५. भद्दालिसुत्तवण्णना
१३४. एवं मे सुतन्ति भद्दालिसुत्तं. तत्थ एकासनभोजनन्ति एकस्मिं पुरेभत्ते असनभोजनं, भुञ्जितब्बभत्तन्ति अत्थो. अप्पाबाधतन्तिआदीनि ककचोपमे वित्थारितानि. न उस्सहामीति न सक्कोमि. सिया कुक्कुच्चं सिया विप्पटिसारोति एवं भुञ्जन्तो यावजीवं ब्रह्मचरियं चरितुं सक्खिस्सामि नु खो, न नु खोति इति मे विप्पटिसारकुक्कुच्चं भवेय्याति अत्थो. एकदेसं भुञ्जित्वाति पोराणकत्थेरा किर पत्ते भत्तं पक्खिपित्वा सप्पिम्हि दिन्ने सप्पिना उण्हमेव थोकं भुञ्जित्वा हत्थे धोवित्वा अवसेसं बहि नीहरित्वा छायूदकफासुके ठाने निसीदित्वा भुञ्जन्ति. एतं सन्धाय सत्था आह. भद्दालि, पन चिन्तेसि – ‘‘सचे सकिं पत्तं पूरेत्वा दिन्नं भत्तं भुञ्जित्वा पुन पत्तं धोवित्वा ओदनस्स पूरेत्वा लद्धं बहि नीहरित्वा छायूदकफासुके ठाने भुञ्जेय्य, इति एवं वट्टेय्य, इतरथा को सक्कोती’’ति. तस्मा एवम्पि खो अहं, भन्ते, न उस्सहामीति आह. अयं किर अतीते अनन्तराय जातिया काकयोनियं निब्बत्ति. काका च नाम महाछातका होन्ति. तस्मा छातकत्थेरो नाम अहोसि. तस्स पन विरवन्तस्सेव भगवा तं मद्दित्वा अज्झोत्थरित्वा – ‘‘यो पन भिक्खु विकाले खादनीयं वा भोजनीयं वा खादेय्य वा भुञ्जेय्य वा पाचित्तिय’’न्ति (पाचि. २४८) सिक्खापदं पञ्ञपेसि. तेन वुत्तं अथ खो आयस्मा, भद्दालि,…पे… अनुस्साहं पवेदेसीति.
यथा तन्ति यथा अञ्ञोपि सिक्खाय न परिपूरकारी एकविहारेपि वसन्तो सत्थु सम्मुखीभावं न ददेय्य, तथेव न अदासीति अत्थो. नेव भगवतो उपट्ठानं अगमासि, न धम्मदेसनट्ठानं न वितक्कमाळकं, न एकं भिक्खाचारमग्गं पटिपज्जि. यस्मिं कुले भगवा निसीदति, तस्स द्वारेपि न अट्ठासि. सचस्स वसनट्ठानं भगवा गच्छति, सो पुरेतरमेव ञत्वा अञ्ञत्थ गच्छति. सद्धापब्बजितो किरेस कुलपुत्तो परिसुद्धसीलो. तेनस्स न अञ्ञो वितक्को अहोसि, – ‘‘मया नाम उदरकारणा भगवतो सिक्खापदपञ्ञापनं पटिबाहितं, अननुच्छविकं मे कत’’न्ति अयमेव वितक्को अहोसि. तस्मा एकविहारे वसन्तोपि लज्जाय सत्थु सम्मुखीभावं नादासि.
१३५. चीवरकम्मं करोन्तीति मनुस्सा भगवतो चीवरसाटकं अदंसु, तं गहेत्वा चीवरं करोन्ति. एतं दोसकन्ति एतं ओकासमेतं अपराधं, सत्थु सिक्खापदं पञ्ञपेन्तस्स पटिबाहितकारणं साधुकं मनसि करोहीति अत्थो. दुक्करतरन्ति वस्सञ्हि वसित्वा दिसापक्कन्ते भिक्खू कुहिं वसित्थाति पुच्छन्ति, तेहि जेतवने वसिम्हाति वुत्ते, ‘‘आवुसो, भगवा इमस्मिं अन्तोवस्से कतरं जातकं कथेसि, कतरं सुत्तन्तं, कतरं सिक्खापदं पञ्ञपेसी’’ति पुच्छितारो होन्ति. ततो ‘‘विकालभोजनसिक्खापदं पञ्ञपेसि, भद्दालि, नाम नं एको थेरो पटिबाही’’ति वक्खन्ति. तं सुत्वा भिक्खू – ‘‘भगवतोपि नाम सिक्खापदं पञ्ञपेन्तस्स पटिबाहितं अयुत्तं अकारण’’न्ति वदन्ति. एवं ते अयं दोसो महाजनन्तरे पाकटो हुत्वा दुप्पटिकारतं आपज्जिस्सतीति मञ्ञमाना एवमाहंसु. अपिच अञ्ञेपि भिक्खू पवारेत्वा सत्थु सन्तिकं आगमिस्सन्ति. अथ त्वं ‘‘एथावुसो, मम सत्थारं खमापेन्तस्स सहाया होथा’’ति सङ्घं सन्निपातेस्ससि. तत्थ आगन्तुका पुच्छिस्सन्ति, ‘‘आवुसो, किं इमिनापि भिक्खुना कत’’न्ति. ततो एतमत्थं सुत्वा ‘‘भारियं कतं भिक्खुना, दसबलं नाम पटिबाहिस्सतीति अयुत्तमेत’’न्ति वक्खन्ति. एवम्पि ते अयं अपराधो महाजनन्तरे पाकटो हुत्वा दुप्पटिकारतं आपज्जिस्सतीति मञ्ञमानापि एवमाहंसु. अथ वा भगवा पवारेत्वा चारिकं पक्कमिस्सति, अथ त्वं गतगतट्ठाने भगवतो खमापनत्थाय सङ्घं सन्निपातेस्ससि. तत्र दिसावासिनो भिक्खू पुच्छिस्सन्ति, ‘‘आवुसो, किं इमिना भिक्खुना कत’’न्ति…पे… दुप्पटिकारतं आपज्जिस्सतीति मञ्ञमानापि एवमाहंसु.
एतदवोचाति अप्पतिरूपं मया कतं, भगवा पन महन्तेपि अगुणे अलग्गित्वा मय्हं अच्चयं पटिग्गण्हिस्सतीति मञ्ञमानो एतं ‘‘अच्चयो मं, भन्ते,’’तिआदिवचनं अवोच. तत्थ अच्चयोति अपराधो. मं अच्चगमाति मं अतिक्कम्म अभिभवित्वा पवत्तो. पटिग्गण्हातूति खमतु. आयतिं संवरायाति अनागते संवरणत्थाय, पुन एवरूपस्स अपराधस्स दोसस्स खलितस्स अकरणत्थाय. तग्घाति एकंसेन. समयोपि खो ते, भद्दालीति, भद्दालि, तया पटिविज्झितब्बयुत्तकं एकं कारणं अत्थि, तम्पि ते न पटिविद्धं न सल्लक्खितन्ति दस्सेति.
१३६. उभतोभागविमुत्तोतिआदीसु धम्मानुसारी, सद्धानुसारीति द्वे एकचित्तक्खणिका मग्गसमङ्गिपुग्गला. एते पन सत्तपि अरियपुग्गले भगवतापि एवं आणापेतुं न युत्तं, भगवता आणत्ते तेसम्पि एवं कातुं न युत्तं. अट्ठानपरिकप्पवसेन पन अरियपुग्गलानं सुवचभावदस्सनत्थं भद्दालित्थेरस्स च दुब्बचभावदस्सनत्थमेतं वुत्तं.
अपि नु त्वं तस्मिं समये उभतोभागविमुत्तोति देसनं कस्मा आरभि? भद्दालिस्स निग्गहणत्थं. अयञ्हेत्थ अधिप्पायो – भद्दालि, इमे सत्त अरियपुग्गला लोके दक्खिणेय्या मम सासने सामिनो, मयि सिक्खापदं पञ्ञपेन्ते पटिबाहितब्बयुत्ते कारणे सति एतेसं पटिबाहितुं युत्तं. त्वं पन मम सासनतो बाहिरको, मयि सिक्खापदं पञ्ञपेन्ते तुय्हं पटिबाहितुं न युत्तन्ति.
रित्तो तुच्छोति अन्तो अरियगुणानं अभावेन रित्तको तुच्छको, इस्सरवचने किञ्चि न होति. यथाधम्मं पटिकरोसीति यथा धम्मो ठितो, तथेव करोसि, खमापेसीति वुत्तं होति. तं ते मयं पटिग्गण्हामाति तं तव अपराधं मयं खमाम. वुड्ढि हेसा, भद्दालि, अरियस्स विनयेति एसा, भद्दालि, अरियस्स विनये बुद्धस्स भगवतो सासने वुड्ढि नाम. कतमा? अच्चयं अच्चयतो दिस्वा यथाधम्मं पटिकरित्वा आयतिं संवरापज्जना. देसनं पन पुग्गलाधिट्ठानं करोन्तो ‘‘यो अच्चयं अच्चयतो दिस्वा यथाधम्मं पटिकरोति, आयतिं संवरं आपज्जती’’ति आह.
१३७. सत्थापि उपवदतीति ‘‘असुकविहारवासी असुकस्स थेरस्स सद्धिविहारिको असुकस्स अन्तेवासिको इत्थन्नामो नाम भिक्खु लोकुत्तरधम्मं निब्बत्तेतुं अरञ्ञं पविट्ठो’’ति सुत्वा – ‘‘किं तस्स अरञ्ञवासेन, यो मय्हं पन सासने सिक्खाय अपरिपूरकारी’’ति एवं उपवदति, सेसपदेसुपि एसेव नयो, अपिचेत्थ देवता न केवलं उपवदन्ति, भेरवारम्मणं दस्सेत्वा पलायनाकारम्पि करोन्ति. अत्तनापि अत्तानन्ति सीलं आवज्जन्तस्स संकिलिट्ठट्ठानं पाकटं होति, चित्तं विधावति, न कम्मट्ठानं अल्लीयति. सो ‘‘किं मादिसस्स अरञ्ञवासेना’’ति विप्पटिसारी उट्ठाय पक्कमति. अत्तापि अत्तानं उपवदितोति अत्तनापि अत्ता उपवदितो, अयमेव वा पाठो. सुक्कपक्खो वुत्तपच्चनीकनयेन वेदितब्बो. सो विविच्चेव कामेहीतिआदि एवं सच्छिकरोतीति दस्सनत्थं वुत्तं.
१४०. पसय्ह पसय्ह कारणं करोन्तीति अप्पमत्तकेपि दोसे निग्गहेत्वा पुनप्पुनं कारेन्ति. नो तथाति महन्तेपि अपराधे यथा इतरं, एवं पसय्ह न कारेन्ति. सो किर, ‘‘आवुसो, भद्दालि, मा चिन्तयित्थ, एवरूपं नाम होति, एहि सत्थारं खमापेही’’ति भिक्खुसङ्घतोपि, कञ्चि भिक्खुं पेसेत्वा अत्तनो सन्तिकं पक्कोसापेत्वा, ‘‘भद्दालि, मा चिन्तयित्थ, एवरूपं नाम होती’’ति एवं सत्थुसन्तिकापि अनुग्गहं पच्चासीसति. ततो ‘‘भिक्खुसङ्घेनापि न समस्सासितो, सत्थारापी’’ति चिन्तेत्वा एवमाह.
अथ भगवा भिक्खुसङ्घोपि सत्थापि ओवदितब्बयुत्तमेव ओवदति, न इतरन्ति दस्सेतुं इध, भद्दालि, एकच्चोतिआदिमाह. तत्थ अञ्ञेनाञ्ञन्तिआदीनि अनुमानसुत्ते वित्थारितानि. न सम्मा वत्ततीति सम्मा वत्तम्पि न वत्तति. न लोमं पातेतीति अनुलोमवत्ते न वत्तति, विलोममेव गण्हाति. न नित्थारं वत्ततीति नित्थारणकवत्तम्हि न वत्तति, आपत्तिवुट्ठानत्थं तुरिततुरितो छन्दजातो न होति. तत्राति तस्मिं तस्स दुब्बचकरणे. अभिण्हापत्तिकोति निरन्तरापत्तिको. आपत्तिबहुलोति सापत्तिककालोवस्स बहु, सुद्धो निरापत्तिककालो अप्पोति अत्थो. न खिप्पमेव वूपसम्मतीति खिप्पं न वूपसम्मति, दीघसुत्तं होति. विनयधरा पादधोवनकाले आगतं ‘‘गच्छावुसो, वत्तवेला’’ति वदन्ति. पुन कालं मञ्ञित्वा आगतं ‘‘गच्छावुसो, तुय्हं विहारवेला, गच्छावुसो, सामणेरादीनं उद्देसदानवेला, अम्हाकं न्हानवेला, थेरूपट्ठानवेला, मुखधोवनवेला’’तिआदीनि वत्वा दिवसभागेपि रत्तिभागेपि आगतं उय्योजेन्तियेव. ‘‘काय वेलाय, भन्ते, ओकासो भविस्सती’’ति वुत्तेपि ‘‘गच्छावुसो, त्वं इममेव ठानं जानासि, असुको नाम विनयधरत्थेरो सिनेहपानं पिवति, असुको विरेचनं कारेति, कस्मा तुरितोसी’’तिआदीनि वत्वा दीघसुत्तमेव करोन्ति.
१४१. खिप्पमेव वूपसम्मतीति लहुं वूपसम्मति, न दीघसुत्तं होति. उस्सुक्कापन्ना भिक्खू – ‘‘आवुसो, अयं सुब्बचो भिक्खु, जनपदवासिनो नाम गामन्तसेनासने वसनट्ठाननिसज्जनादीनि न फासुकानि होन्ति, भिक्खाचारोपि दुक्खो होति, सीघमस्स अधिकरणं वूपसमेमा’’ति सन्निपतित्वा आपत्तितो वुट्ठापेत्वा सुद्धन्ते पतिट्ठापेन्ति.
१४२. अधिच्चापत्तिकोति कदाचि कदाचि आपत्तिं आपज्जति. सो किञ्चापि लज्जी होति पकतत्तो, दुब्बचत्ता पनस्स भिक्खू तथेव पटिपज्जन्ति.
१४४. सद्धामत्तकेन वहति पेममत्तकेनाति आचरियुपज्झायेसु अप्पमत्तिकाय गेहस्सितसद्धाय अप्पमत्तकेन गेहस्सितपेमेन यापेति. पटिसन्धिग्गहणसदिसा हि अयं पब्बज्जा नाम, नवपब्बजितो पब्बज्जाय गुणं अजानन्तो आचरियुपज्झायेसु पेममत्तेन यापेति, तस्मा एवरूपा सङ्गण्हितब्बा. अप्पमत्तकम्पि हि सङ्गहं लभित्वा पब्बज्जाय ठिता अभिञ्ञापत्ता महासमणा भविस्सन्ति. एत्तकेन कथामग्गेन ‘‘ओवदितब्बयुत्तकं ओवदन्ति, न इतर’’न्ति इममेव भगवता दस्सितं.
१४५. अञ्ञाय सण्ठहिंसूति अरहत्ते पतिट्ठहिंसु. सत्तेसु हायमानेसूति पटिपत्तिया हायमानाय सत्ता हायन्ति नाम. सद्धम्मे अन्तरधायमानेति पटिपत्तिसद्धम्मे अन्तरधायमाने. पटिपत्तिसद्धम्मोपि हि पटिपत्तिपूरकेसु सत्तेसु असति अन्तरधायति नाम. आसवट्ठानीयाति आसवा तिट्ठन्ति एतेसूति आसवट्ठानीया. येसु दिट्ठधम्मिकसम्परायिका परूपवादविप्पटिसारवधबन्धनादयो चेव अपायदुक्खविसेसभूता च आसवा तिट्ठन्तियेव. यस्मा नेसं ते कारणं होन्तीति अत्थो. ते आसवट्ठानीया वीतिक्कमधम्मा याव न सङ्घे पातुभवन्ति, न ताव सत्था सावकानं सिक्खापदं पञ्ञपेतीति अयमेत्थ योजना.
एवं अकालं दस्सेत्वा पुन कालं दस्सेतुं यतो च खो, भद्दालीतिआदिमाह. तत्थ यतोति यदा, यस्मिं कालेति वुत्तं होति. सेसं वुत्तानुसारेनेव वेदितब्बं. अयं वा एत्थ सङ्खेपत्थो – यस्मिं काले आसवट्ठानीया धम्माति सङ्खं गता वीतिक्कमदोसा सङ्घे पातुभवन्ति, तदा सत्था सावकानं सिक्खापदं पञ्ञपेति. कस्मा? तेसंयेव आसवट्ठानीयधम्मसङ्खातानं वीतिक्कमदोसानं पटिघाताय.
एवं आसवट्ठानीयानं धम्मानं अनुप्पत्तिं सिक्खापदपञ्ञत्तिया अकालं, उप्पत्तिञ्च कालन्ति वत्वा इदानि तेसं धम्मानं अनुप्पत्तिकालञ्च उप्पत्तिकालञ्च दस्सेतुं ‘‘न ताव, भद्दालि, इधेकच्चे’’तिआदिमाह. तत्थ महत्तन्ति महन्तभावं. सङ्घो हि याव न थेरनवमज्झिमानं वसेन महत्तं पत्तो होति, ताव सेनासनानि पहोन्ति, सासने एकच्चे आसवट्ठानीया धम्मा न उप्पज्जन्ति. महत्तं पत्ते पन ते उप्पज्जन्ति, अथ सत्था सिक्खापदं पञ्ञपेति. तत्थ महत्तं पत्ते सङ्घे पञ्ञत्तसिक्खापदानि –
‘‘यो पन भिक्खु अनुपसम्पन्नेन उत्तरिद्विरत्ततिरत्तं सहसेय्यं कप्पेय्य पाचित्तियं (पाचि. ५१). या पन भिक्खुनी अनुवस्सं वुट्ठापेय्य पाचित्तियं (पाचि. ११७१). या पन भिक्खुनी एकवस्सं द्वे वुट्ठापेय्य पाचित्तिय’’न्ति (पाचि. ११७५).
इमिना नयेन वेदितब्बानि.
लाभग्गन्ति लाभस्स अग्गं. सङ्घो हि याव न लाभग्गपत्तो होति, न ताव लाभं पटिच्च आसवट्ठानीया धम्मा उप्पज्जन्ति. पत्ते पन उप्पज्जन्ति, अथ सत्था सिक्खापदं पञ्ञपेति –
‘‘यो पन भिक्खु अचेलकस्स वा परिब्बाजकस्स वा परिब्बाजिकाय वा सहत्था खादनीयं वा भोजनीयं वा ददेय्य पाचित्तिय’’न्ति (पाचि. २७०).
इदञ्हि लाभग्गपत्ते सङ्घे सिक्खापदं पञ्ञत्तं.
यसग्गन्ति यसस्स अग्गं. सङ्घो हि याव न यसग्गपत्तो होति, न ताव यसं पटिच्च आसवट्ठानीया धम्मा उप्पज्जन्ति. पत्ते पन उप्पज्जन्ति, अथ सत्था सिक्खापदं पञ्ञपेति ‘‘सुरामेरयपाने पाचित्तिय’’न्ति (पाचि. ३२७). इदञ्हि यसग्गपत्ते सङ्घे सिक्खापदं पञ्ञत्तं.
बाहुसच्चन्ति बहुस्सुतभावं. सङ्घो हि याव न बाहुसच्चपत्तो होति, न ताव आसवट्ठानीया धम्मा उप्पज्जन्ति. बाहुसच्चपत्ते पन यस्मा एकं निकायं द्वे निकाये पञ्चपि निकाये उग्गहेत्वा अयोनिसो उम्मुज्जमाना पुग्गला रसेन रसं संसन्देत्वा उद्धम्मं उब्बिनयं सत्थु सासनं दीपेन्ति, अथ सत्था – ‘‘यो पन भिक्खु एवं वदेय्य तथाहं भगवता धम्मं देसितं आजानामि (पाचि. ४१८)…पे… समणुद्देसोपि चे एवं वदेय्या’’तिआदिना (पाचि. ४२९) नयेन सिक्खापदं पञ्ञपेति.
रत्तञ्ञुतं पत्तोति एत्थ रत्तियो जानन्तीति रत्तञ्ञू. अत्तनो पब्बजितदिवसतो पट्ठाय बहू रत्तियो जानन्ति, चिरपब्बजिताति वुत्तं होति. रत्तञ्ञूनं भावं रत्तञ्ञुतं. तत्र रत्तञ्ञुतं पत्ते सङ्घे उपसेनं वङ्गन्तपुत्तं आरब्भ सिक्खापदं पञ्ञत्तन्ति वेदितब्बं. सो हायस्मा ऊनदसवस्से भिक्खू उपसम्पादेन्ते दिस्वा एकवस्सो सद्धिविहारिकं उपसम्पादेसि. अथ भगवा सिक्खापदं पञ्ञपेसि – ‘‘न, भिक्खवे, ऊनदसवस्सेन उपसम्पादेतब्बो, यो उपसम्पादेय्य आपत्ति दुक्कटस्सा’’ति (महाव. ७५). एवं पञ्ञत्ते सिक्खापदे पुन भिक्खू ‘‘दसवस्सम्हा दसवस्सम्हा’’ति बाला अब्यत्ता उपसम्पादेन्ति. अथ भगवा अपरम्पि सिक्खापदं पञ्ञपेसि – ‘‘न, भिक्खवे, बालेन अब्यत्तेन उपसम्पादेतब्बो, यो उपसम्पादेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, ब्यत्तेन भिक्खुना पटिबलेन दसवस्सेन वा अतिरेकदसवस्सेन वा उपसम्पादेतु’’न्ति. इति रत्तञ्ञुतं पत्तकाले द्वे सिक्खापदानि पञ्ञत्तानि.
१४६. आजानीयसुसूपमं धम्मपरियायं देसेसिन्ति तरुणाजानीयउपमं कत्वा धम्मं देसयिं. तत्राति तस्मिं असरणे. न खो, भद्दालि, एसेव हेतूति न एस सिक्खाय अपरिपूरकारीभावोयेव एको हेतु.
१४७. मुखाधाने कारणं कारेतीति खलीनबन्धादीहि मुखट्ठपने साधुकं गीवं पग्गण्हापेतुं कारणं कारेति. विसूकायितानीतिआदीहि विसेवनाचारं कथेसि. सब्बानेव हेतानि अञ्ञमञ्ञवेवचनानि. तस्मिं ठानेति तस्मिं विसेवनाचारे. परिनिब्बायतीति निब्बिसेवनो होति, तं विसेवनं जहतीति अत्थो. युगाधानेति युगट्ठपने युगस्स साधुकं गहणत्थं.
अनुक्कमेति चत्तारोपि पादे एकप्पहारेनेव उक्खिपने च निक्खिपने च. परसेनाय हि आवाटे ठत्वा असिं गहेत्वा आगच्छन्तस्स अस्सस्स पादे छिन्दन्ति. तस्मिं समये एस एकप्पहारेनेव चत्तारोपि पादे उक्खिपिस्सतीति रज्जुबन्धनविधानेन एतं कारणं करोन्ति. मण्डलेति यथा अस्से निसिन्नोयेव भूमियं पतितं आवुधं गहेतुं सक्कोति, एवं करणत्थं मण्डले कारणं कारेति. खुरकासेति अग्गग्गखुरेहि पथवीकमने. रत्तिं ओक्कन्तकरणस्मिञ्हि यथा पदसद्दो न सुय्यति, तदत्थं एकस्मिं ठाने सञ्ञं दत्वा अग्गग्गखुरेहियेव गमनं सिक्खापेन्ति. तं सन्धायेतं वुत्तं. जवेति सीघवाहने. ‘‘धावे’’तिपि पाठो. अत्तनो पराजये सति पलायनत्थं, परं पलायन्तं अनुबन्धित्वा गहणत्थञ्च एतं कारणं कारेति. दवत्तेति दवत्ताय, युद्धकालस्मिञ्हि हत्थीसु वा कोञ्चनादं करोन्तेसु अस्सेसु वा हसन्तेसु रथेसु वा निघोसन्तेसु योधेसु वा उक्कुट्ठिं करोन्तेसु तस्स रवस्स अभायित्वा परसेनपवेसनत्थं अयं कारणा करीयति.
राजगुणेति रञ्ञा जानितब्बगुणे. कूटकण्णरञ्ञो किर गुळवण्णो नाम अस्सो अहोसि. राजा पाचीनद्वारेन निक्खमित्वा चेतियपब्बतं गमिस्सामीति कलम्बनदीतीरं सम्पत्तो. अस्सो तीरे ठत्वा उदकं ओतरितुं न इच्छति, राजा अस्साचरियं आमन्तेत्वा – ‘‘अहो तया अस्सो सिक्खापितो उदकं ओतरितुं न इच्छती’’ति आह. आचरियो – ‘‘सुसिक्खापितो देव अस्सो, एवमस्स हि चित्तं ‘सचाहं उदकं ओतरिस्सामि, वालं तेमिस्सति, वाले तिन्ते रञ्ञो अङ्गे उदकं पातेय्या’ति एवं तुम्हाकं सरीरे उदकपातनभयेन न ओतरति, वालं गण्हापेथा’’ति आह. राजा तथा कारेसि. अस्सो वेगेन ओतरित्वा पारं गतो. एतदत्थं अयं कारणा करीयति. राजवंसेति अस्सराजवंसे. वंसो चेसो अस्सराजानं, तथारूपेन पहारेन छिन्नभिन्नसरीरापि अस्सारोहं परसेनाय अपातेत्वा बहि नीहरन्तियेव. एतदत्थं कारणं कारेतीति अत्थो.
उत्तमे जवेति जवसम्पत्तियं, यथा उत्तमजवो होति, एवं कारणं कारेतीति अत्थो. उत्तमे हयेति उत्तमहयभावे, यथा उत्तमहयो होति, एवं कारणं कारेतीति अत्थो. तत्थ पकतिया उत्तमहयोव उत्तमहयकारणं अरहति, न अञ्ञो. उत्तमहयकारणाय एव च हयो उत्तमजवं पटिपज्जति, न अञ्ञोति.
तत्रिदं वत्थु – एको किर राजा एकं सिन्धवपोतकं लभित्वा सिन्धवभावं अजानित्वाव इमं सिक्खापेहीति आचरियस्स अदासि. आचरियोपि तस्स सिन्धवभावं अजानन्तो तं मासखादकघोटकानं कारणासु उपनेति. सो अत्तनो अननुच्छविकत्ता कारणं न पटिपज्जति. सो तं दमेतुं असक्कोन्तो ‘‘कूटस्सो अयं महाराजा’’ति विस्सज्जापेसि.
अथेकदिवसं एको अस्साचरियपुब्बको दहरो उपज्झायस्स भण्डकं गहेत्वा गच्छन्तो तं परिखापिट्ठे चरन्तं दिस्वा – ‘‘अनग्घो, भन्ते, सिन्धवपोतको’’ति उपज्झायस्स कथेसि. सचे राजा जानेय्य, मङ्गलस्सं नं करेय्याति. थेरो आह – ‘‘मिच्छादिट्ठिको, तात, राजा अप्पेव नाम बुद्धसासने पसीदेय्य रञ्ञो कथेही’’ति. सो गन्त्वा, – ‘‘महाराज, अनग्घो सिन्धवपोतको अत्थी’’ति कथेसि. तया दिट्ठो, ताताति? आम, महाराजाति. किं लद्धुं वट्टतीति? तुम्हाकं भुञ्जनकसुवण्णथाले तुम्हाकं भुञ्जनकभत्तं तुम्हाकं पिवनकरसो तुम्हाकं गन्धा तुम्हाकं मालाति. राजा सब्बं दापेसि. दहरो गाहापेत्वा अगमासि.
अस्सो गन्धं घायित्वाव ‘‘मय्हं गुणजाननकआचरियो अत्थि मञ्ञे’’ति सीसं उक्खिपित्वा ओलोकेन्तो अट्ठासि. दहरो गन्त्वा ‘‘भत्तं भुञ्जा’’ति अच्छरं पहरि. अस्सो आगन्त्वा सुवण्णथाले भत्तं भुञ्जि, रसं पिवि. अथ नं गन्धेहि विलिम्पित्वा राजपिळन्धनं पिळन्धित्वा ‘‘पुरतो पुरतो गच्छा’’ति अच्छरं पहरि. सो दहरस्स पुरतो पुरतो गन्त्वा मङ्गलस्सट्ठाने अट्ठासि. दहरो – ‘‘अयं ते, महाराज, अनग्घो सिन्धवपोतको, इमिनाव नं नियामेन कतिपाहं पटिजग्गापेही’’ति वत्वा निक्खमि.
अथ कतिपाहस्स अच्चयेन आगन्त्वा अस्सस्स आनुभावं पस्सिस्ससि, महाराजाति. साधु आचरिय कुहिं ठत्वा पस्सामाति? उय्यानं गच्छ, महाराजाति. राजा अस्सं गाहापेत्वा अगमासि. दहरो अच्छरं पहरित्वा ‘‘एतं रुक्खं अनुपरियाही’’ति अस्सस्स सञ्ञं अदासि. अस्सो पक्खन्दित्वा रुक्खं अनुपरिगन्त्वा आगतो. राजा नेव गच्छन्तं न आगच्छन्तं अद्दस. दिट्ठो ते, महाराजाति? न दिट्ठो, ताताति. वलञ्जकदण्डं एतं रुक्खं निस्साय ठपेथाति वत्वा अच्छरं पहरि ‘‘वलञ्जकदण्डं गहेत्वा एही’’ति. अस्सो पक्खन्दित्वा मुखेन गहेत्वा आगतो. दिट्ठं, महाराजाति. दिट्ठं, ताताति.
पुन अच्छरं पहरि ‘‘उय्यानस्स पाकारमत्थकेन चरित्वा एही’’ति. अस्सो तथा अकासि. दिट्ठो, महाराजाति. न दिट्ठो, ताताति. रत्तकम्बलं आहरापेत्वा अस्सस्स पादे बन्धापेत्वा तथेव सञ्ञं अदासि. अस्सो उल्लङ्घित्वा पाकारमत्थकेन अनुपरियायि. बलवता पुरिसेन आविञ्छनअलातग्गिसिखा विय उय्यानपाकारमत्थके पञ्ञायित्थ. अस्सो गन्त्वा समीपे ठितो. दिट्ठं, महाराजाति. दिट्ठं, ताताति. मङ्गलपोक्खरणिपाकारमत्थके अनुपरियाहीति सञ्ञं अदासि.
पुन ‘‘पोक्खरणिं ओतरित्वा पदुमपत्तेसु चारिकं चराही’’ति सञ्ञं अदासि. पोक्खरणिं ओतरित्वा सब्बपदुमपत्ते चरित्वा अगमासि, एकं पत्तम्पि अनक्कन्तं वा फालितं वा छिन्दितं वा खण्डितं वा नाहोसि. दिट्ठं, महाराजाति. दिट्ठं, ताताति. अच्छरं पहरित्वा तं हत्थतलं उपनामेसि. धातूपत्थद्धो लङ्घित्वा हत्थतले अट्ठासि. दिट्ठं, महाराजाति? दिट्ठं, ताताति. एवं उत्तमहयो एव उत्तमकारणाय उत्तमजवं पटिपज्जति.
उत्तमे साखल्येति मुदुवाचाय. मुदुवाचाय हि, ‘‘तात, त्वं मा चिन्तयि, रञ्ञो मङ्गलस्सो भविस्ससि, राजभोजनादीनि लभिस्ससी’’ति उत्तमहयकारणं कारेतब्बो. तेन वुत्तं ‘‘उत्तमे साखल्ये’’ति. राजभोग्गोति रञ्ञो उपभोगो. रञ्ञो अङ्गन्तेव सङ्खं गच्छतीति यत्थ कत्थचि गच्छन्तेन हत्थं विय पादं विय अनोहायेव गन्तब्बं होति. तस्मा अङ्गन्ति सङ्खं गच्छति, चतूसु वा सेनङ्गेसु एकं अङ्गं होति.
असेखाय सम्मादिट्ठियाति अरहत्तफलसम्मादिट्ठिया. सम्मासङ्कप्पादयोपि तंसम्पयुत्ताव. सम्माञाणं पुब्बे वुत्तसम्मादिट्ठियेव. ठपेत्वा पन अट्ठ फलङ्गानि सेसा धम्मा विमुत्तीति वेदितब्बा. सेसं सब्बत्थ उत्तानमेव. अयं पन देसना उग्घटितञ्ञूपुग्गलस्स वसेन अरहत्तनिकूटं गहेत्वा निट्ठापिताति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
भद्दालिसुत्तवण्णना निट्ठिता.