८. गोपकमोग्गल्लानसुत्तवण्णना
७९. एवं मे सुतन्ति गोपकमोग्गल्लानसुत्तं. तत्थ अचिरपरिनिब्बुते भगवतीति भगवति अचिरपरिनिब्बुते, धातुभाजनीयं कत्वा धम्मसङ्गीतिं कातुं राजगहं आगतकाले. रञ्ञो पज्जोतस्स आसङ्कमानोति चण्डपज्जोतो नामेस राजा बिम्बिसारमहाराजस्स सहायो अहोसि, जीवकं पेसेत्वा भेसज्जकारितकालतो पट्ठाय पन दळ्हमित्तोव जातो, सो ‘‘अजातसत्तुना देवदत्तस्स वचनं गहेत्वा पिता घातितो’’ति सुत्वा ‘‘मम पियमित्तं घातेत्वा एस रज्जं करिस्सामीति मञ्ञति, मय्हं सहायस्स सहायानं अत्थिकभावं जानापेस्सामी’’ति परिसति वाचं अभासि. तं सुत्वा तस्स आसङ्का उप्पन्ना. तेन वुत्तं ‘‘रञ्ञो पज्जोतस्स आसङ्कमानो’’ति. कम्मन्तोति बहिनगरे नगरपटिसङ्खारापनत्थाय कम्मन्तट्ठानं.
उपसङ्कमीति मयं धम्मविनयसङ्गीतिं कारेस्सामाति विचराम, अयञ्च महेसक्खो राजवल्लभो सङ्गहे कते वेळुवनस्स आरक्खं करेय्याति मञ्ञमानो उपसङ्कमि. तेहि धम्मेहीति तेहि सब्बञ्ञुतञ्ञाणधम्मेहि. सब्बेन सब्बन्ति सब्बाकारेन सब्बं. सब्बथा सब्बन्ति सब्बकोट्ठासेहि सब्बं. किं पुच्छामीति पुच्छति? छ हि सत्थारो पठमतरं अप्पञ्ञातकुलेहि निक्खमित्वा पब्बजिता, ते तथागते धरमानेयेव कालंकता, सावकापि नेसं अप्पञ्ञातकुलेहेव पब्बजिता. ते तेसं अच्चयेन महाविवादं अकंसु. समणो पन गोतमो महाकुला पब्बजितो, तस्स अच्चयेन सावकानं महाविवादो भविस्सतीति अयं कथा सकलजम्बुदीपं पत्थरमाना उदपादि. सम्मासम्बुद्धे च धरन्ते भिक्खूनं विवादो नाहोसि. योपि अहोसि, सोपि तत्थेव वूपसमितो. परिनिब्बुतकाले पनस्स – ‘‘अट्ठसट्ठियोजनसतसहस्सुब्बेधं सिनेरुं अपवाहितुं समत्थस्स वातस्स पुरतो पुराणपण्णं किं ठस्सति, दस पारमियो पूरेत्वा सब्बञ्ञुतञ्ञाणं पत्तस्स सत्थु अलज्जमानो मच्चुराजा कस्स लज्जिस्सती’’ति महासंवेगं जनेत्वा भिय्योसोमत्ताय भिक्खू समग्गा जाता अतिविय उपसन्तुपसन्ता, किं नु खो एतन्ति इदं पुच्छामीति पुच्छति. अनुसञ्ञायमानोति अनुसञ्जायमानो, कताकतं जनन्तोति अत्थो. अनुविचरमानो वा.
८०. अत्थि नु खोति अयम्पि हेट्ठिमपुच्छमेव पुच्छति. अप्पटिसरणेति अप्पटिसरणे धम्मविनये. को हेतु सामग्गियाति तुम्हाकं समग्गभावस्स को हेतु को पच्चयो. धम्मप्पटिसरणाति धम्मो अम्हाकं पटिसरणं, धम्मो अवस्सयोति दीपेति.
८१. पवत्ततीति पगुणं हुत्वा आगच्छति. आपत्ति होति वीतिक्कमोति उभयमेतं बुद्धस्स आणातिक्कमनमेव. यथाधम्मं यथानुसिट्ठं कारेमाति यथा धम्मो च अनुसिट्ठि च ठिता, एवं कारेमाति अत्थो.
न किर नो भवन्तो कारेन्ति धम्मो नो कारेतीति पदद्वयेपि नो कारो निपातमत्तं. एवं सन्ते न किर भवन्तो कारेन्ति, धम्मोव कारेतीति अयमेत्थ अत्थो.
८३. तग्घाति एकंसे निपातो. कहं पन भवं आनन्दोति किं थेरस्स वेळुवने वसनभावं न जानातीति? जानाति. वेळुवनस्स पन अनेन आरक्खा दिन्ना, तस्मा अत्तानं उक्कंसापेतुकामो पुच्छति. कस्मा पन तेन तत्थ आरक्खा दिन्ना? सो किर एकदिवसं महाकच्चायनत्थेरं गिज्झकूटा ओतरन्तं दिस्वा – ‘‘मक्कटो विय एसो’’ति आह. भगवा तं कथं सुत्वा – ‘‘सचे खमापेति, इच्चेतं कुसलं. नो चे खमापेति, इमस्मिं वेळुवने गोनङ्गलमक्कटो भविस्सती’’ति आह. सो तं कथं सुत्वा – ‘‘समणस्स गोतमस्स कथाय द्वेधाभावो नाम नत्थि, पच्छा मे मक्कटभूतकाले गोचरट्ठानं भविस्सती’’ति वेळुवने नानाविधे रुक्खे रोपेत्वा आरक्खं अदासि. अपरभागे कालं कत्वा मक्कटो हुत्वा निब्बत्ति. ‘‘वस्सकारा’’ति वुत्ते आगन्त्वा समीपे अट्ठासि. तग्घाति सब्बवारेसु एकंसवचनेयेव निपातो. तग्घ, भो आनन्दाति एवं थेरेन परिसमज्झे अत्तनो उक्कंसितभावं ञत्वा अहम्पि थेरं उक्कंसिस्सामीति एवमाह.
८४. न च खो, ब्राह्मणाति थेरो किर चिन्तेसि ‘‘सम्मासम्बुद्धेन वण्णितज्झानम्पि अत्थि, अवण्णितज्झानम्पि अत्थि, अयं पन ब्राह्मणो सब्बमेव वण्णेतीति पञ्हं विसंवादेति, न खो पन सक्का इमस्स मुखं उल्लोकेतुं न पिण्डपातं रक्खितुं, पञ्हं उजुं कत्वा कथेस्सामी’’ति इदं वत्तुं आरद्धं. अन्तरं करित्वाति अब्भन्तरं करित्वा. एवरूपं खो, ब्राह्मण, सो भगवा झानं वण्णेसीति इध सब्बसङ्गाहकज्झानं नाम कथितं.
यं नो मयन्ति अयं किर ब्राह्मणो वस्सकारब्राह्मणं उसूयति, तेन पुच्छितपञ्हस्स अकथनं पच्चासीसमानो कथितभावं ञत्वा ‘‘वस्सकारेन पुच्छितं पञ्हं पुनप्पुनं तस्स नामं गण्हन्तो वित्थारेत्वा कथेसि, मया पुच्छितपञ्हं पन यट्ठिकोटिया उप्पीळेन्तो विय एकदेसमेव कथेसी’’ति अनत्तमनो अहोसि, तस्मा एवमाह. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
गोपकमोग्गल्लानसुत्तवण्णना निट्ठिता.