन्तेत्वा सोत्थिमत्तानं करिस्सामी’’ति चोरजेट्ठकं आमन्तेत्वा, ‘‘उपमं ते, आवुसो, करिस्सामी’’ति इमा गाथा अभासि –

‘‘अहु अतीतमद्धानं, अरञ्ञस्मिं ब्रहावने;

चेतो कूटानि ओड्डेत्वा, ससकं अवधी तदा.

‘‘ससकञ्च मतं दिस्वा, उब्बिग्गा मिगपक्खिनो;

एकरत्तिं अपक्कामुं, ‘अकिच्चं वत्तते इध’.

‘‘तथेव समणं हन्त्वा, अधिमुत्तं अकिञ्चनं;

अद्धिका नागमिस्सन्ति, धनजानि भविस्सती’’ति.

‘‘सच्चं खो समणो आह, अधिमुत्तो अकिञ्चनो;

अद्धिका नागमिस्सन्ति, धनजानि भविस्सति.

‘‘सचे पटिपथे दिस्वा, नारोचेस्ससि कस्सचि;

तव सच्चमनुरक्खन्तो, गच्छ भन्ते यथासुख’’न्ति.

सो तेहि चोरेहि विस्सज्जितो गच्छन्तो ञातयोपि दिस्वा तेसम्पि न आरोचेसि. अथ ते अनुप्पत्ते चोरा गहेत्वा विहेठयिंसु, उरं पहरित्वा परिदेवमानञ्चस्स मातरं चोरा एतदवोचुं –

‘‘किं ते होति अधिमुत्तो, उदरे वसिको असि;

पुट्ठा मे अम्म अक्खाहि, कथं जानेमु तं मय’’न्ति.

‘‘अधिमुत्तस्स अहं माता, अयञ्च जनको पिता;

भगिनी भातरो चापि, सब्बेव इध ञातयो.

‘‘अकिच्चकारी अधिमुत्तो, यं दिस्वा न निवारये;

एतं खो वत्तं समणानं, अरियानं धम्मजीविनं.

‘‘सच्चवादी अधिमुत्तो, यं दिस्वा न निवारये;

अधिमुत्तस्स सुचिण्णेन, सच्चवादिस्स भिक्खुनो;

सब्बेव अभयं पत्ता, सोत्थिं गच्छन्तु ञातयो’’ति.

एवं ते चोरेहि विस्सज्जिता गन्त्वा अधिमुत्तं आहंसु –

‘‘तव तात सुचिण्णेन, सच्चवादिस्स भिक्खुनो;

सब्बेव अभयं पत्ता, सोत्थिं पच्चागमम्हसे’’ति.

तेपि पञ्चसता चोरा पसादं आपज्जित्वा अधिमुत्तस्स सामणेरस्स सन्तिके पब्बजिंसु. सो ते आदाय उपज्झायस्स सन्तिकं गन्त्वा पठमं अत्तना उपसम्पन्नो पच्छा ते पञ्चसते अत्तनो अन्तेवासिके कत्वा उपसम्पादेसि. ते अधिमुत्तथेरस्स ओवादे ठिता सब्बे अग्गफलं अरहत्तं पापुणिंसु. इममत्थं गहेत्वा देवता ‘‘सतं सद्धम्ममञ्ञाय ञातिमज्झे विरोचती’’ति आह.

साततन्ति सततं सुखं वा चिरं तिट्ठन्तीति वदति. सब्बासं वोति सब्बासं तुम्हाकं. परियायेनाति कारणेन. सब्बदुक्खा पमुच्चतीति, न केवलं सेय्योव होति, न च केवलं पञ्ञं लभति, सोकमज्झे न सोचति, ञातिमज्झे विरोचति, सुगतियं निब्बत्तति, चिरं सुखं तिट्ठति, सकलस्मा पन वट्टदुक्खापि मुच्चतीति. पठमं.