९. मानकामसुत्तवण्णना

९. नवमे मानकामस्साति मानं कामेन्तस्स इच्छन्तस्स. दमोति एवरूपस्स पुग्गलस्स समाधिपक्खिको दमो नत्थीति वदति. ‘‘सच्चेन दन्तो दमसा उपेतो, वेदन्तगू वुसितब्रह्मचरियो’’ति (सं. नि. १.१९५) एत्थ हि इन्द्रियसंवरो दमोति वुत्तो. ‘‘यदि सच्चा दमा चागा, खन्त्या भिय्योध विज्जती’’ति (सं. नि. १.२४६; सु. नि. १९१) एत्थ पञ्ञा. ‘‘दानेन दमेन संयमेन सच्चवज्जेन अत्थि पुञ्ञं, अत्थि पुञ्ञस्स आगमो’’ति (सं. नि. ४.३६५) एत्थ उपोसथकम्मं. ‘‘सक्खिस्ससि खो त्वं, पुण्ण, इमिना दमूपसमेन समन्नागतो सुनापरन्तस्मिं जनपदे विहरितु’’न्ति (सं. नि. ४.८८; म. नि. ३.३९६) एत्थ अधिवासनखन्ति. इमस्मिं पन सुत्ते दमोति समाधिपक्खिकधम्मानं एतं नामं. तेनेवाह – ‘‘न मोनमत्थि असमाहितस्सा’’ति. तत्थ मोनन्ति चतुमग्गञाणं, तञ्हि मुनातीति मोनं, चतुसच्चधम्मे जानातीति अत्थो. मच्चुधेय्यस्साति तेभूमकवट्टस्स. तञ्हि मच्चुनो पतिट्ठानट्ठेन मच्चुधेय्यन्ति वुच्चति. पारन्ति तस्सेव पारं निब्बानं. तरेय्याति पटिविज्झेय्य पापुणेय्य वा. इदं वुत्तं होति – एको अरञ्ञे विहरन्तो पमत्तो पुग्गलो मच्चुधेय्यस्स पारं न तरेय्य न पटिविज्झेय्य न पापुणेय्याति.

मानं पहायाति अरहत्तमग्गेन नवविधमानं पजहित्वा. सुसमाहितत्तोति उपचारप्पनासमाधीहि सुट्ठु समाहितत्तो. सुचेतसोति ञाणसम्पयुत्तताय सुन्दरचित्तो. ञाणविप्पयुत्तचित्तेन हि सुचेतसोति न वुच्चति, तस्मा ञाणसम्पयुत्तेन सुचेतसो हुत्वाति अत्थो. सब्बधि विप्पमुत्तोति सब्बेसु खन्धायतनादीसु विप्पमुत्तो हुत्वा. तरेय्याति एत्थ तेभूमकवट्टं समतिक्कमन्तो निब्बानं पटिविज्झन्तो तरतीति पटिवेधतरणं नाम वुत्तं. इति इमाय गाथाय तिस्सो सिक्खा कथिता होन्ति. कथं – मानो नामायं सीलभेदनो, तस्मा ‘‘मानं पहाया’’ति इमिना अधिसीलसिक्खा कथिता होति. ‘‘सुसमाहितत्तो’’ति इमिना अधिचित्तसिक्खा. ‘‘सुचेतसो’’ति एत्थ चित्तेन पञ्ञा दस्सिता, तस्मा इमिना अधिपञ्ञासिक्खा कथिता. अधिसीलञ्च नाम सीले सति होति, अधिचित्तं चित्ते सति, अधिपञ्ञा पञ्ञाय सति. तस्मा सीलं नाम पञ्चपि दसपि सीलानि, पातिमोक्खसंवरो अधिसीलं नामाति वेदितब्बं. अट्ठ समापत्तियो चित्तं, विपस्सनापादकज्झानं अधिचित्तं. कम्मस्सकतञाणं पञ्ञा, विपस्सना अधिपञ्ञा. अनुप्पन्नेपि हि बुद्धुप्पादे पवत्ततीति पञ्चसीलं दससीलं सीलमेव, पातिमोक्खसंवरसीलं बुद्धुप्पादेयेव पवत्ततीति अधिसीलं. चित्तपञ्ञासुपि एसेव नयो. अपिच निब्बानं पत्थयन्तेन समादिन्नं पञ्चसीलम्पि दससीलम्पि अधिसीलमेव. समापन्ना अट्ठ समापत्तियोपि अधिचित्तमेव. सब्बम्पि वा लोकियसीलं सीलमेव, लोकुत्तरं अधिसीलं. चित्तपञ्ञासुपि एसेव नयोति. इति इमाय गाथाय समोधानेत्वा तिस्सो सिक्खा सकलसासनं कथितं होतीति.

मानकामसुत्तवण्णना निट्ठिता.