६. महाकम्मविभङ्गसुत्तवण्णना
२९८. एवं मे सुतन्ति महाकम्मविभङ्गसुत्तं. तत्थ मोघन्ति तुच्छं अफलं. सच्चन्ति तथं भूतं. इदञ्च एतेन न सम्मुखा सुतं, उपालिसुत्ते (म. नि. २.५६) पन – ‘‘मनोकम्मं महासावज्जतरं पञ्ञपेमि पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया, नो तथा कायकम्मं नो तथा वचीकम्म’’न्ति भगवता वुत्तं अत्थि, सा कथा तित्थियानं अन्तरे पाकटा जाता, तं गहेत्वा एस वदति. अत्थि च सा समापत्तीति इदं – ‘‘कथं नु खो, भो, अभिसञ्ञानिरोधो होती’’ति पोट्ठपादसुत्ते (दी. नि. १.४०६ आदयो) उप्पन्नं अभिसञ्ञानिरोधकथं सन्धाय वदति. न किञ्चि वेदियतीति एकवेदनम्पि न वेदियति. अत्थि च खोति थेरो निरोधसमापत्तिं सन्धाय अनुजानाति. परिरक्खितब्बन्ति गरहतो मोचनेन रक्खितब्बं. सञ्चेतना अस्स अत्थीति सञ्चेतनिकं, साभिसन्धिकं सञ्चेतनिककम्मं कत्वाति अत्थो. दुक्खं सोति थेरो ‘‘अकुसलमेव सन्धाय परिब्बाजको पुच्छती’’ति सञ्ञाय एवं वदति.
दस्सनम्पि खो अहन्ति भगवा चतुरङ्गेपि अन्धकारे समन्ता योजनट्ठाने तिलमत्तम्पि सङ्खारं मंसचक्खुनाव पस्सति, अयञ्च परिब्बाजको न दूरे गावुतमत्तब्भन्तरे वसति, कस्मा भगवा एवमाहाति? समागमदस्सनं सन्धायेवमाह.
२९९. उदायीति लालुदायी. तं दुक्खस्मिन्ति सब्बं तं दुक्खमेव. इति इमं वट्टदुक्खं किलेसदुक्खं सङ्खारदुक्खं सन्धाय ‘‘सचे भासितं भवेय्य भगवा’’ति पुच्छति.
३००. उम्मङ्गन्ति पञ्हाउम्मङ्गं. उम्मुज्जमानोति सीसं नीहरमानो. अयोनिसो उम्मुज्जिस्सतीति अनुपायेन सीसं नीहरिस्सति. इदञ्च पन भगवा जानन्तो नेव दिब्बचक्खुना न चेतोपरियञाणेन न सब्बञ्ञुतञाणेन जानि, अधिप्पायेनेव पन अञ्ञासि. कथेन्तस्स हि अधिप्पायो नाम सुविजानो होति, कथेतुकामो गीवं पग्गण्हाति, हनुकं चालेति, मुखमस्स फन्दति, सन्निसीदितुं न सक्कोति. भगवा तस्स तं आकारं दिस्वा ‘‘अयं उदायी सन्निसीदितुं न सक्कोति, यं अभूतं, तदेव कथेस्सती’’ति ओलोकेत्वाव अञ्ञासि. आदिं येवातिआदिम्हियेव. तिस्सो वेदनाति ‘‘किं सो वेदियती’’ति? पुच्छन्तेन ‘‘तिस्सो वेदना पुच्छामी’’ति एवं ववत्थपेत्वाव तिस्सो वेदना पुच्छिता. सुखवेदनियन्ति सुखवेदनाय पच्चयभूतं. सेसेसुपि एसेव नयो.
एत्थ च कामावचरकुसलतो सोमनस्ससहगतचित्तसम्पयुत्ता चतस्सो चेतना, हेट्ठा तिकज्झानचेतनाति एवं पटिसन्धिपवत्तेसु सुखवेदनाय जननतो सुखवेदनियं कम्मं नाम. कामावचरञ्चेत्थ पटिसन्धियंयेव एकन्तेन सुखं जनेति, पवत्ते इट्ठमज्झत्तारम्मणे अदुक्खमसुखम्पि.
अकुसलचेतना पटिसन्धिपवत्तेसु दुक्खस्सेव जननतो दुक्खवेदनियं कम्मं नाम. कायद्वारे पवत्तेयेव चेतं एकन्तेन दुक्खं जनेति, अञ्ञत्थ अदुक्खमसुखम्पि, सा पन वेदना अनिट्ठानिट्ठमज्झत्तेसुयेव आरम्मणेसु उप्पज्जनतो दुक्खात्वेव सङ्खं गता.
कामावचरकुसलतो पन उपेक्खासहगतचित्तसम्पयुत्ता चतस्सो चेतना, रूपावचरकुसलतो चतुत्थज्झानचेतनाति एवं पटिसन्धिपवत्तेसु ततियवेदनाय जननतो अदुक्खमसुखवेदनियं कम्मं नाम. एत्थ च कामावचरं पटिसन्धियंयेव एकन्तेन अदुक्खमसुखं जनेति, पवत्ते इट्ठारम्मणे सुखम्पि. अपिच सुखवेदनियकम्मं पटिसन्धिपवत्तिवसेन वट्टति, तथा अदुक्खमसुखवेदनियं, दुक्खवेदनियं पवत्तिवसेनेव वट्टति. एतस्स पन वसेन सब्बं पवत्तिवसेनेव वट्टति.
एतस्स भगवाति थेरो तथागतेन महाकम्मविभङ्गकथनत्थं आलयो दस्सितो, तथागतं याचित्वा महाकम्मविभङ्गञाणं भिक्खुसङ्घस्स पाकटं करिस्सामीति चिन्तेत्वा अनुसन्धिकुसलताय एवमाह. तत्थ महाकम्मविभङ्गन्ति महाकम्मविभजनं. कतमे चत्तारो…पे… इधानन्द, एकच्चो पुग्गलो…पे… निरयं उपपज्जतीति इदं न महाकम्मविभङ्गञाणभाजनं, महाकम्मविभङ्गञाणभाजनत्थाय पन मातिकाट्ठपनं.
३०१. इधानन्द, एकच्चो समणो वाति पाटियेक्को अनुसन्धि. इदञ्हि भगवा – ‘‘दिब्बचक्खुका समणब्राह्मणा इदं आरम्मणं कत्वा इमं पच्चयं लभित्वा इदं दस्सनं गण्हन्ती’’ति पकासनत्थं आरभि. तत्थ आतप्पन्तिआदीनि पञ्चपि वीरियस्सेव नामानि. चेतोसमाधिन्ति दिब्बचक्खुसमाधिं. पस्सतीति ‘‘सो सत्तो कुहिं निब्बत्तो’’ति ओलोकेन्तो पस्सति. ये अञ्ञथाति ये ‘‘दसन्नं कुसलानं कम्मपथानं पूरितत्ता निरयं उपपज्जती’’ति जानन्ति, मिच्छा तेसं ञाणन्ति वदति. इमिना नयेन सब्बवारेसु अत्थो वेदितब्बो. विदितन्ति पाकटं. थामसाति दिट्ठिथामेन. परामासाति दिट्ठिपरामासेन. अभिनिविस्स वोहरतीति अधिट्ठहित्वा आदियित्वा वोहरति.
३०२. तत्रानन्दाति इदम्पि न महाकम्मविभङ्गञाणस्स भाजनं, अथ ख्वास्स मातिकाट्ठपनमेव. एत्थ पन एतेसं दिब्बचक्खुकानं वचने एत्तका अनुञ्ञाता, एत्तका अननुञ्ञाताति इदं दस्सितं. तत्थ तत्राति तेसु चतूसु समणब्राह्मणेसु. इदमस्साति इदं वचनं अस्स. अञ्ञथाति अञ्ञेनाकारेन. इति इमेसं समणब्राह्मणानं वादे द्वीसु ठानेसु अनुञ्ञाता, तीसु अननुञ्ञाताति एवं सब्बत्थ अनुञ्ञा नानुञ्ञा वेदितब्बा.
३०३. एवं दिब्बचक्खुकानं वचने अनुञ्ञा च अननुञ्ञा च दस्सेत्वा इदानि महाकम्मविभङ्गञाणं विभजन्तो तत्रानन्द, य्वायं पुग्गलोतिआदिमाह.
पुब्बे वास्स तं कतं होतीति यं इमिना दिब्बचक्खुकेन कम्मं करोन्तो दिट्ठो, ततो पुब्बे कतं. पुब्बे कतेनपि हि निरये निब्बत्तति, पच्छा कतेनपि निब्बत्तति, मरणकाले वा पन – ‘‘खन्दो सेट्ठो सिवो सेट्ठो, पितामहो सेट्ठो, इस्सरादीहि वा लोको विसट्ठो’’तिआदिना मिच्छादस्सनेनपि निब्बत्ततेव. दिट्ठेव धम्मेति यं तत्थ दिट्ठधम्मवेदनीयं होति, तस्स दिट्ठेव धम्मे, यं उपपज्जवेदनीयं, तस्स उपपज्जित्वा, यं अपरापरियवेदनीयं, तस्स अपरस्मिं परियाये विपाकं पटिसंवेदेति.
इति अयं समणो वा ब्राह्मणो वा एकं कम्मरासिं एकञ्च विपाकरासिं अद्दस, सम्मासम्बुद्धो इमिना अदिट्ठे तयो कम्मरासी, द्वे च विपाकरासी अद्दस. इमिना पन दिट्ठे अदिट्ठे च चत्तारो कम्मरासी तयो च विपाकरासी अद्दस. इमानि सत्त ठानानि जाननञाणं तथागतस्स महाकम्मविभङ्गञाणं नाम. दुतियवारे दिब्बचक्खुकेन किञ्चि न दिट्ठं, तथागतेन पन तयो कम्मरासी, द्वे च विपाकरासी दिट्ठाति. इमानिपि पञ्च पच्चत्तट्ठानानि जाननञाणं तथागतस्स महाकम्मविभङ्गञाणं नाम. सेसवारद्वयेपि एसेव नयो.
अभब्बन्ति भूतविरहितं अकुसलं. अभब्बाभासन्ति अभब्बं आभासति अभिभवति पटिबाहतीति अत्थो. बहुकस्मिञ्हि अकुसलकम्मे आयूहिते बलवकम्मं दुब्बलकम्मस्स विपाकं पटिबाहित्वा अत्तनो विपाकस्स ओकासं करोति इदं अभब्बञ्चेव अभब्बाभासञ्च. कुसलं पन आयूहित्वा आसन्ने अकुसलं कतं होति, तं कुसलस्स विपाकं पटिबाहित्वा अत्तनो विपाकस्स ओकासं करोति, इदं अभब्बं भब्बाभासं. बहुम्हि कुसले आयूहितेपि बलवकम्मं दुब्बलकम्मस्स विपाकं पटिबाहित्वा अत्तनो विपाकस्स ओकासं करोति, इदं भब्बञ्चेव भब्बाभासञ्च. अकुसलं पन आयूहित्वा आसन्ने कुसलं कतं होति, तं अकुसलस्स विपाकं पटिबाहित्वा अत्तनो विपाकस्स ओकासं करोति, इदं भब्बं अभब्बाभासं.
अपिच उपट्ठानाकारेनपेत्थ अत्थो वेदितब्बो. इदञ्हि वुत्तं होति, अभब्बतो आभासति उपट्ठातीति अभब्बाभासं. तत्थ ‘‘य्वायं पुग्गलो इध पाणातिपाती’’तिआदिना नयेन चत्तारो पुग्गला वुत्ता, तेसु पठमस्स कम्मं अभब्बं अभब्बाभासं, तञ्हि अकुसलत्ता अभब्बं, तस्स च निरये निब्बत्तत्ता तत्थ निब्बत्तिकारणभूतं अकुसलं हुत्वा उपट्ठाति. दुतियस्स कम्मं अभब्बं भब्बाभासं, तञ्हि अकुसलत्ता अभब्बं. तस्स पन सग्गे निब्बत्तत्ता अञ्ञतित्थियानं सग्गे निब्बत्तिकारणभूतं कुसलं हुत्वा उपट्ठाति. इतरस्मिम्पि कम्मद्वये एसेव नयो. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
महाकम्मविभङ्गसुत्तवण्णना निट्ठिता.