१०. अरञ्ञसुत्तवण्णना

१०. दसमे सन्तानन्ति सन्तकिलेसानं, पण्डितानं वा. ‘‘सन्तो हवे सब्भि पवेदयन्ति (जा. २.२१.४१३), दूरे सन्तो पकासन्ती’’तिआदीसु (ध. प. ३०४) हि पण्डितापि सन्तोति वुत्ता. ब्रह्मचारिनन्ति सेट्ठचारीनं मग्गब्रह्मचरियवासं वसन्तानं. केन वण्णो पसीदतीति केन कारणेन छविवण्णो पसीदतीति पुच्छति. कस्मा पनेसा एवं पुच्छति? एसा किर वनसण्डवासिका भुम्मदेवता आरञ्ञके भिक्खू पच्छाभत्तं पिण्डपातपटिक्कन्ते अरञ्ञं पविसित्वा रत्तिट्ठानदिवाट्ठानेसु मूलकम्मट्ठानं गहेत्वा निसिन्ने पस्सति. तेसञ्च एवं निसिन्नानं बलवचित्तेकग्गता उप्पज्जति. ततो विसभागसन्तति वूपसम्मति, सभागसन्तति ओक्कमति, चित्तं पसीदति. चित्ते पसन्ने लोहितं पसीदति, चित्तसमुट्ठानानि उपादारूपानि परिसुद्धानि होन्ति, वण्टा पमुत्ततालफलस्स विय मुखस्स वण्णो होति. तं दिस्वा देवता चिन्तेसि – ‘‘सरीरवण्णो नामायं पणीतानि रससम्पन्नानि भोजनानि सुखसम्फस्सानि निवासनपापुरणसयनानि उतुसुखे तेभूमिकादिभेदे च पासादे मालागन्धविलेपनादीनि च लभन्तानं पसीदति, इमे पन भिक्खू पिण्डाय चरित्वा मिस्सकभत्तं भुञ्जन्ति, विरळमञ्चके वा फलके वा सिलाय वा सयनानि कप्पेन्ति, रुक्खमूलादीसु वा अब्भोकासे वा वसन्ति, केन नु खो कारणेन एतेसं वण्णो पसीदती’’ति. तस्मा पुच्छि.

अथस्सा भगवा कारणं कथेन्तो दुतियं गाथं आह. तत्थ अतीतन्ति अतीते असुको नाम राजा धम्मिको अहोसि, सो अम्हाकं पणीते पच्चये अदासि. आचरियुपज्झाया लाभिनो अहेसुं. अथ मयं एवरूपानि भोजनानि भुञ्जिम्हा, चीवरानि पारुपिम्हाति एवं एकच्चे पच्चयबाहुल्लिका विय इमे भिक्खू अतीतं नानुसोचन्ति. नप्पजप्पन्ति नागतन्ति अनागते धम्मिको राजा भविस्सति, फीता जनपदा भविस्सन्ति, बहूनि सप्पिनवनीतादीनि उप्पज्जिस्सन्ति, ‘‘खादथ भुञ्जथा’’ति तत्थ तत्थ वत्तारो भविस्सन्ति, तदा मयं एवरूपानि भोजनानि भुञ्जिस्साम, चीवरानि पारुपिस्सामाति एवं अनागतं न पत्थेन्ति. पच्चुप्पन्नेनाति येन केनचि तङ्खणे लद्धेन यापेन्ति. तेनाति तेन तिविधेनापि कारणेन.

एवं वण्णसम्पत्तिं दस्सेत्वा इदानि तस्सेव वण्णस्स विनासं दस्सेन्तो अनन्तरं गाथमाह. तत्थ अनागतप्पजप्पायाति अनागतस्स पत्थनाय. एतेनाति एतेन कारणद्वयेन. नळोव हरितो लुतोति यथा हरितो नळो लायित्वा उण्हपासाणे पक्खित्तो सुस्सति, एवं सुस्सन्तीति.

अरञ्ञसुत्तवण्णना निट्ठिता. नळवग्गो पठमो.