७. अप्पटिविदितसुत्तवण्णना
७. सत्तमे धम्माति चतुसच्चधम्मा. अप्पटिविदिताति ञाणेन अप्पटिविद्धा. परवादेसूति द्वासट्ठिदिट्ठिगतवादेसु. ते हि इतो परेसं तित्थियानं वादत्ता परवादा नाम. नीयरेति अत्तनो धम्मतायपि गच्छन्ति, परेनपि नीयन्ति. तत्थ सयमेव सस्सतादीनि गण्हन्ता गच्छन्ति नाम, परस्स वचनेन तानि गण्हन्ता नीयन्ति नाम. कालो तेसं पबुज्झितुन्ति तेसं पुग्गलानं पबुज्झितुं अयं कालो. लोकस्मिञ्हि बुद्धो उप्पन्नो, धम्मो देसियति, सङ्घो सुप्पटिपन्नो, पटिपदा भद्दिका, इमे च पन महाजना वट्टे सुत्ता नप्पबुज्झन्तीति देवता आह. सम्बुद्धाति सम्मा हेतुना कारणेन बुद्धा. चत्तारो हि बुद्धा – सब्बञ्ञुबुद्धो, पच्चेकबुद्धो, चतुसच्चबुद्धो, सुतबुद्धोति. तत्थ समतिंसपारमियो पूरेत्वा सम्मासम्बोधिं पत्तो सब्बञ्ञुबुद्धो नाम. कप्पसतसहस्साधिकानि द्वे असङ्ख्येय्यानि पारमियो पूरेत्वा सयम्भुतं पत्तो पच्चेकबुद्धो नाम. अवसेसा खीणासवा चतुसच्चबुद्धा नाम. बहुस्सुतो सुतबुद्धो नाम. इमस्मिं अत्थे तयोपि पुरिमा वट्टन्ति. सम्मदञ्ञाति सम्मा हेतुना कारणेन जानित्वा. चरन्ति विसमे समन्ति विसमे वा लोकसन्निवासे विसमे वा सत्तनिकाये विसमे वा किलेसजाते समं चरन्तीति.
अप्पटिविदितसुत्तवण्णना निट्ठिता.