३. सप्पुरिसधम्मसुत्तवण्णना
१०५. एवं मे सुतन्ति सप्पुरिसधम्मसुत्तं. तत्थ सप्पुरिसधम्मन्ति सप्पुरिसानं धम्मं. असप्पुरिसधम्मन्ति पापपुरिसानं धम्मं. एवं मातिकं ठपेत्वापि पुन यथा नाम मग्गकुसलो पुरिसो वामं मुञ्चित्वा दक्खिणं गण्हाति. पठमं मुञ्चितब्बं कथेति, एवं पहातब्बं धम्मं पठमं देसेन्तो कतमो च, भिक्खवे, असप्पुरिसधम्मोतिआदिमाह. तत्थ उच्चाकुलाति खत्तियकुला वा ब्राह्मणकुला वा. एतदेव हि कुलद्वयं ‘‘उच्चाकुल’’न्ति वुच्चति. सो तत्थ पुज्जोति सो भिक्खु तेसु भिक्खूसु पूजारहो. अन्तरं करित्वाति अब्भन्तरं कत्वा.
महाकुलाति खत्तियकुला वा ब्राह्मणकुला वा वेस्सकुला वा. इदमेव हि कुलत्तयं ‘‘महाकुल’’न्ति वुच्चति. महाभोगकुलाति महन्तेहि भोगेहि समन्नागता कुला. उळारभोगकुलाति उळारेहि पणीतेहि भोगेहि सम्पन्नकुला. इमस्मिं पदद्वये चत्तारिपि कुलानि लब्भन्ति. यत्थ कत्थचि कुले जातो हि पुञ्ञबलेहि महाभोगोपि उळारभोगोपि होतियेव.
१०६. यसस्सीति परिवारसम्पन्नो. अप्पञ्ञाताति रत्तिं खित्तसरा विय सङ्घमज्झादीसु न पञ्ञायन्ति. अप्पेसक्खाति अप्पपरिवारा.
१०७. आरञ्ञिकोति समादिन्नआरञ्ञिकधुतङ्गो. सेसधुतङ्गेसुपि एसेव नयो. इमस्मिञ्च सुत्ते पाळियं नवेव धुतङ्गानि आगतानि, वित्थारेन पनेतानि तेरस होन्ति. तेसु यं वत्तब्बं, तं सब्बं सब्बाकारेन विसुद्धिमग्गे धुतङ्गनिद्देसे वुत्तमेव.
१०८. अतम्मयताति तम्मयता वुच्चति तण्हा, नित्तण्हाति अत्थो. अतम्मयतञ्ञेव अन्तरं करित्वाति नित्तण्हतंयेव कारणं कत्वा अब्भन्तरं वा कत्वा, चित्ते उप्पादेत्वाति अत्थो.
निरोधवारे यस्मा अनागामिखीणासवाव तं समापत्तिं समापज्जन्ति, पुथुज्जनस्स सा नत्थि, तस्मा असप्पुरिसवारो परिहीनो. न कञ्चि मञ्ञतीति कञ्चि पुग्गलं तीहि मञ्ञनाहि न मञ्ञति. न कुहिञ्चि मञ्ञतीति किस्मिञ्चि ओकासे न मञ्ञति. न केनचि मञ्ञतीति केनचि वत्थुनापि तं पुग्गलं न मञ्ञति. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
सप्पुरिसधम्मसुत्तवण्णना निट्ठिता.