१०. देवदूतसुत्तवण्णना
२६१. एवं मे सुतन्ति देवदूतसुत्तं. तत्थ द्वे अगारातिआदि अस्सपुरसुत्ते वित्थारितमेव.
२६२. निरयं उपपन्नाति भगवा कत्थचि निरयतो पट्ठाय देसनं देवलोकेन ओसापेति, कत्थचि देवलोकतो पट्ठाय निरयेन ओसापेति. सचे सग्गसम्पत्तिं वित्थारेत्वा कथेतुकामो होति, निरयदुक्खं एकदेसतो कथेति, तिरच्छानयोनिदुक्खं पेत्तिविसयदुक्खं मनुस्सलोकसम्पत्तिं एकदेसतो कथेति, सग्गसम्पत्तिमेव वित्थारेति. सचे निरयदुक्खं वित्थारेत्वा कथेतुकामो होति, देवलोकमनुस्सलोकेसु सम्पत्तिं तिरच्छानयोनिपेत्तिविसयेसु च दुक्खं एकदेसतो कथेति, निरयदुक्खमेव वित्थारेति. सो इमस्मिं सुत्ते निरयदुक्खं वित्थारेतुकामो, तस्मा देवलोकतो पट्ठाय देसनं निरयेन ओसापेति. देवलोकमनुस्सलोकसम्पत्तियो तिरच्छानयोनिपेत्तिविसयदुक्खानि च एकदेसतो कथेत्वा निरयदुक्खमेव वित्थारेन कथेतुं तमेनं, भिक्खवे, निरयपालातिआदिमाह.
तत्थ एकच्चे थेरा ‘‘निरयपाला नाम नत्थि, यन्तरूपं विय कम्ममेव कारणं कारेती’’ति वदन्ति. तेसं तं ‘‘अत्थि निरये निरयपालाति, आमन्ता, अत्थि च कारणिका’’तिआदिना नयेन अभिधम्मे (कथा. ८६६) पटिसेधितमेव. यथा हि मनुस्सलोके कम्मकारणकारका अत्थि, एवमेव निरये निरयपाला अत्थीति. यमस्स रञ्ञोति यमराजा नाम वेमानिकपेतराजा, एकस्मिं काले दिब्बविमाने दिब्बकप्परुक्खदिब्बउय्यानदिब्बनाटकादिसम्पत्तिं अनुभवति, एकस्मिं काले कम्मविपाकं, धम्मिको राजा. न चेस एकोव होति, चतूसु पन द्वारेसु चत्तारो जना होन्ति. नाद्दसन्ति अत्तनो सन्तिके पेसितस्स कस्सचि देवदूतस्स अभावं सन्धाय एवं वदति. अथ नं यमो ‘‘नायं भासितस्स अत्थं सल्लक्खेती’’ति ञत्वा सल्लक्खापेतुकामो अम्भोतिआदिमाह.
जातिधम्मोति जातिसभावो, अपरिमुत्तो जातिया, जाति नाम मय्हं अब्भन्तरेयेव अत्थीति. परतो जराधम्मोतिआदीसुपि एसेव नयो.
२६३. पठमं देवदूतं समनुयुञ्जित्वाति एत्थ दहरकुमारो अत्थतो एवं वदति नाम ‘‘पस्सथ, भो, मय्हम्पि तुम्हाकं विय हत्थपादा अत्थि, सके पनम्हि मुत्तकरीसे पलिपन्नो, अत्तनो धम्मताय उट्ठहित्वा न्हायितुं न सक्कोमि, अहं किलिट्ठगत्तोम्हि, न्हापेथ मन्ति वत्तुम्पि न सक्कोमि, जातितोम्हि अपरिमुत्तताय एदिसो जातो. न खो पनाहमेव, तुम्हेपि जातितो अपरिमुत्ताव. यथेव हि मय्हं, एवं तुम्हाकम्पि जाति आगमिस्सति, इति तस्सा पुरे आगमनाव कल्याणं करोथा’’ति. तेनेस देवदूतो नाम जातो, वचनत्थो पन मघदेवसुत्ते वुत्तोव.
दुतियं देवदूतन्ति एत्थापि जराजिण्णसत्तो अत्थतो एवं वदति नाम – ‘‘पस्सथ, भो, अहम्पि तुम्हे विय तरुणो अहोसिं ऊरुबलबाहुबलजवनसम्पन्नो, तस्स मे ता बलजवनसम्पत्तियो अन्तरहिता, विज्जमानापि मे हत्थपादा हत्थपादकिच्चं न करोन्ति, जरायम्हि अपरिमुत्तताय एदिसो जातो. न खो पनाहमेव, तुम्हेपि जराय अपरिमुत्ताव. यथेव हि मय्हं, एवं तुम्हाकम्पि जरा आगमिस्सति, इति तस्सा पुरे आगमनाव कल्याणं करोथा’’ति. तेनेस देवदूतो नाम जातो.
ततियं देवदूतन्ति एत्थापि गिलानसत्तो अत्थतो एव वदति नाम – ‘‘पस्सथ, भो, अहम्पि तुम्हे विय निरोगो अहोसिं, सोम्हि एतरहि ब्याधिना अभिहतो सके मुत्तकरीसे पलिपन्नो, उट्ठातुम्पि न सक्कोमि, विज्जमानापि मे हत्थपादा हत्थपादकिच्चं न करोन्ति, ब्याधितोम्हि अपरिमुत्तताय एदिसो जातो. न खो पनाहमेव, तुम्हेपि ब्याधितो अपरिमुत्ताव. यथेव हि मय्हं, एवं तुम्हाकं ब्याधि आगमिस्सति, इति तस्स पुरे आगमनाव कल्याणं करोथा’’ति. तेनेस देवदूतो नाम जातो.
२६५. चतुत्थं देवदूतन्ति एत्थ पन कम्मकारणा वा देवदूताति कातब्बा कम्मकारणिका वा. तत्थ पन कम्मकारणपक्खे बात्तिंस ताव कम्मकारणा अत्थतो एवं वदन्ति नाम – ‘‘मयं निब्बत्तमाना न रुक्खे वा पासाणे वा निब्बत्ताम, तुम्हादिसानं सरीरे निब्बत्ताम, इति अम्हाकं पुरे निब्बत्तितोव कल्याणं करोथा’’ति. तेनेते देवदूता नाम जाता. कम्मकारणिकापि अत्थतो एवं वदन्ति नाम – ‘‘मयं द्वत्तिंस कम्मकारणा करोन्ता न रुक्खादीसु करोम, तुम्हादिसेसु सत्तेसुयेव करोम, इति अम्हाकं तुम्हेसु पुरे कम्मकारणाकरणतोव कल्याणं करोथा’’ति. तेनेतेपि देवदूता नाम जाता.
२६६. पञ्चमं देवदूतन्ति एत्थ मतकसत्तो अत्थतो एवं वदति नाम – ‘‘पस्सथ भो मं आमकसुसाने छड्डितं उद्धुमातकादिभावं पत्तं, मरणतोम्हि अपरिमुत्तताय एदिसो जातो. न खो पनाहमेव, तुम्हेपि मरणतो अपरिमुत्ताव. यथेव हि मय्हं, एवं तुम्हाकम्पि मरणं आगमिस्सति, इति तस्स पुरे आगमनाव कल्याणं करोथा’’ति. तेनेस देवदूतो नाम जातो.
इमं पन देवदूतानुयोगं को लभति, को न लभतीति? येन ताव बहुं पापं कतं, सो गन्त्वा निरये निब्बत्ततियेव. येन पन परित्तं पापकम्मं कतं, सो लभति. यथा हि सभण्डं चोरं गहेत्वा कत्तब्बमेव करोन्ति, न विनिच्छिनन्ति. अनुविज्जित्वा गहितं पन विनिच्छयट्ठानं नयन्ति, सो विनिच्छयं लभति. एवंसम्पदमेतं. परित्तपापकम्मा हि अत्तनो धम्मतायपि सरन्ति, सारियमानापि सरन्ति.
तत्थ दीघजयन्तदमिळो नाम अत्तनो धम्मताय सरि. सो किर दमिळो सुमनगिरिविहारे आकासचेतियं रत्तपटेन पूजेसि. अथ निरये उस्सदसामन्ते निब्बत्तो अग्गिजालसद्दं सुत्वाव अत्तनो पूजितपटं अनुस्सरि, सो गन्त्वा सग्गे निब्बत्तो. अपरोपि पुत्तस्स दहरभिक्खुनो खलिसाटकं देन्तो पादमूले ठपेसि, मरणकालम्हि पटपटाति सद्दे निमित्तं गण्हि, सोपि उस्सदसामन्ते निब्बत्तो जालसद्देन तं साटकं अनुस्सरित्वा सग्गे निब्बत्तो. एवं ताव अत्तनो धम्मताय कुसलं कम्मं सरित्वा सग्गे निब्बत्ततीति.
अत्तनो धम्मताय असरन्ते पन पञ्च देवदूते पुच्छति. तत्थ कोचि पठमेन देवदूतेन सरति, कोचि दुतियादीहि. यो पन पञ्चहिपि न सरति, तं यमो राजा सयं सारेति. एको किर अमच्चो सुमनपुप्फकुम्भेन महाचेतियं पूजेत्वा यमस्स पत्तिं अदासि, तं अकुसलकम्मेन निरये निब्बत्तं यमस्स सन्तिकं नयिंसु. तस्मिं पञ्चहिपि देवदूतेहि कुसले असरन्ते यमो सयं ओलोकेन्तो दिस्वा – ‘‘ननु त्वं महाचेतियं सुमनपुप्फकुम्भेन पूजेत्वा मय्हं पत्तिं अदासी’’ति सारेसि, सो तस्मिं काले सरित्वा देवलोकं गतो. यमो पन सयं ओलोकेत्वापि अपस्सन्तो – ‘‘महादुक्खं नाम अनुभविस्सति अयं सत्तो’’ति तुण्ही होति.
२६७. महानिरयेति अवीचिमहानिरयम्हि. किं पनस्स पमाणं? अब्भन्तरं आयामेन च वित्थारेन च योजनसतं होति. लोहपथवी लोहछदनं एकेका च भित्ति नवनवयोजनिका होति. पुरत्थिमाय भित्तिया अच्चि उट्ठिता पच्छिमं भित्तिं गहेत्वा तं विनिविज्झित्वा परतो योजनसतं गच्छति. सेसदिसासुपि एसेव नयो. इति जालपरियन्तवसेन आयामवित्थारतो अट्ठारसयोजनाधिकानि तीणि योजनसतानि, परिक्खेपतो पन नवयोजनसतानि चतुपण्णासयोजनानि, समन्ता पन उस्सदेहि सद्धिं दसयोजनसहस्सं होति.
२६८. उब्भतं तादिसमेव होतीति एत्थ अक्कन्तपदं याव अट्ठितो दळ्हं उद्धरितुमेव न सक्का. अयं पनेत्थ अत्थो – हेट्ठतो पट्ठाय डय्हति, उपरितो पट्ठाय झायति, इति अक्कमनकाले डय्हमानं पञ्ञायति, उद्धरणकाले तादिसमेव, तस्मा एवं वुत्तं. बहुसम्पत्तोति बहूनि वस्ससतवस्ससहस्सानि सम्पत्तो.
कस्मा पनेस नरको अवीचीति सङ्खं गतोति. वीचि नाम अन्तरं वुच्चति, तत्थ च अग्गिजालानं वा सत्तानं वा दुक्खस्स वा अन्तरं नत्थि. तस्मा सो अवीचीति सङ्खं गतोति. तस्स हि पुरत्थिमभित्तितो जाला उट्ठिता संसिब्बमाना योजनसतं गन्त्वा पच्छिमभित्तिं विनिविज्झित्वा परतो योजनसतं गच्छति. सेसदिसासुपि एसेव नयो.
इमेसं छन्नं जालानं मज्झे निब्बत्तो देवदत्तो, तस्स योजनसतप्पमाणो अत्तभावो, द्वे पादा याव गोप्फका लोहपथविं पविट्ठा, द्वे हत्था याव मणिबन्धा लोहभित्तियो पविट्ठा, सीसं याव भमुकट्ठितो लोहछदने पविट्ठं, अधोभागेन एकं लोहसूलं पविसित्वा कायं विनिविज्झन्तं छदने पविट्ठं, पाचीनभित्तितो निक्खन्तसूलं हदयं विनिविज्झित्वा पच्छिमभित्तिं पविट्ठं, उत्तरभित्तितो निक्खन्तसूलं फासुका विनिविज्झित्वा दक्खिणभित्तिं पविट्ठं. निच्चले तथागतम्हि अपरद्धत्ता निच्चलोव हुत्वा पच्चतीति कम्मसरिक्खताय एदिसो जातो. एवं जालानं निरन्तरताय अवीचि नाम.
अब्भन्तरे पनस्स योजनसतिके ठाने नाळियं कोट्टेत्वा पूरितपिट्ठं विय सत्ता निरन्तरा, ‘‘इमस्मिं ठाने सत्तो अत्थि, इमस्मिं नत्थी’’ति न वत्तब्बं, गच्छन्तानं ठितानं निसिन्नानं निपन्नानं अन्तो नत्थि, गच्छन्ते वा ठिते वा निसिन्ने वा निपन्ने वा अञ्ञमञ्ञं न बाधन्ति. एवं सत्तानं निरन्तरताय अवीचि.
कायद्वारे पन छ उपेक्खासहगतानि चित्तानि उप्पज्जन्ति, एकं दुक्खसहगतं. एवं सन्तेपि यथा जिव्हग्गे छ मधुबिन्दूनि ठपेत्वा एकस्मिं तम्बलोहबिन्दुम्हि ठपिते अनुदहनबलवताय तदेव पञ्ञायति, इतरानि अब्बोहारिकानि होन्ति, एवं अनुदहनबलवताय दुक्खमेवेत्थ निरन्तरं, इतरानि अब्बोहारिकानीति. एवं दुक्खस्स निरन्तरताय अवीचि.
२६९. महन्तोति योजनसतिको. सो तत्थ पततीति एको पादो महानिरये होति, एको गूथनिरये निपतति. सूचिमुखाति सूचिसदिसमुखा, ते हत्थिगीवप्पमाणा एकदोणिकनावाप्पमाणा वा होन्ति.
कुक्कुलनिरयोति योजनसतप्पमाणोव अन्तो कूटागारमत्तवितच्चितअङ्गारपुण्णो आदित्तछारिकनिरयो, यत्थ पतितपतिता कुद्रूसकरासिम्हि खित्तफालवासिसिलादीनि विय हेट्ठिमतलमेव गण्हन्ति.
आरोपेन्तीति अयदण्डेहि पोथेन्ता आरोपेन्ति. तेसं आरोहनकाले ते कण्टका अधोमुखा होन्ति, ओरोहनकाले उद्धंमुखा.
वातेरितानीति कम्ममयेन वातेन चलितानि. हत्थम्पि छिन्दन्तीति फलके मंसं विय कोट्टयमानानि छिन्दन्ति. सचे उट्ठाय पलायति, अयोपाकारो समुट्ठहित्वा परिक्खिपति, हेट्ठा खुरधारा समुट्ठाति.
खारोदका नदीति वेतरणी नाम तम्बलोहनदी. तत्थ अयोमयानि खरवालिक-पोक्खरपत्तानि, हेट्ठा खुरधारा उभोसु तीरेसु वेत्तलता च कुसतिणानि च. सो तत्थ दुक्खा तिब्बा खराति सो तत्थ उद्धञ्च अधो च वुय्हमानो पोक्खरपत्तेसु छिज्जति. सिङ्घाटकसण्ठानाय खरवालिकाय कण्टकेहि विज्झियति, खुरधाराहि फालियति, उभोसु तीरेसु कुसतिणेहि विलेखति, वेत्तलताहि आकड्ढियति, तिक्खसत्तीहि फालियति.
२७०. तत्तेन अयोसङ्कुनाति तेन जिगच्छितोम्हीति वुत्ते महन्तं लोहपच्छिं लोहगुळानं पूरेत्वा तं उपगच्छन्ति, सो लोहगुळभावं ञत्वा दन्ते सम्फुसेति, अथस्स ते तत्तेन अयोसङ्कुना मुखं विवरन्ति, तम्बलोहधारेहि महन्तेन लोहकटाहेन तम्बलोहं उपनेत्वा एवमेवं करोन्ति. पुन महानिरयेति एवं पञ्चविधबन्धनतो पट्ठाय याव तम्बलोहपाना तम्बलोहपानतो पट्ठाय पुन पञ्चविधबन्धनादीनि कारेत्वा महानिरये पक्खिपन्ति. तत्थ कोचि पञ्चविधबन्धनेनेव मुच्चति, कोचि दुतियेन, कोचि ततियेन, कोचि तम्बलोहपानेन मुच्चति, कम्मे पन अपरिक्खीणे पुन महानिरये पक्खिपन्ति.
इदं पन सुत्तं गण्हन्तो एको दहरभिक्खु, – ‘‘भन्ते, एत्तकं दुक्खमनुभवितसत्तं पुनपि महानिरये पक्खिपन्ती’’ति आह. आम, आवुसो, कम्मे अपरिक्खीणे पुनप्पुनं एवं करोन्तीति. तिट्ठतु, भन्ते, उद्देसो, कम्मट्ठानमेव कथेथाति कम्मट्ठानं कथापेत्वा सोतापन्नो हुत्वा आगम्म उद्देसं अग्गहेसि. अञ्ञेसम्पि इमस्मिं पदेसे उद्देसं ठपेत्वा अरहत्तं पत्तानं गणना नत्थि. सब्बबुद्धानञ्चेतं सुत्तं अविजहितमेव होति.
२७१. हीनकायूपगाति हीनकायं उपगता हुत्वा. उपादानेति तण्हादिट्ठिगहणे. जातिमरणसम्भवेति जातिया च मरणस्स च कारणभूते. अनुपादाति चतूहि उपादानेहि अनुपादियित्वा. जातिमरणसङ्खयेति जातिमरणसङ्खयसङ्खाते निब्बाने विमुच्चन्ति.
दिट्ठधम्माभिनिब्बुताति दिट्ठधम्मे इमस्मिंयेव अत्तभावे सब्बकिलेसनिब्बानेन निब्बुता. सब्बदुक्खं उपच्चगुन्ति सब्बदुक्खातिक्कन्ता नाम होन्ति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
देवदूतसुत्तवण्णना निट्ठिता.
ततियवग्गवण्णना निट्ठिता.