९. महापुण्णमसुत्तवण्णना

८५. एवं मे सुतन्ति महापुण्णमसुत्तं. तत्थ तदहूति तस्मिं अहु, तस्मिं दिवसेति अत्थो. उपवसन्ति एत्थाति उपोसथो. उपवसन्तीति सीलेन वा अनसनेन वा उपेता हुत्वा वसन्तीति अत्थो. अयं पनेत्थ अत्थुद्धारो – ‘‘आयाम, आवुसो, कप्पिन, उपोसथं गमिस्सामा’’तिआदीसु हि पातिमोक्खुद्देसो उपोसथो. ‘‘अट्ठङ्गसमन्नागतो खो विसाखे उपोसथो उपवुत्थो’’तिआदीसु (अ. नि. ८.५३) सीलं. ‘‘सुद्धस्स वे सदा फग्गु, सुद्धस्सुपोसथो सदा’’तिआदीसु (म. नि. १.७९) उपवासो. ‘‘उपोसथो नाम नागराजा’’तिआदीसु (दी. नि. २.२४६) पञ्ञत्ति. ‘‘न, भिक्खवे, तदहुपोसथे सभिक्खुका आवासा’’तिआदीसु (महाव. १८१) उपवसितब्बदिवसो. इधापि सोयेव अधिप्पेतो. सो पनेस अट्ठमीचातुद्दसीपन्नरसीभेदेन तिविधो. तस्मा सेसद्वयनिवारणत्थं पन्नरसेति वुत्तं. तेन वुत्तं ‘‘उपवसन्ति एत्थाति उपोसथो’’ति. मासपुण्णताय पुण्णा संपुण्णाति पुण्णा. मा-इति चन्दो वुच्चति, सो एत्थ पुण्णोति पुण्णमा. एवं पुण्णाय पुण्णमायाति इमस्मिं पदद्वये अत्थो वेदितब्बो.

देसन्ति कारणं. तेन हि त्वं भिक्खु सके आसने निसीदित्वा पुच्छाति कस्मा भगवा ठितस्स अकथेत्वा निसीदापेसीति. अयं किर भिक्खु सट्ठिमत्तानं पधानियभिक्खूनं सङ्घत्थेरो सट्ठि भिक्खू गहेत्वा अरञ्ञे वसति, ते तस्स सन्तिके कम्मट्ठानं गहेत्वा घटेन्ति वायमन्ति. महाभूतानि परिग्गण्हन्ति उपादारूपानि, नामरूपपच्चयलक्खणारम्मणिकविपस्सनं परिग्गण्हन्ति. अथ ने आचरियुपट्ठानं आगन्त्वा वन्दित्वा निसिन्ने थेरो महाभूतपरिग्गहादीनि पुच्छति. ते सब्बं कथेन्ति, मग्गफलपञ्हं पुच्छिता पन कथेतुं न सक्कोन्ति. अथ थेरो चिन्तेसि – ‘‘मम सन्तिके एतेसं ओवादस्स परिहानि नत्थि, इमे च आरद्धवीरिया विहरन्ति. कुक्कुटस्स पानीयपिवनकालमत्तम्पि नेसं पमादकिरिया नत्थि. एवं सन्तेपि मग्गफलानि निब्बत्तेतुं न सक्कोन्ति. अहं इमेसं अज्झासयं न जानामि, बुद्धवेनेय्या एते भविस्सन्ति, गहेत्वा ने सत्थु सन्तिकं गच्छामि, अथ नेसं सत्था चरियवसेन धम्मं देसेस्सती’’ति, ते भिक्खू गहेत्वा सत्थु सन्तिकं आगतो.

सत्थापि सायन्हसमये आनन्दत्थेरेन उपनीतं उदकं आदाय सरीरं उतुं गण्हापेत्वा मिगारमातुपासादपरिवेणे पञ्ञत्तवरबुद्धासने निसीदि, भिक्खुसङ्घोपि नं परिवारेत्वा निसीदि.

तस्मिं समये सूरियो अत्थङ्गमेति, चन्दो उग्गच्छति, मज्झट्ठाने च भगवा निसिन्नो. चन्दस्स पभा नत्थि, सूरियस्स पभा नत्थि, चन्दिमसूरियानं पभं मक्खेत्वा छब्बण्णा यमकबुद्धरस्मियो विज्जोतमाना पुञ्जा पुञ्जा हुत्वा दिसाविदिसासु धावन्तीति सब्बं हेट्ठा वुत्तनयेन वित्थारेतब्बं. वण्णभूमि नामेसा, धम्मकथिकस्सेवेत्थ थामो पमाणं, यत्तकं सक्कोति, तत्तकं कथेतब्बं. दुक्कथितन्ति न वत्तब्बं. एवं सन्निसिन्नाय परिसाय थेरो उट्ठहित्वा सत्थारं पञ्हस्स ओकासं कारेसि. ततो भगवा – ‘‘सचे इमस्मिं ठितके पुच्छन्ते ‘आचरियो नो उट्ठितो’ति सेसभिक्खू उट्ठहिस्सन्ति, एवं तथागते अगारवो कतो भविस्सति. अथ निसिन्नाव पुच्छिस्सन्ति, आचरिये अगारवो कतो भविस्सति, एकग्गा हुत्वा धम्मदेसनं पटिच्छितुं न सक्कुणिस्सन्ति. आचरिये पन निसिन्ने तेपि निसीदिस्सन्ति. ततो एकग्गा धम्मदेसनं पटिच्छितुं सक्कुणिस्सन्ती’’ति इमिना कारणेन भगवा ठितस्स अकथेत्वा निसीदापेतीति.

इमे नु खो, भन्तेति विमतिपुच्छा विय कथिता. थेरो पन पञ्चक्खन्धानं उदयब्बयं परिग्गण्हित्वा अरहत्तं पत्तो महाखीणासवो, नत्थि एतस्स विमति. जानन्तेनपि पन अजानन्तेन विय हुत्वा पुच्छितुं वट्टति. सचे हि जानन्तो विय पुच्छति, ‘‘जानाति अय’’न्ति तस्स तस्स विस्सज्जेन्तो एकदेसमेव कथेति. अजानन्तेन विय पुच्छिते पन कथेन्तो इतो च एत्तो च कारणं आहरित्वा पाकटं कत्वा कथेति. कोचि पन अजानन्तोपि जानन्तो विय पुच्छति. थेरो एवरूपं वचनं किं करिस्सति, जानन्तोयेव पन अजानन्तो विय पुच्छतीति वेदितब्बो.

छन्दमूलकाति तण्हामूलका. एवंरूपो सियन्ति सचे ओदातो होतुकामो, हरितालवण्णो वा मनोसिलावण्णो वा सियन्ति पत्थेति. सचे काळो होतुकामो, नीलुप्पलवण्णो वा अञ्जनवण्णो वा अतसीपुप्फवण्णो वा सियन्ति पत्थेति. एवंवेदनोति कुसलवेदनो वा सुखवेदनो वा सियन्ति पत्थेति. सञ्ञादीसुपि एसेव नयो. यस्मा पन अतीते पत्थना नाम नत्थि, पत्थेन्तेनापि च न सक्का तं लद्धुं, पच्चुप्पन्नेपि न होति, न हि ओदातो काळभावं पत्थेत्वा पच्चुप्पन्ने काळो होति, न काळो वा ओदातो, दीघो वा रस्सो, रस्सो वा दीघो, दानं पन दत्वा सीलं वा समादियित्वा ‘‘अनागते खत्तियो वा होमि ब्राह्मणो वा’’ति पत्थेन्तस्स पत्थना समिज्झति. तस्मा अनागतमेव गहितं.

खन्धाधिवचनन्ति खन्धानं खन्धपण्णत्ति कित्तकेन होतीति पुच्छति.

महाभूता हेतूति ‘‘तयो कुसलहेतू’’तिआदीसु (ध. स. १४४१) हि हेतुहेतु वुत्तो. अविज्जा पुञ्ञाभिसङ्खारादीनं साधारणत्ता साधारणहेतु. कुसलाकुसलं अत्तनो अत्तनो विपाकदाने उत्तमहेतु. इध पच्चयहेतु अधिप्पेतो. तत्थ पथवीधातु महाभूतं इतरेसं तिण्णं भूतानं उपादारूपस्स च पञ्ञापनाय दस्सनत्थाय हेतु चेव पच्चयो च. एवं सेसेसुपि योजना वेदितब्बा.

फस्सोति ‘‘फुट्ठो, भिक्खवे, वेदेति, फुट्ठो सञ्जानाति, फुट्ठो चेतेती’’ति (सं. नि. ४.९३) वचनतो फस्सो तिण्णं खन्धानं पञ्ञापनाय हेतु चेव पच्चयो च. विञ्ञाणक्खन्धस्साति एत्थ पटिसन्धिविञ्ञाणेन ताव सद्धिं गब्भसेय्यकानं उपरिमपरिच्छेदेन समतिंस रूपानि सम्पयुत्ता च तयो खन्धा उप्पज्जन्ति, तं नामरूपं पटिसन्धिविञ्ञाणस्स पञ्ञापनाय हेतु चेव पच्चयो च. चक्खुद्वारे चक्खुपसादो चेव रूपारम्मणञ्च रूपं, सम्पयुत्ता तयो खन्धा नामं. तं नामरूपं चक्खुविञ्ञाणस्स पञ्ञापनाय हेतु चेव पच्चयो च. एसेव नयो सेसविञ्ञाणेसु.

८७. कथं पन, भन्तेति इदं कित्तकेन नु खोति वट्टं पुच्छन्तो एवमाह. सक्कायदिट्ठि न होतीति इदं विवट्टं पुच्छन्तो एवमाह.

८८. अयं रूपे अस्सादोति इमिना परिञ्ञापटिवेधो चेव दुक्खसच्चञ्च कथितं. अयं रूपे आदीनवोति इमिना पहानपटिवेधो चेव समुदयसच्चञ्च. इदं रूपे निस्सरणन्ति इमिना सच्छिकिरियापटिवेधो चेव निरोधसच्चञ्च. ये इमेसु तीसु ठानेसु सम्मादिट्ठिआदयो धम्मा, अयं भावनापटिवेधो मग्गसच्चं. सेसपदेसुपि एसेव नयो.

८९. बहिद्धाति परस्स सविञ्ञाणके काये. सब्बनिमित्तेसूति इमिना पन अनिन्द्रियबद्धम्पि सङ्गण्हाति. ‘‘सविञ्ञाणके काये’’ति वचनेन वा अत्तनो च परस्स च कायो गहितोव, बहिद्धा च सब्बनिमित्तग्गहणेन अनिन्द्रियबद्धं गण्हाति.

९०. अनत्तकतानीति अनत्तनि ठत्वा कतानि. कमत्तानं फुसिस्सन्तीति कतरस्मिं अत्तनि ठत्वा विपाकं दस्सेन्तीति सस्सतदस्सनं ओक्कमन्तो एवमाह. तण्हाधिपतेय्येनाति तण्हाजेट्ठकेन. तत्र तत्राति तेसु तेसु धम्मेसु. सट्ठिमत्तानन्ति इमे भिक्खू पकतिकम्मट्ठानं जहित्वा अञ्ञं नवकम्मट्ठानं सम्मसन्ता पल्लङ्कं अभिन्दित्वा तस्मिंयेव आसने अरहत्तं पापुणिंसु. सेसं सब्बत्थ उत्तानमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

महापुण्णमसुत्तवण्णना निट्ठिता.