८. नळकपानसुत्तवण्णना
१६६. एवं मे सुतन्ति नळकपानसुत्तं. तत्थ नळकपानेति एवंनामके गामे. पुब्बे किर अम्हाकं बोधिसत्तो वानरयोनियं निब्बत्तो, महाकायो कपिराजा अनेकवानरसहस्सपरिवुतो पब्बतपादे विचरति. पञ्ञवा खो पन होति महापुञ्ञो. सो परिसं एवं ओवदति – ‘‘इमस्मिं पब्बतपादे ताता, विसफलानि नाम होन्ति, अमनुस्सपरिग्गहिता पोक्खरणियो नाम होन्ति, तुम्हे पुब्बे खादितपुब्बानेव फलानि खादथ, पीतपुब्बानेव पानीयानि च पिवथ, एत्थ वो मं पटिपुच्छितब्बकिच्चं नत्थि, अखादितपुब्बानि पन फलानि अपीतपुब्बानि च पानीयानि मं अपुच्छित्वा मा खादित्थ मा पिवित्था’’ति.
ते एकदिवसं चरमाना अञ्ञं पब्बतपादं गन्त्वा गोचरं गहेत्वा पानीयं ओलोकेन्ता एकं अमनुस्सपरिग्गहितं पोक्खरणिं दिस्वा सहसा अपिवित्वा समन्ता परिवारेत्वा महासत्तस्स आगमनं ओलोकयमाना निसीदिंसु. महासत्तो आगन्त्वा ‘‘किं ताता पानीयं न पिवथा’’ति आह. तुम्हाकं आगमनं ओलोकेमाति. साधु ताताति समन्ता पदं परियेसमानो ओतिण्णपदंयेव अद्दस, न उत्तिण्णपदं, दिस्वा सपरिस्सयाति अञ्ञासि. तावदेव च तत्थ अभिनिब्बत्तअमनुस्सो उदकं द्वेधा कत्वा उट्ठासि सेतमुखो नीलकुच्छि रत्तहत्थपादो महादाठिको वङ्कदाठो विरूपो बीभच्छो उदकरक्खसो. सो एवमाह – ‘‘कस्मा पानीयं न पिवथ, मधुरं उदकं पिवथ, किं तुम्हे एतस्स वचनं सुणाथा’’ति? महासत्तो आह – ‘‘त्वं इध अधिवत्थो अमनुस्सो’’ति? आमाहन्ति. त्वं इध ओतिण्णे लभसीति? आम लभामि, तुम्हे पन सब्बे खादिस्सामीति. न सक्खिस्ससि, यक्खाति. पानीयं पन पिविस्सथाति? आम पिविस्सामाति. एवं सन्ते एकोपि वो न मुच्चिस्सतीति. पानीयञ्च पिविस्साम, न च ते वसं गमिस्सामाति एकनळं आहरापेत्वा कोटियं गहेत्वा धमि, सब्बो एकच्छिद्दो अहोसि, तीरे निसीदित्वाव पानीयं पिवि, सेसवानरानं पाटियेक्के नळे आहरापेत्वा धमित्वा अदासि. सब्बे यक्खस्स पस्सन्तस्सेव पानीयं पिविंसु. वुत्तम्पि चेतं –
‘‘दिस्वा पदमनुत्तिण्णं, दिस्वानो’ तरितं पदं;
नळेन वारिं पिस्साम, नेव मं त्वं वधिस्ससी’’ति. (जा. १.१.२०);
ततो पट्ठाय याव अज्जदिवसा तस्मिं ठाने नळा एकच्छिद्दाव होन्ति. इमिना हि सद्धिं इमस्मिं कप्पे चत्तारि कप्पट्ठियपाटिहारियानि नाम – चन्दे ससबिम्बं, वट्टकजातकम्हि सच्चकिरियट्ठाने अग्गिस्स गमनुपच्छेदो, घटिकारकुम्भकारस्स मातापितूनं वसनट्ठाने देवस्स अवस्सनं, तस्सा पोक्खरणिया तीरे नळानं एकच्छिद्दभावोति. इति सा पोक्खरणी नळेन पानीयस्स पीतत्ता नळकपानाति नामं लभि. अपरभागे तं पोक्खरणिं निस्साय गामो पतिट्ठासि, तस्सापि नळकपानन्तेव नामं जातं. तं सन्धाय वुत्तं ‘‘नळकपाने’’ति. पलासवनेति किंसुकवने.
१६७. तग्घ मयं, भन्तेति एकंसेनेव मयं, भन्ते, अभिरता. अञ्ञेपि ये तुम्हाकं सासने अभिरमन्ति, ते अम्हेहि सदिसाव हुत्वा अभिरमन्तीति दीपेन्ति.
नेव राजाभिनीतातिआदीसु एको रञ्ञो अपराधं कत्वा पलायति. राजा कुहिं, भो, असुकोति? पलातो देवाति. पलातट्ठानेपि मे न मुच्चिस्सति, सचे पन पब्बजेय्य, मुच्चेय्याति वदति. तस्स कोचिदेव सुहदो गन्त्वा तं पवत्तिं आरोचेत्वा त्वं सचे जीवितुमिच्छसि, पब्बजाहीति. सो पब्बजित्वा जीवितं रक्खमानो चरति. अयं राजाभिनीतो नाम.
एको पन चोरानं मूलं छिन्दन्तो चरति. चोरा सुत्वा ‘‘पुरिसानं अत्थिकभावं न जानाति, जानापेस्साम न’’न्ति वदन्ति. सो तं पवत्तिं सुत्वा पलायति. चोरा पलातोति सुत्वा ‘‘पलातट्ठानेपि नो न मुच्चिस्सति, सचे पन पब्बजेय्य, मुच्चेय्या’’ति वदन्ति. सो तं पवत्तिं सुत्वा पब्बजति. अयं चोराभिनीतो नाम.
एको पन बहुं इणं खादित्वा तेन इणेन अट्टो पीळितो तम्हा गामा पलायति. इणसामिका सुत्वा ‘‘पलातट्ठानेपि नो न मुच्चिस्सति, सचे पन पब्बजेय्य, मुच्चेय्या’’ति वदन्ति. सो तं पवत्तिं सुत्वा पब्बजति. अयं इणट्टो नाम.
राजभयादीनं पन अञ्ञतरेन भयेन भीतो अट्टो आतुरो हुत्वा निक्खम्म पब्बजितो भयट्टो नाम. दुब्भिक्खादीसु जीवितुं असक्कोन्तो पब्बजितो आजीविकापकतो नाम, आजीविकाय पकतो अभिभूतोति अत्थो. इमेसु पन एकोपि इमेहि कारणेहि पब्बजितो नाम नत्थि, तस्मा ‘‘नेव राजाभिनीतो’’तिआदिमाह.
विवेकन्ति विविच्च विवित्तो हुत्वा. इदं वुत्तं होति – यं कामेहि च अकुसलधम्मेहि च विवित्तेन पठमदुतियज्झानसङ्खातं पीतिसुखं अधिगन्तब्बं, सचे तं विविच्च कामेहि विविच्च अकुसलेहि धम्मेहि पीतिसुखं नाधिगच्छति, अञ्ञं वा उपरि द्विन्नं झानानं चतुन्नञ्च मग्गानं वसेन सन्ततरं सुखं नाधिगच्छति, तस्स इमे अभिज्झादयो चित्तं परियादाय तिट्ठन्तीति. तत्थ अरतीति अधिकुसलेसु धम्मेसु उक्कण्ठितता. तन्दीति आलसियभावो. एवं यो पब्बजित्वा पब्बजितकिच्चं कातुं न सक्कोति, तस्स इमे सत्त पापधम्मा उप्पज्जित्वा चित्तं परियादियन्तीति दस्सेत्वा इदानि यस्स ते धम्मा चित्तं परियादाय तिट्ठन्ति, सोयेव समणकिच्चम्पि कातुं न सक्कोतीति पुन विवेकं अनुरुद्धा…पे… अञ्ञं वा ततो सन्ततरन्ति आह.
एवं कण्हपक्खं दस्सेत्वा इदानि तेनेव नयेन सुक्कपक्खं दस्सेतुं पुन विवेकन्तिआदिमाह. तस्सत्थो वुत्तनयेनेव वेदितब्बो.
१६८. सङ्खायाति जानित्वा. एकन्ति एकच्चं. पटिसेवतीति सेवितब्बयुत्तकं सेवति. सेसपदेसुपि एसेव नयो. उपपत्तीसु ब्याकरोतीति सप्पटिसन्धिके ताव ब्याकरोतु, अप्पटिसन्धिके कथं ब्याकरोतीति. अप्पटिसन्धिकस्स पुन भवे पटिसन्धि नत्थीति वदन्तो उपपत्तीसु ब्याकरोति नाम.
जनकुहनत्थन्ति जनविम्हापनत्थं. जनलपनत्थन्ति महाजनस्स उपलापनत्थं. न इति मं जनो जानातूति एवं मं महाजनो जानिस्सति, एवं मे महाजनस्स अन्तरे कित्तिसद्दो उग्गच्छिस्सतीति इमिनापि कारणेन न ब्याकरोतीति अत्थो. उळारवेदाति महन्ततुट्ठिनो.
१६९. सो खो पनस्स आयस्माति सो परिनिब्बुतो आयस्मा इमस्स ठितस्स आयस्मतो. एवंसीलोतिआदीसु लोकियलोकुत्तरमिस्सकाव सीलादयो वेदितब्बो. एवंधम्मोति एत्थ पन समाधिपक्खिका धम्मा धम्माति अधिप्पेता. फासुविहारो होतीति तेन भिक्खुना पूरितपटिपत्तिं पूरेन्तस्स अरहत्तफलं सच्छिकत्वा फलसमापत्तिविहारेन फासुविहारो होति, अरहत्तं पत्तुमसक्कोन्तस्स पटिपत्तिं पूरयमानस्स चरतोपि फासुविहारोयेव नाम होति. इमिना नयेन सब्बवारेसु अत्थो वेदितब्बोति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
नळकपानसुत्तवण्णना निट्ठिता.